dhamma.gift icon
bu-pm bi-pm sarv mg lo mu2 mu3 dpr player
  • 1. Bu-pjBhikkhupātimokkha
  • 2. Bu-ssBhikkhupātimokkha
  • 3. Bu-ayBhikkhupātimokkha
  • 4. Bu-np1vagBhikkhupātimokkha
  • 5. Bu-np2vagBhikkhupātimokkha
  • 6. Bu-np3vagBhikkhupātimokkha
  • 7. Bu-pc1vagBhikkhupātimokkha
  • 8. Bu-pc2vagBhikkhupātimokkha
  • 9. Bu-pc3vagBhikkhupātimokkha
  • 10. Bu-pc4vagBhikkhupātimokkha
  • 11. Bu-pc5vagBhikkhupātimokkha
  • 12. Bu-pc6vagBhikkhupātimokkha
  • 13. Bu-pc7vagBhikkhupātimokkha
  • 14. Bu-pc8vagBhikkhupātimokkha
  • 15. Bu-pc9vagBhikkhupātimokkha
  • 16. Bu-pdBhikkhupātimokkha
  • 17. Bu-sk1vagBhikkhupātimokkha
  • 18. Bu-sk2vagBhikkhupātimokkha
  • 19. Bu-sk3vagBhikkhupātimokkha
  • 20. Bu-sk4vagBhikkhupātimokkha
  • 21. Bu-sk5vagBhikkhupātimokkha
  • 22. Bu-sk6vagBhikkhupātimokkha
  • 23. Bu-sk7vagBhikkhupātimokkha
  • 24. Bu-asBhikkhupātimokkha

ह्त्म्ल्
  • सन्स्क्रित्तेxते औस् देन् तुर्फ़न्फ़ुन्देन् ११

सार्वास्तिवाद प्रातिमोक्षसूत्र

प्रेलिमिनर्य्

स् द्धम्

SC 1 निष्क्रान्ता अनुपसंपन्नाः समग्रः संघः संनिपतितः किं संघस्य करणीयम् अनागतानाम् आयुष्मन्तश् छन्दं परिशुद्धिं चारोचयत आरोचिते च प्रवेदयतः

SC 2 निर्गतम् आयुष्मन्तो ग्रीष्माद् एकरात्रोनो मासः सैकरात्रास् त्रयो मासा अवशिष्टाः ।

SC 3 आक्रमते जरामरणं प्रलुज्यति शास्तुः शासनम् विलुप्यते जीवितेन्द्रियं । निर्गच्छति सद्धर्मः सीदति प्रतिप् ॥। इर् जायते शैथिल्यं । विवृयन्ते अपायद्वारा । पिथीयन्ते अमृतद्वारा च्छिद्यते धर्मसेतुर् भिद्यते धर्मपोतः संसीदति धर्मप्लवो । निशाम्यते धर्मोल्का ।

SC 4 उत्पाट्यते धर्मवृक्षः प्रपतति धर्मध्वजः उच्छ्रप्यते मारध्वजः शुष्यते धर्मसमुद्रो विकीर्यते ज्ञानसुमेरुर् अस्तंगच्छंति वादिशार्दूला + + कर्णाधाराः सत्पथोपदेशकाः

SC 5 अचिराद् धि मनुष्याणां मृगसंज्ञा भ् । । + + + ति तस्मात् सर्वैर् आयुष्मद्भिर् उद्विग्नैः संवेगम् आपन्नैः तस्यानुत्तरदशबलधरधर्मराजचक्रवर्तिनः पौराणसुचरितकर्मविपाकनिर्जातस्य मृषावादपैशुन्यपारुष्याबद्धप्रलापविवर्जितस्य सत्यानुवर्तिवच + + + मासाववादानुशासनं श्रोतव्यम्

SC 6 अप्रमादेनायुष्मद्भिर् योगः करणीयः अप्रमादाधिगता हि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिर् ये चाप्य् अन्ये कुशला धर्मा बोधपक्ष्याः ॥

इन्त्रोदुच्तोर्य् वेर्सेस्

SC 7 शासयतीति हि शास्त्रं प्रोक्तं सम्यक् च शासयत्य् एषः
मोक्षाय प्रातिमोक्षस् तस्माच् छास्त्रं प्रवरम् एतत् वेर्से १

SC 8 कार्याकार्यम् अवाच्यं वाच्यं यच् चैव भिक्षुणा युक्तम्
तद् इह निखिलेन मुनिना प्रकाशितं प्रातिमोक्षे ’स्मिं वेर्से २

SC 9 दुश्चरिताद् वारयति त्रिविधात् त्रिविधे शुभे नियोजयति ।
बृंहयति कुशलपक्षं क्षपयति दोषां गुणसपत्नां वेर्से ३

SC 10 मिथ्याजीवम् अनार्यं विनाशयति दुर्गतिप्रणेतारम्
स्वर्गापवर्गमार्गं विशोधयति चानुपूर्वेण वेर्से ४

SC 11 यावत् स्थास्यत्य् एषः प्रकाशितस् तेन लोकनाथेन ।
तावत् स्थास्यति धर्मो लोके ’स्मिं शाक्यसिंहस्य वेर्से ५

SC 12 तस्माद् आत्महितार्थं स्थित्यर्थं शासनस्य चैव चिरम् ।
शृणुत मुहूर्तम् अवहिता वक्ष्यामि प्रातिमोक्षम् अहम् वेर्से ६ । ॥

निदानम्

SC 13 शृणोतु भदन्तः संघः अद्य संघस्य पोषथः पांचदशिकः सचेत् संघस्य प्राप्तकालः क्षमते आज्ञा च संघस्य यत् समग्रः संघो ’द्य पोषथं कुर्यात् प्रातिमोक्षसूत्रम् उद्दिशेद् एषा ज्ञप्तिः पोषथं वयम् आयुष्मंतः करिष्यामः प्रातिमोक्षसूत्रम् उद्देक्ष्यामस् तत् सर्वे संतः शृणुत साधु च सुष्ठु च मनसिकुरुत यस्य वः स्यात् सत्य् आपत्तिः साविष्कर्तव्या असत्याम् आपत्तौ तूष्णीं भवितव्यं तूष्णींभावेन वयम् आयुष्मन्तः परिशुद्धा इति वेदयिष्यामो यथा च प्रत्येकपृष्टस्य भिक्षोर् व्याकरणं भवत्य् एवम् एवैवंरूपायां भिक्षुपरिषदि यावत् त्रिर् अप्य् अनुश्रावणा भवति । यः पुनर् भिक्षुर् एवंरूपायां भिक्षुपरिषदि यावत् त्रिर् अप्य् अनुश्राव्यमाणे स्मरं सतीम् आपत्तिं नाविष्करोति संप्रजानमृषावादो ’स्य भवति संप्रजानमृषावादस् त्व् आयुष्मन्त अन्तरायिको धर्म इत्य् उक्तं भगवता तस्माद् आपन्नेन भिक्षुणा विशुद्धिप्रेक्षिणा स्मरता सती आपत्तिर् आविष्कर्तव्या । आविष्कृत्वास्य फाषं भवति नानाविष्कृत्वा ॥

SC 14 उद्दिष्टं मयायुष्मन्तः प्रातिमोक्षसूत्रोद्देशस्य निदानं । तत्राहम् आयुष्मतः पृच्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रिर् अपि पृच्छामि कच्चित् स्थात्र परिशुद्धा परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एवाहं धारयामि ॥

४ पाराजिका रुलेस्

SC 15 इमे पुनर् आयुष्मन्तश् चत्वारः पाराजिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

पाराजिक १

SC 16 यः पुनर् भिक्षुर् भिक्षुभिः सार्धं शिक्षासामीचिसमापन्नः शिक्षाम् अप्रत्याख्या य शि क्षादौर्बल्यं वानाविष्कृत्वा मैथुनं धर्मं प्रतिषेवेत अन्ततस् तीर्यग्योनिगतयापि सार्धम् अयं भिक्षुः पाराजिको भवत्य् असंवास्यः

पाराजिक २

SC 17 यः पुनर् भिक्षुर् अदत्तं स्तेयसंख्यातम् आदद्याद् यथारूपेणादत्तादानेन राजा ह्य् एनं गृहीत्वा हन्याद् वा बध्नीयाद् वा प्रवासयेद् वा एवं चैनं वदेच् चोरो ’सि बालो ’सि मूढो ’सि स्तेयो ’सीत्य् एवंरूपं भिक्षुर् अदत्तम् आददानः पाराजिको भवत्य् असंवास्यः

पाराजिक ३

SC 18 यः पुनर् भिक्षुर् मनुष्यं स्वहस्तेन संचिन्त्य जीविताद् व्यपरोपयेच् छस्त्रं वैनम् आधारयेच् छस्त्राधारकं वास्य पर्येषयेद् एवं वैनं वदेद् धम्भोः पुरुष किं तवानेन पापकेन दुर्जीवितेन मृतं ते जीविताद् वरम् इति चित्तानुमतं चित्तसंकल्पितम् अनेकपर्यायेण मरणाय समादापयेन् मरणवर्णं वास्यानुसंवर्णयेत् स च तेनोपक्रमेण कालं कुर्याद् अयम् अपि भिक्षुः पाराजिको भवत्य् असंवास्यः

पाराजिक ४

SC 19 यः पुनर् भिक्षुर् अनभिजान न् न् अपरिजानन्न् उत्तरिमनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा प्रतिजानीयाज् जानामीति पश्यामीति सो ’परेण समयेन समनुयुज्यमानो वा असमनुयुज्यमानो वा एवं वदेद् अजानमानो ’हम् अवोचं जानामीत्य् अपश्यन्न् अवोचं पश्यामीति तुच्छं मृषा विलपितम् अन्यत्राभिमानाद् अयम् अपि भिक्षुः पाराजिको भवत्य् असंवास्यः


SC 20 उद्दिष्टा मयायुष्मन्तश् चत्वारः पाराजिका धर्मा येषां भिक्षुर् अन्यतमान्यतमं धर्मम् आपन्नो न लभते भिक्षुभिः सार्धं संवासं वा संभोगं वा यथा पूर्वं तथा पश्चात् पाराजिको भवत्य् असंवास्यः तत्राहम् आयुष्मतः पृच्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रिर् अपि पृच्छामि कच्चित् स्थात्र प रिशुद्धाः परिशुद्धा अ त्रायुष्मन्तो यस्मा त् तूष्णीम् एवम् एवाहं धारयामि ॥

२। संघावशेषा

SC 21 इमे पुनर् आयुष्मन्तस् त्रयोदश संघावशेषा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

संघावशेष १

SC 22 संचिन्त्य शुक्रविसर्गो ’न्यत्र स्वप्नान्तरात् संघावशेषः

संघावशेष २

SC 23 यः पुनर् भिक्षुर् उदीर्णविपरिणतेन चित्तेन मातृग्रामेण सार्धं कायसंसर्गं समापद्येत हस्तग्रहणं वा वेणीग्रहणं वा अन्यतमान्यतमस्य वाङ्गजातस्यामर्शनं परामर्शनं वा संघावशेषः

संघावशेष ३

SC 24 यः पुनर् भिक्षुर् उदीर्णविपरिणतेन चित्तेन मातृग्रामं दुष्ठुलया वाचा आभाषेत पापिकया असभ्यया मैथुनोपसंहितया यथापि तद् युवा युवतीम् इति संघावशेषः

संघावशेष ४

SC 25 यः पुनर् भिक्षुर् उदीर्णविपरिणतेन चित्तेन मातृग्रामस्यान्तिके आत्मनः कायपरिचर्याया वर्णं भाषेत एषाग्र्य् भगिनि परिचर्याणां य न् मादृशं भिक्षुं शीलवन्तं कल्याणधर्माणं ब्रह्मचारिणम् अने धर्मेण परिचरेद् यदुत मैथुनोपसंहितेन संघावशेषः

संघावशेष ५

SC 26 यः पुनर् भिक्षुः संचारित्रं समापद्येत स्त्रिया वा पुरुषमतेन पुरुषस्य वा स्त्रीमतेन जायात्वेन वा जारित्वेन वा अन्ततस् तत्क्षणम् अपि संघावशेषः

संघावशेष ६

SC 27 स्वयाचितां भिक्षुणा कुटिं कारयता अस्वामिकाम् आत्मोद्देशिकां प्रामाणिका कुटिः कारयितव्या तत्रेदं कुटिप्रमाणं दीर्घतो द्वादश वितस्तयः सुगतवितस्त्या तीर्यक् सप्तान्तरतस् तेन भिक्षुणा भिक्षवो ’भिनेतव्या वास्तु देशयितुम् अभिनीतैर् भिक्षुभिर् वास्तु देशयितव्यम् अनारम्भं सपराक्रमं सारम्भे चेद् भिक्षुर् वास्तुन्य् अपराक्रमे स्वयाचितां कुटिं कारयमाण अस्वामिकाम् आत्मोद्देशिकां भिक्ष् न् नाभिनयेद् वास्तु देशयितुं प्रमाणं वातिक्रमेत् संघावशेषः

संघावशेष ७

SC 28 म् हल्लकं भिक्षुणा विहारं कारयता सस्वामिकम् आत्मोद्देशिकं तेन भिक्षुणा भिक्षवो ’भिनेत व्या वा स्तु देशयितुम् अभिनीतैर् भिक्षुभिर् वास्तु देशयितव्यम् अनारंभ सपराक्रमं सार भे चेद् भि क्षुर् वास्तु न्य् अपराक्रमे महल्लकं विहारं कारयमाणः सस्वामिकम् आत्मोद्देशिकं भिक्ष् न् नाभिनयेद् वास्तुदेशनायै संघावशेषः

संघावशेष ८

SC 29 यः पुनर् भिक्षुर् दुष्टो दोषाद् अप्रतीतः शुद्धं भिक्षुम् अन् आप न्न म् अमूलकेन पाराजिकेन धर्मेणानुध्वंसयेद् अप्य् एवैनं ब्रह्मचर्याच् च्यावयेयम् इति तस्य साधु च सुष्ठु च समनुयुज्यमानस्य समनुगाह्यमानस्य अमूलं चैव तद् अधिकरणं भवेद् भिक्षुश् चानुध्वंसयिता दोषे प्रतितिष्ठेद् दोषेण् आवोचम् इति संघावशेष् अः

संघावशेष ९

SC 30 यः पुनर् भिक्षुर् दुष्टो दोषाद् अप्रतीतः अन्यथाभागीयस्याधिकरणस्य कंचिद् एव लेशमात्रं धर्मम् उपादाय अपाराजिकं भिक्षुं पाराजिकेन धर्मेणानुध्वंसयेद् अप्य् एवैनं ब्रह्मचर्याच् च्यावयेयम् इति तस्य साधु च सुष्ठु च समनुयुज्यमानस्य समनुगाह्यमानस्य अन्यथाभागि तद् अधिकरणं भवेद् अन्यथाभागीनश् चाधिकरणात् कश्चिद् एव लेशमात्रो धर्म उपादत्तो भवेद् भिक्षुश् चानुध्वंसयिता दोषे प्रतितिष्ठेद् दोषेणावोचम् इति संघवशेष

संघावशेष १०

SC 31 यः पुनर् भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमेद् भेदसंवर्तनीयं वाधिकरणं समादाय विगृह्य तिष्ठेत् स भिक्षुर् भिक्षुभिर् एवं स्याद् वचनीयो मा त्वम् आयुष्मं समग्रस्य संघस्य भेदाय पराक्रम मा भेदसंवर्तनीयम् अधिकरणं समादाय विगृह्य स्थ् ः समेत्व् आयुष्मं सार्धं संघेन समग्रो हि संघः सहितः संमोदमान अविवदमान एकाग्र एकोद्देश एकक्षीरोदकीभूतः सुखं फाषं विहरति निःसृज त्वम् आयुष्मं संघभेदकरं वस्तु । एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तद् एव वस्तु समादाय विगृह्य तिष्ठेन् न प्रतिनिःसृजेत् स भिक्षुर् भिक्षुभिर् यावत् त्रिर् अपि समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय स यावत् त्रिर् अपि समनुशिष्यमाणस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् संघावशेषः १०

संघावशेष ११

SC 32 तस्य चेद् भिक्षोर् भिक्षवः स्युर् अनुवर्तिनो व्यग्रवादिन एको वा द्वौ वा संबहुला वा ते तां भिक्षून् एवं वदेयुर् मा यूयम् आयुष्मंत इत्थंनामानं भिक्षुम् अत्र वस्तुनिः किंचिद् वदन्तु तत् कस्माद् धेतोर् धर्मवादी चैष भिक्षुर् विनयवादी च अस्माकं चैष च्छन्दं च रुचिं चादायानुव्याहरति । जानं चैष भिक्षुर् भाषते नाजानं यच् चास्य भिक्षो रोचते च क्षमते च अस्माकम् अपि तद् रोचते च क्षमते च । ते भिक्षवो भिक्षुभिर् एवं स्युर् वचनीयाः नैष भिक्षुर् धर्मवादी न विनयवादी अधर्मं चैषो ’विनयं चादाय विगृह्यानुव्याहरति निः सृज त्व् आयुष्मन्तः संघभेदानुवर्तितां व्यग्रवादितां समग्रो हि संघः सहितः संमोदमान अविवदमान एकाग्र एकोद्देश एकक्षीरोदकीभूतः सुखं फाषं विहरति एवं चेत् ते भिक्षवो भिक्षुभिर् उच् य् अमानास् तद् एव वस्तु समादाय विगृह्य तिष्ठेयुर् न प्रतिनिःसृजेयुस् ते भिक्षवो भिक्षुभिर् यावत् त् रि र् अपि समनुशासितव्यास् तस्य वस्तुनः प्रतिनिःसर्गाय ते या वत् त्र् इर् अपि समनुशिष्यमाणास् तद् वस्तु प्रतिनिःसृजेयुर् इत्य् एवं कुशलं नो चेत् प्र त् निःसृजेयुः संघावशेषः ११

संघावशेष १२

SC 33 भिक्षुः पुनर् अन्यतमं ग्रामं वा निगमं वोपनिःश् रि त्य विहरेत् स च स्यात् कुलदूषकः पा समाचारः तस्य कुलानि दुष्टानि दृश्येरन् वा श्रूयेरन् वा प्रज्ञायेरन् वा पापकाश् च तस्य समाचारा दृश्येर न् वा श्रूयेर न् वा प्रज्ञायेरन् वा कुलदूषकश् च स्यात् पापसमाचा रः स भिक्षुर् भिक्षुभिर् एवं स्याद् वचनीयः आयुष्मां कुलदूषकः पा पसमा चारस् तस्य ते कुलानि दुष्टानि दृश्यन्ते ’पि श्रूयन्ते ’पि प्रज्ञायन्ते ’पि पापक् श् च ते सम् आचारा द् श् य् न्ते ’पि श्रूयन्ते ’पि प्रज्ञायन्ते ’पि कुलदूषकश् चायुष्मां पापसमाचारः प्रक्रमत्व् आ यु ष्मा अस्माद् आवासाद् अलं तवेहोषितेन एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तान् भिक्षून् एवं वदेच् छन्दगामिन आयुष्मन्तो भिक्षवो द्वेषगामिनो भयगामिनो मो गामिनो यत्र हि नाम तादृशीम् एवापत्तिम् आपन्नान् एकत्यां भिक्षूं प्रवासयन्त्य् एकत्यां भिक्षून् न प्रवासयन्ति स भिक्षुर् भिक्षुभिर् एवं स्याद् वचनीयः नेमे भिक्षवश् छन्दगामिन् ओ न द् व् एषगामिनो न भयगामिनो न मोहगामिन अपि त्व् आयुष्मान् एव कुलदूषकः पापसमाचारः तस्य ते कुलानि दुष्टानि दृश्यन्ते ’पि श्रूयन्ते ’पि प्रज्ञाय न् त् ’प् प् पकाश् च ते समाचारा दृश्यन्ते ’पि श्रूयन्ते ’पि प्रज्ञायन्ते ’पि कुलदूषकश् चायुष्मान् पापसमाचारः निःसृजत्व् आयुष्मांश् छन्दगामि वचनं द्वेषगामि भयगामि मोहगामि वचनं एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तद् एव वस्तु समादाय विगृह्य तिष्ठेन् न प्रतिनिःसृजेत् स भिक्षुर् भिक्षुभिर् यावत् त्रिर् अपि समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय स यावत् त्रिर् अपि समनुशिष्यमाणस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् संघावशेषः १२

संघावशेष १३

SC 34 भिक्षुः पुनर् इहैकत्यो दुर्वचजातीयः स्यात् स उद्देशपर्यापन्नैः शिक्षापदैर् भिक्षुभिः सह धर्मेण सह विनयेनोच्यमान आत्मानम् अवचनीयं कुर्यान् मा माम् आयुष्मन्तः कि चिद् वदन्तु कल्याणं वा पापकं वा अहम् अप्य् आयुष्मतो न किंचिद् वक्ष्यामि कल्याणं वा पापकं वा विरम न् त्व् आयुष्मन्तो मद्वचनाद् अलं वो म् । + + क्तेन स भिक्षुर् भिक्षुभिर् एवं स्याद् वचनीयो मा त्वम् आयुष्मन्न् उद्देशपर्यापन्नैः शिक्षापदैर् भिक्षुभिः सह धर्मेण सह विनयेनोच्यमान आत्मानम् अवचनीयं कार्षीर् वचनीयम् एवायुष्मान् आत्मानं करोतु आयुष्म न् तम् अपि भिक्षवो वक्ष्यन्ति सह धर्मेण सह विनयेन आयुष्मान् अपि भिक्षूं वदतु सह धर्मेण सह विनयेन एवं संवृद्धा तस्य भगवतः परिषद् यदुतान्योन्यवचनीयाद् अन्योन्याववादाद् अन्योन्यानुशासनाद् अन्योन्यापत्तिव्युत्थापनान् निःसृजत्व् आयुष्म् न् आत्म अवचनीयकर्मान्ततां एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् द् एव वस्तु समादाय विगृह्य तिष्ठेन् न प्रतिनिःसृजेत् स भिक्षुर् भिक्षुभिर् यावत् त्रिर् अपि समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय स यावत् त्रिर् अपि समनुशिष्यमाणस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् संघावशेषः १३


SC 35 उद्दिष्टा मयायुष्मन्तस् त्रयोदश संघावशेषा धर्मा नव प्रथमापत्तयश् चत्वारो यावत्तृतीयका येषां भिक्षुर् अन्यतमान्यतमं धर्मम् आपन्नो यावत्कालं जानं प्रतिच्छादयति तावत्कालम् अकामं परिवस्तव्यं भवति । पर्युषितपरिवासितेन भिक्षुणा उत्तरं संघे षड्रात्रं मानाप्यं चर्तव्यं भवति चीर्णमानाप्यो भिक्षुर् बृहणात् प्रतिबद्धः कृतानुधर्मो यत्र स्याद् विंशतिगणो भिक्षुसंघस् तत्र स भिक्षुर् आबृहितव्य एकेनाप्य् ऊनो विंशतिगणो भिक्षुसंघस् तं भिक्षुम् आबृह्यात् स च भिक्षुर् अनाबृहितस् ते च भिक्षवो गर्ह्या इयं तत्र सामीचिः तत्राहम् आयुष्मतः पृच्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रिर् अपि पृच्छामि कच्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥ ॥

२ अनियत रुलेस्

SC 36 इमौ पुनर् आयुष्मन्तो द्वाव् अनियतौ धर्माव् अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छतः ॥

अनियत १

SC 37 यः पुनर् भिक्षुर् मातृग्रामेण सार्धम् एकैकेन रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेद् अलं गम न् ईयेन तं च श्राद्धेयवचनोपासिका त्रयाणां धर्माणाम् अन्यतमान्यतमेन धर्मेण वदेत् पाराजिकेन वा संघावशेषेण वा पातयन्तिकेन वा निषद्यां भिक्षुः प्रतिजानमानस् त्रयाणां धर्माणाम् अन्यतमान्यतमेन धर्मेण कारयितव्यः पाराजिकेन वा संघावशेषेण वा पातयन्तिकेन वा येन येन धर्मेण वा श्राद्धेयवचनोपासिका तं भिक्षुं वदेत् तेन तेन स भिक्षुः क् रयितव्यः अयं धर्मो ’नियतः

अनियत २

SC 38 न च रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेन् नाल गमनीयेन अपि तु तं म् तृग्रामं दुष्ठुलया वाचा आभाषेत पापिकया असभ्यया मैथुनोपसंहितया तं च श्राद्धेयवचनोपासिका द्वयोर् धर्मयोर् अन्यतमान्यतमेन धर्मेण वदेत् संघावशेषेण वा पातयन्तिकेन वा निषद्यां भिक्षुः प्रतिजानमानो द्वयोर् धर्मयोर् अन्यतमान्यतमेन धर्मेण कारयितव्यः संघावशेषेण वा पा त् अयन्तिकेन वा येन येन धर्मेण वा श्राद्धेयवचनोपासिका तं भिक्षुं वदेत् तेन तेन स भिक्षुः कारयितव्यः अयम् अपि धर्मो ’नियतः


SC 39 उद्दिष्टौ मयायुष्म न् तो द्वाव् अनियतौ धर्मौ तत्राहम् आयुष्मतः पृच्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रिर् अपि पृच्छामि कच्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मा त् तूष्णीम् एवम् एतद् धारयामि ॥ ॥

३० निःसर्गिकाः पातयन्तिका रुलेस्

SC 40 इमे पुन र् आ युष्मन्तस् त्रिंशन् निःसर्गिकाः पातयन्तिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ॥

निःसर्गिका पातयन्तिका १

SC 41 निष्ठितचीवरेण भिक्षुणा उद्धृते कठिने दशाहपरमम् अतिरिक्तं चीवरं धारयितव्यं तत उत्तरं धारयेन् निःसर्गिका पातयन्तिका

निःसर्गिका पातयन्तिका २

SC 42 निष्ठितचीवरो भिक्षुर् उद्धृते कठिने एकरात्रम् अपि त्रयाणां चीवराणाम् अन्यतमान्यतमस्माच् चीवराद् विप्रवसेद् अन्यत्र संघसंमत्या निःसर्गिका पातयन्तिका

निःसर्गिका पातयन्तिका ३

SC 43 निष्ठितचीवरस्य भिक्षोर् उद्धृते कठिने उत्पद्येताकालचीवरम् आक् ंक्षमाणेन तेन भिक्षुणा प्रतिगृहीतव्यं प्रतिगृह्य सचेत् परिपूर्येत क्षिप्रम् एव कृ त्वा धारयितव्यं नो चेत् परिपूर्येत मासपरमं तेन भिक्षुणा तच् चीवरम् उपनिक्षि प्तव्यं सत्या चीवरप्रत्याशायाम् ऊनस्य वा परिपूर्यार्थं तत उत्तरम् उपनिक्षिपेन् निःसर्गिका पातय न् तिका

निःसर्गिका पातयन्तिका ४

SC 44 यः पुनर् भिक्षुर् अज्ञात्या भिक्षुण्या पुराणचीवरं धावयेद् वा रञ्जयेद् वा आकोटयेद् वा निःसर्गिका पातयन्तिक्

निःसर्गिका पातयन्तिका ५

SC 45 यः पुनर् भिक्षुर् अज्ञात्या भिक्षुण्याः सन्तिकाच् चीवरं प्रतिगृह्णीयाद् अन्यत्र परिवर्तकेन निःसर्गिका पातयन्तिका

निःसर्गिका पातयन्तिका ६

SC 46 यः पुनर् भिक्षुर् अज्ञातिं गृहपतिं गृहपतिपत्नीं वा चीवरं विज्ञापयेद् अन्यत्र समयाद् अभिनिष्पन्ने चीवरे निःसर्गिका पातयन्तिका ६ तत्रा ं समय आच्छिन्नचीवरो भिक्षुः स्यान् नष्टचीवरो व् आ दग्धचीवरो व् आ ऊढचीवर् ओ वा अयं तत्र समयः

निःसर्गिका पातयन्तिका ७

SC 47 आच्छिन्नचीवरेण भिक्षुणा नष्टचीवरेण वा दग्धचीवरेण वा ऊढचीवरेण वा अज्ञाति ं ग् हप तिं गृहपतिपत्नीं वा चीवरं विज्ञा ॥। तं चेद् भि क्षु श्रा द् ध् गृहपतिर् गृहपतिपत्नी वा संबहुलैश् चीवरै प्रवारयेद् आकांक्षमाणेन तेन भिक्षुणा सान्तरोत्तरप ततश् चीवरं प्रतिगृहीतव्यं तत उत्तरं प्रति गृह्णीयान् न् इःसर्गिका पातयन्तिका

निःसर्गिका पातयन्तिका ८

SC 48 भिक्षुं पुनर् उद्दिश्य अज्ञातिना गृहपतिना गृहपतिपत्न्या वा चीवरचेतनकान्य् उपस्कृतानि स्युर् एभिर् अहं चीवरचेतनकैर् एवंरूप म् वं रूपं चीवरं चेतयित्वा एवंनामानं भिक्षुम् आच्छादयिष्यामीति तत्र चेत् स भिक्षुः पूर्व म् अ प्रवारितः समानः उपसंक्रम्य अज्ञातिं गृहपतिं गृहपतिपत्नीं वा कंचिद् एव व् क् ल्प् अम् आ पद्यन्न् एवं वदेद् यानि तान्य् आयुष्मता माम् उद्दिश्य चीवरचेतनकान्य् उपस्कृतान्य् एभि श् च् ईवरचेतनकैर् एवंरूपम् एव ंर् पं चीवरं चेतयित्वा नामानं भिक्षुम् आच्छादयिष्यामीति साध्व् आयुष्मंस् तैश् चीवर चेत नकैर् एवंरूपम् एवंरूपं चीवरं चेतयित्वा चीवरेण मा म् आ च्छादयेति कल्याणकामताम् उपादाय अभिनिष्पन्ने चीवरे निःसर्गिका पातयन्तिका

निःसर्गिका पातयन्तिका ९

SC 49 भिक्षुं पुनर् उद्दिश्य द्वाभ्याम् अज्ञातिभ्यां गृहपतिभ्यां गृहपति पत्नीभ्यां वा प्रत्येकचीवरचेतनकान्य् उपस्कृतानि स्युर् एभिर् आवां चीवरचेतनकैर् एवंरूपं एवंरूपं प्रत्येकचीवरं चेतयित्वा एवंनामानं भिक्षुम् आच्छादयिष्यावः प्रत्येकचीवराभ्याम् इति । तत्र चेत् स भिक्षुः पूर्वम् अप्रवारितः समान उपसंक्रम्य तौ द्वाव् अज्ञाती गृहपती गृहपतिपत्न्यौ वा कंचिद् एव विकल्पम् आपद्यन्न् एवं वदेद् यानि तान्य् आयुष्मद्भ्यां माम् उद्दिश्य चीवरचेतनकान्य् उपस्कृतान्य् एभिर् आवां चीवरचेतनकैर् एवं रूपम् ए वंरूपं प्रत्येकचीवरं चेतयित्वा एवंनामानं भिक्षुम् आच्छादयिष्यावः साध्व् आयुष्मन्तौ तैश् चीवरचेतनकैर् एवंरूपम् एवंरूप प्रत्येकचीवरं चेतयित्व् च्छादयत मां चीवरेण उभौ भूत्वैकेनेति कल्याणकामताम् उपादायाभिनिष्पन्ने चीवरे निःसर्गिक् आ पातयन्तिका

निःसर्गिका पातयन्तिका १०

SC 50 भिक्षुं पुनर् उद्दिश्य राज्ञा वा राजमहामात्रेण वा ब्राह्मणेन वा गृहपतिना वा दूतस्य हस्ते चीवरचेतनकानि प्रेषितानि स्युः स दूतस् तं भिक्षुम् उपसंक्रम्यैवं वदेद् इमानि ते आयुष्म् ं राज्ञा वा राज मह् म् त्र् एण वा ब्राह्म् ण् वा गृहपति ना वा ची वरचेतनकानि प्रेषितानि प्रतिगृह्णात्व् आयुष्मां चीवरचेतनकान्य् अनुकम्पाम् उपादाय । स भिक्षुस् तं दूतम् एवं वदेन् नायुष्मन् दूत कल्पन्ते भिक्षूणां चीवरचेतनकानि प्रतिगृहीतुं चीवरं तु वयं लब्ध्वा कालेन कल्पिकं स्वहस्तं प्रतिगृह्य क्षिप्रम् एव कृत्वा धारयामः स दूतस् तं भिक्षुम् एवं वदेद् अस्त्य् आयुष्मतां कश्चिद् वैय्यापत्यकरो यो भिक्षूणां वैय्यापत्यं करोति । चीवरार्थिकेन भिक्षुणा वैय्यापत्यकरो व्यपदेष्टव्य आरामिको वा उपासको वा एष भिक्षूणां वैय्यापत्यं करोति । स दूतस् तं वैय्यापत्यकरम् उपसंक्रम्यैवं वदेद् इमान्य् आयुष्मं वैय्यापत्यकर चीवरचेतनकानि राज्ञा वा राजमहामात्रेण वा ब्राह्मणेन वा गृहपतिना वा एवंनामानं भिक्षुम् उद्दिश्य प्रेषितानि साध्व् आयुष्मं वैय्यापत्यकर त्वम् एभिश् चीवरचेतनकैर् एवंरूपम् एवंरूपं चीवरं चेतयित्वा । स भिक्षुस् त्वाम् उपसंक्रमिष्यति कालेन तं त्वम् आच्छादय चीवरेण कल्पिकेनेति । एवं स दूतस् तं वैय्यापत्यकरं साधु च सुष्ठु च समनुशिष्य तं भिक्षुम् उपसंक्रम्यैवं वदेद् यो साव् आयुष्मता वैय्यापत्यकरो व्यपदिष्टः समनुशिष्टः स मया । तं त्वम् उपसंक्रम कालेन आच्छादयिष्यति त्वां चीवरेण कल्पिकेनेति । चीवरार्थिकेन भिक्षुणा वैय्यापत्यकरम् उपसंक्रम्य द्विस् त्रिश् चोदयितव्यः स्मारयितव्यः अर्थो मे वैय्यापत्यकर चीवरेण द्विस् त्रिश् चोदयतः स्मारयतः सचेद् अभिनिष्पद्येत चीवरम् इत्य् एवं कुशलं नो चेद् अभिनिष्पद्येत चतुष्पञ्चषट्कृत्वापरमं तूष्णीम् उद्देशे स्थातव्यं तूष्णीम् उद्देशे स्थितस्य सचेद् अभिनिष्पद्येत चीवरम् इत्य् एवं कुशलं नो चेद् अभिनिष्पद्येत तत उत्तरं व्यायमेत चीवरस्याभिनिष्पत्तये अभिनिष्पन्ने चीवरे निःसर्गिका पातयन्तिका । नो चेद् अभिनिष्पद्येत तेन भिक्षुणा यतस् तानि चीवरचेतनकान्य् आनीतानि तत्र स्वयं वा गन्तव्यं दूतो वा प्रेषितव्यो यानि तान्य् आयुष्मता माम् उद्दिश्य चीवरचेतनकानि प्रेषितानि न तान्य् अस्माकं कंचिद् अर्थं प्रकुर्वन्ति प्रजानात्व् आयुष्मा स्वम् अर्थं मा ते प्रणश्येद् इयं तत्र सामीचिः १०

निःसर्गिका पातयन्तिका ११

SC 51 यः पुनर् भिक्षुर् नवं कौशेयं संस्तरं कारयेन् निःसर्गिका पातयन्तिका ११

निःसर्गिका पातयन्तिका १२

SC 52 यः पुनर् भिक्षुः शुद्धकाडानाम् एडकलोम्नां नवं संस्तरं कारयेन् निःसर्गिका पातयन्तिका १२

निःसर्गिका पातयन्तिका १३

SC 53 नवं पुनर् भिक्षुणा संस्तरं कारयता द्वौ भागौ शुद्धकाडानाम् एडकलोम्नाम् आदातव्यौ तृतीयो ’वदातानां चतुर्थो गोचरिकानाम् अनादाय चेद् भिक्षुर् द्वौ भागौ शुद्धकाडानाम् एडकलोम्नाम् तृतीयम् अवदातानां चतुर्थं गोचरिकानां नवं संस्तरं कारयेत् कल्याणकामताम् उपादाय निःसर्गिका पातयन्तिका १३

निःसर्गिका पातयन्तिका १४

SC 54 नवं पुनर् भिक्षुणा संस्तरं कारयित्वा अकामं षड् वर्षाणि धारयितव्यं अर्वाक् चेद् भिक्षुः षड्भ्यो वर्षेभ्यः पुराणसंस्तरं निःसृज्य वा अनिःसृज्य वा अन्यं नवं संस्तरं कारयेद् अन्यत्र संघसंमत्या कल्याणकामताम् उपादाय निःसर्गिका पातयन्तिका १४

निःसर्गिका पातयन्तिका १५

SC 55 नवं भिक्षुणा निषीदनसंस्तरं कारयता पुराणनिषीदनसंस्तरसामन्तकात् सुगतवितस्तिर् आदातव्या नवस्य दुर्वर्णीकरणाय अनादाय चेद् भिक्षुः पुराणनिषीदनसंस्तरसामन्तकात् सुगतवितस्तिं नवस्य दुर्वर्णीकरणाय नवं निषीदनसंस्तरं कारयेत् कल्याणकामताम् उपादाय निःसर्गिका पातयन्तिका १५

निःसर्गिका पातयन्तिका १६

SC 56 भिक्षोश् चेद् अध्वानमार्गप्रतिपन्नस्योत्पद्येरन्न् एडकलोमानि आकाङ्क्षता तेन भिक्षुणा प्रतिगृहीतव्यानि प्रतिगृह्य यावत् त्रियोजनपरमं स्वयं हर्तव्यान्य् असति हर्तरि तत उत्तरं हरेन् निःसर्गिका पातयन्तिका १६

निःसर्गिका पातयन्तिका १७

SC 57 यः पुनर् भिक्षुर् अज्ञात्या भिक्षुण्या एडकलोमानि धावयेद् वा रञ्जयेद् वा विजटयेद् वा निःसर्गिका पातयन्तिका १७

निःसर्गिका पातयन्तिका १८

SC 58 यः पुनर् भिक्षुः स्वहस्तं रूप्यम् उ द् गृह्णीयाद् वा उद्ग्राहयेद् वा निःसर्गिका पातयन्तिका १८

निःसर्गिका पातयन्तिका १९

SC 59 यः पुनर् भिक्षुर् नानाप्रकारं रूप्यव्यवहारं समापद्येत निःसर्गिका पातयन्तिका १९

निःसर्गिका पातयन्तिका २०

SC 60 यः पुनर् भिक्षुर् नानाप्रकारं क्रयविक्रयं समापद्येत निःसर्गि का पातयन्तिका २०

निःसर्गिका पातयन्तिका २१

SC 61 दशाहपरमं भिक्षुणा अतिरिक्तं पात्रं धारयितव्यं तत उत्तरं धारयेन् निः र् गिका पातयन्तिका २१

निःसर्गिका पातयन्तिका २२

SC 62 यः पुनर् भिक्षुः सति पारिभोगीये पात्रे ऊनपञ्चबन्धने अन्यं नवं पात्रं विज्ञापयेत् कल्याणकामताम् उपादाय निःसर्गिका पातयन्तिका । तेन भिक्षुणा तत् पात्रं भिक्षुपरिषदि निःसृष्टव्यं यस् तस्यां भिक्षुपरिषदि पात्रपर्यन्तः स तस्यानुप्रदातव्यः इदं ते भिक्षो पात्रं न विसर्जयितव्यं न विकल्पयितव्यं यावद् भेदाद् धारयितव्यं इयं तत्र सामीचिः २२

निःसर्गिका पातयन्तिका २३

SC 63 यः पुनर् भिक्षुः स्वयाचितं सूत्रं विज्ञप्य अज्ञातिना तन्त्रवायेन चीवरं वाययेन् निःसर्गिका पातयन्तिका २३

निःसर्गिका पातयन्तिका २४

SC 64 भिक्षुं चेद् उद्दिश्य अज्ञातिर् गृहपतिर् गृहपतिपत्नी वा तन्त्रवायेन चीवरं वाययेत् तत्र चेत् स भिक्षुः पूर्वम् अप्रवारितः समान उपसंक्रम्य तं तन्त्रवायं कंचिद् एव विकल्पम् आपद्यन्न् एवं वदेद् यद् आयुष्मं तन्त्रवाय जानासि इदं चीवरं माम् उद्दिश्य ऊयते साध्व् आयुष्मान् एतच् चीवरं सूतं च करोतु सुलिखितं च सुविस्तृतं च सुतक्षितं च अप्य् एव वयम् आयुष्मतः क् ंचिद् एव मात्रम् उपसंहरिष्यामः पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंवरं वा एवं चेत् स भिक्षुस् तं तन्त्रवायं संज्ञ प्य वा संज्ञाप्य वा ततः पश्चात् क् ंचिद् एव मात्रम् उपसंहरेद् पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंवरं वा चीवरस्याभिनिष्पत्तये अभिनिष्पन्ने चीवरे निःसर्गिका पातय न्ति का २४

निःसर्गिका पातयन्तिका २५

SC 65 यः पुनर् भिक्षुर् भिक्षोः पात्रं वा चीवरं वा दत्त्वा ततः पश्चाद् अभिषक्तः कुपितश् चण्डीकृतो ’नाप्तमना आच्छिन्द्याद् आच्छेदयेद् वा आनय भिक्षो चीवरं न ते भूयो ददामीति तेन भिक्षुणा स वस्तुशेषो निःसृष्टव्यो भवति चास्य निःसर्गिका पातयन्तिका २५

निःसर्गिका पातयन्तिका २६

SC 66 मासशेषे ग्रीष्मे भिक्षुणा वर्षाशाटीचीवरं पर्येषितव्यं यावद् अर्धमासकृतासु वर्षासु धारयितव्यं । अर्वाक् चेद् भिक्षुर् मासशेषाद् ग्रीष्माद् वर्षाशाटीचीवरं पर्येषेत ऊर्ध्वं चार्धमासकृतासु वर्षासु धारयेन् निःसर्गिका पातयन्तिका २६

निःसर्गिका पातयन्तिका २७

SC 67 दशाहानागतायां प्रवारणायां भिक्षोर् उत्पद्येताकालचीवरम् आकांक्षता तेन भिक्षुणा प्रतिगृहीतव्यं प्रतिगृह्य यावच् चीवरकालसमया न् निक्षिप्तव्यं तत उत्तरम् उपनिक्षिपेन् निःसर्गिका पातय न् तिका २७

निःसर्गिका पातयन्तिका २८

SC 68 त्रयोमासानागते कार्त्तिके पूर्णमासे ऊनवर्षारण्यको भिक्षु र् आरण्यकेषु शय्यासनेषूपगतः स्य् त् साशङ्कसंमतेषु सभयसंमतेषु सप्रतिभयभैरवसंमतेषु आकांक्षतारण्यकेन भिक्षुणा त्रयाणां चीवराणाम् अन्यतमान्यतमं चीवरम् अन्तर्गृहे उपनिक्षिप्तव्यं स्याद् आरण्यकस्य भिक्षोस् तथारूपप्रत्ययो बहिःसीमं गन्तुं षड्रात्रपरमम् आरण्यकेन भिक्षुणा ततश् चीवराद् विप्रवस्तव्यं तत उत्तरं विप्रवसेन् निःसर्गिका पातयन्तिका २८

निःसर्गिका पातयन्तिका २९

SC 69 यः पुनर् भिक्षुर् जानं सांघिकं लाभं परिणतम् आत्मन् अः परिणामयेन् निःसर्गिका पातयन्तिका २९

निःसर्गिका पातयन्तिका ३०

SC 70 यानि तानि भगवता ग्लानानां भिक्षूणां सांप्रेयाणि प्रतिषेवनीयानि भैषज्यान्य् अनुज्ञातानि तद्यथा सर्पिस् तैलं मधु फाणितं सप्ताहपरमं तानि ग्लानेन भिक्षुणा संनिधिकारपरिभोगेन परिभोक्तव्यानि तत उत्तरं परिभुञ्जीत निःसर्गिका पातयन्तिका ३०


SC 71 उद्दिष्टा मयायुष्मन्तस् त्रिंशन् निःसर्गिका पातयन्तिका धर्मास् तत्राहम् आयुष्मतः पृच्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रिर् अपि पृच्छामि कच्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥ ॥

९० पातयन्तिका रुलेस्

SC 72 इमे पुनर् आयुष्मन्तो नवति पातयन्तिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

पातयन्तिका १

संप्रजानमृषावादात् पातयन्तिका

पातयन्तिका २

अपकर्षवादात् पातयन्तिका

पातयन्तिका ३

भिक्षुपैशुन्यात् पातयन्तिका

पातयन्तिका ४

SC 73 यः पुनर् भिक्षुर् जानं संघेन यथाधर्मं निक्षिप्तम् अधिकरणं पुनः कर्मण्य् उत्कोटयेत् पातयन्तिका

पातयन्तिका ५

SC 74 यः पुनर् भिक्षुर् मातृग्रामस्योत्तरंषट्पञ्चिकया वाचा धर्मं देशयेद् अन्यत्र विज्ञपुरुषात् पातयन्तिका

पातयन्तिका ६

SC 75 यः पुनर् भिक्षुर् अनुपसंपन्नेन पुद्गलेन सार्धं पदशो धर्मं वाचयेत् पातयन्तिका

पातयन्तिका ७

SC 76 यः पुनर् भिक्षुर् अनुपसंपन्नस्य पुद्गलस्योत्तरंमनुष्यधर्मम् आरोचयेद् भूतं पातयन्तिका

पातयन्तिका ८

SC 77 यः पुनर् भिक्षुर् भिक्षोर् जानं दुष्ठूलाम् आपत्तिम् अनुपसंपन्नस्य पुद्गलस्यान्तिके आरोचयेद् अन्यत्र संघसंमत्या पा न् तिक्

पातयन्तिका ९

SC 78 यः पुनर् भिक्षुः पूर्वं समनुज्ञको भूत्वा ततः पश्चाद् एवं वदेद् यथा संस्तुतानाम् इमे भिक्षवः सांघिकं लाभं परिणामयन्तीति पात यन्त् का

पातयन्तिका १०

SC 79 यः पुनर् भिक्षुः प्रातिमोक्षसूत्रोद्दिश्यमाने एवं वदेत् किं पुनर् एभिः क्षुद्रानुक्षुद्रैः शिक्षापदैर् उद्दिष्टैर् यानि भिक्षूणां कौकृत्याय विलेखाय विहेठाय संवर्तन्तीति शिक्षाविदण्डनात् पातयन्तिका १०

पातयन्तिका ११

बीजग्रामभूतग्रामपातनात् पा यन्तिका ११

पातयन्तिका १२

अवध्यानक्षिपणात् पातयन्तिका १२

पातयन्तिका १३

अन्य् वादविहेठनात् पात यन्तिका १३

पातयन्तिका १४

SC 80 यः पुनर् भिक्षुः सांघिकं शय्यासनं पीठं वा मञ्चं वा ब्रिसिं वा कुर्चं वा अभ्यवकाशे प्रज्ञप्य ततः प्रक्रमेन् नोद्धरेन् नोद्धारयेद् वा पातयन्तिका १४

पातयन्तिका १५

SC 81 यः पुनर् भिक्षुः सांघिके विहारे शय्यां संस्तीर्य वा संस्तारयेद् वा ततः प्रक्रमेन् नोद्धरेन् नोद्धारयेद् वा पातयन्तिका १५

पातयन्तिका १६

SC 82 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीकृतो ’नाप्तमनाः सांघिकाद् विहाराद् भिक्षुं निष्कर्षेन् निष्कर्षयेद् वा चर परेण मोहपुरुष नश्य त्वं न त्वयेह वस्तव्यम् इदम् एव प्रत्ययं कृत्वा नान्यथात् पा तयन्तिका १६

पातयन्तिका १७

SC 83 यः पुनर् भिक्षुः सांघिके विहारे जानं पूर्वोपगतां भिक्ष् ं पश्चाद् आगत्यानुप्रस्कद्य शय्यां कल्पयेद् यस्य संबाधं भविष्यति स प्रक्रमिष्यतीति इदम् एव प्रत्ययं कृत्वा नान्यथात् पातयन्तिका १७

पातयन्तिका १८

SC 84 यः पुनर् भिक्षुः सांघिके विहारे उपरिविहायसिकुटिकायाम् अहार्यपादके पीठे वा मञ्चे वा बलेन निषीदेद् वा निपद्येद् वा पात यन्तिका

पातयन्तिका १९

SC 85 यः पुनर् भिक्षुः सप्राणकेनोदकेन तृणं वा मृत्तिकं वा सिंचेत् सेचयेद् वा पातयन्तिका

पातयन्तिका २०

SC 86 महल्लकं भिक्षुणा विहारं कारयता यावद् द्वारकोशार्गडस्थापन आलोकसं धि भूमिपरि कर्म् ॥। ॥। ॥।ना द्वौ त्रयो वाच्छाद पथाः संचरो॥। ॥। ॥।व्याधिष्ठातव्या तत उत्तर म् अधितिष्ठेत् पातयन्तिका ॥

पातयन्तिका २१

SC 87 यः पुनर् भिक्षुर् असंमतः संघेन भिक्षुणीर् अववदेत् प् तयन्तिका २१

पातयन्तिका २२

SC 88 सं तो ’त्रापि भि क्षुर् यावत् सूर्यास्तंगमनकालसमयाद् भिक्षुणीर् अवव् अदेत् पा तयन्तिका २२

पातयन्तिका २३

SC 89 यः पुनर् भिक्षुर् एवं देद् आमिषहेतोर् भिक्ष् अवो भिक्षुणीर् अववद् अन्तीति पा तयन्तिका २३

पातयन्तिका २४

SC 90 यः पुनर् भिक्षुर् भिक्षुण्या सार्धं संविधाय समानमार्गं प्रतिपद्येतान्ततो ग्रामान्तरम् अपि अन्यत्र समयात् पातयन्तिका तत्रा यं सम यः सार् थगमनीयो मार्गो भवति साशङ्कसं मतः सभयसंमतः सप्रतिभयभैरवसंमतो ’यं तत्र समयः २४

पातयन्तिका २५

SC 91 यः पुनर् भिक्षुर् भिक्षु ण्या सार्धं संविधा यैकनावम् अभिरुहेद् ऊ र् ध्वग् आमिनीं वाधोगामि नीं वान्यत्र तीर्यक्पारसंतरणात् पातयन्तिका २५

पातयन्तिका २६

SC 92 यः पुनर् भिक्षुर् अज्ञात्या भिक्षुण्याश् चीवरं कुर्यात् पातयन्तिका २६

पातयन्तिका २७

SC 93 यः पुनर् भिक्षुर् अज्ञात्या भिक्षुण्याश् चीवरं दद्यात् पातयन्तिका २७

पातयन्तिका २८

SC 94 यः पुनर् भिक्षुर् भिक्षुण्या सार्धम् एकाकी रहसि प्रतिच्छन्ने निषद्यां कल्पयेत् पातयन्तिका २८

पातयन्तिका २९

SC 95 यः पुनर् भिक्षुर् एका की मातृग्रामेण सार्धम् अभ्यवकाशे निषद्यां कल्पयेत् पातयन्तिका २९

पातयन्तिका ३०

SC 96 यः पुनर् भिक्षुर् भिक्षुणीपरिपाचितं पिण्डपातं परिभुंजीतान्यत्र प्राग् ग् ऋहिसमारम्भात् पातयन्तिका ३०

पातयन्तिका ३१

SC 97 परंपरभोजनम् अन्यत्र समयात् पातयन्तिका तत्रायं समयो ग्लानसमयश् चीवरदानकालसमयो ’यं तत्र समयः ३१

पातयन्तिका ३२

SC 98 एकावसथोषितेन भिक्षुणा अग्लानेनैकः पिण्डपात परिभोक्तव्यस् तत उत्तरं परिभुंजीत पा तयन्तिका ३२

पातयन्तिका ३३

SC 99 भिक्ष वः पुनः संबहुलाः कुलान्य् उपसंक्रमेयुस् तांश् चेच् छ्राद्धा ब् र् आह्मणगृ पतय् ओ याव दर्थं प्रवारयेयुः पूपैर् वा मन्थैर् वा आकांक्षमाणैस् तैर् भिक्षुभि र् द्व् त्रयो वा पात्रपूराः प्रतिगृहीत व्य् आस् तत उत्तरं प्रतिगृह्णीयुः पातयन्तिका । द्वौ त्रीं वा पात्रपूरां प्रतिगृह्य बहि र् आरा मं न् इष्क् र् अम्य सन्तो भिक्षवः संवेदयितव्या इयं तत्र सामीचिः ३३

पातयन्तिका ३४

SC 100 यः पुनर् भिक्षुर् भुक्तवां प्रवारितः अकृता त् इरिक्तं खादनीयभोजनीयं खादेद् वा भुंजीत वा पातयन्तिका ३४

पातयन्तिका ३५

SC 101 यः पुनर् भिक्षुर् जानं भिक्षुं भुक्तवन्तं प्रवारितम् अकृत् आत् इरिक्तेन खादनीयभोजनीयेन यावदर्थं प्रवारयेद् इदम् आयुष्मं खादेति भुंक्ष्वेत्य् आसादनप्रेक्षी कच्चिद् एष भिक्षुर् मुहूर्तम् अप्य् आसादितः स्याद् इदम् एव प्रत्ययं कृत्वा नान्यथा पातयन्तिका ३५

पातयन्तिका ३६

SC 102 गणभोजनम् अन्यत्र समयात् पातयन्तिका तत्रायं समयो ग्लानसमयश् चीवरदानकालसमयः अध्वानमार्गसमयः नावाधिरोहणं महासमाजश्रमणभक्तसमयो ’यं तत्र समयः ३६

पातयन्तिका ३७

SC 103 यः पुनर् भिक्षुर् अकाले खादनीयभोजनीयं खादेद् वा भुंजीत वा पातय न् तिका ३७

पातयन्तिका ३८

SC 104 यः पुनर् भिक्षुः संनिहितं खादनीयभोजनीयं खादेद् वा भुंजीत वा पातयन्तिका ३८

पातयन्तिका ३९

SC 105 यः पुनर् भिक्षुर् अपरिगृहीतम् आहारं मुखद्वारेणाहरेद् अन्यत्रोदकदन्तकाष्ठाभ्यां पातयन्तिका ३९

पातयन्तिका ४०

SC 106 यानि पुनस् तानि कुलेषु प्रणीतभोजनान्य् अनुज्ञातानि तद्यथा क्षीरं दधि नवनीतं सर्पिस् तैलं मत्स्यो मांसवल्लूरा यः पुनर् भिक्षुर् एवंरूपाणि प्रणीतभोजनान्य् आत्मार्थम् अग्लानो विज्ञपयेत् पातयन्तिका ४०

पातयन्तिका ४१

SC 107 यः पुनर् भिक्षुर् जानं सप्राणकम् उदकं परिभुंजीत पातयन्तिका ४१

पातयन्तिका ४२

SC 108 यः पुनर् भिक्षुः सभोजने कुले अनुप्रस्कद्य आसने निषद्यां कल्पयेत् पातयन्तिका ४२

पातयन्तिका ४३

SC 109 यः पुनर् भिक्षुः सभोजने कुले एकाकी एकया रहसि प्रतिच्छन्ने निषद्यां कल्पयेत् पातयन्तिका ४३

पातयन्तिका ४४

SC 110 यः पुनर् भिक्षुर् अचेलकस्य परिव्राजकस्य वा परिव्राजिकाया वा स्वहस्तं खादनीयभोजनीयं दद्यात् पातयन्तिका ४४

पातयन्तिका ४५

SC 111 यः पुनर् भिक्षुर् उद्युक्तां सेनां दर्शनायोपसंक्रमेद् अन्यत्रस् तथारूपप्रत्ययात् पातयन्तिका ४५

पातयन्तिका ४६

SC 112 स्याद् भिक्षोस् तथारूपप्रत्ययो येनोद्युक्तां सेनां गच्छेद् द्विरात्रपरमं तेन भिक्षुणा तत्र सेनायां वस्तव्यं तत उत्तरं वसेत् पातयन्तिका ४६

पातयन्तिका ४७

SC 113 द्विरात्रपरमं चेद् भिक्षुः सेनायां वसत्य् उद्यूथिकां सेनां दर्शनायोपसंक्रमेद् ध्वजाग्रं वा बलाग्रं वा सेनाव्यूहं वा अनीकदर्शनं वा पातयन्तिका ४७

पातयन्तिका ४८

SC 114 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ’नाप्त ना भिक्षोः प्रहारं दद्यात् पात यन्तिका ४८

पातयन्तिका ४९

SC 115 यः पुन र् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ’नाप्तमना भिक्षोस् तलशक्तिकया प्रहारम् अवगुरेत् पातयन्तिका ४९

पातयन्तिका ५०

SC 116 यः पुनर् भिक्षुर् भिक्षोर् ज् नं दुष्ठूलापत्ति प्रतिच्छादयेद् अन्तत एकरात्रम् अपि पा तयन्तिका ५०

पातयन्तिका ५१

SC 117 ः पु नर् भिक्षुर् भिक्षुम् एवं वदेद् एह्य् आयुष्मं कुलान्य् उपसंक्रमिष्यावस् तत्र ते दापयिष्यामि प्रणीतं खादनीयभोजनीयं स तस्य भिक्षोर् अदापयित्वा ततः पश्चाद् एवं वदेद् गच्छ त्वम् आयुष्मन् न मे त्वया सार्धं फाष कथा वा निषद्या वा एकाकिनो मे फाषं कथा वा निषद्या वा उद्योजनप्रेक्षी कच्चिद् एष भिक्षुर् मुहूर्तम् अप्य् उद्योजितः स्याद् एतद् एव प्रत्ययं कृत्वा नान्यथा पातयन्तिका ५१

पातयन्तिका ५२

SC 118 यः पुनर् भिक्षुर् अग्लानो वितपनप्रेक्षी अभ्यवकाशे ज्योतिः समिन्ध्यात् समेधयेद् वान्यत्र प्रत्ययात् पातयन्तिका ५२

पातयन्तिका ५३

SC 119 यः पुनर् भिक्षुर् अनुपसंपन्नेन पुद्गलेन सार्धम् उत्तरंद्विरात्रं सहागारशय्यां कल्पयेत् पातयन्तिका ५३

पातयन्तिका ५४

SC 120 यः पुनर् भिक्षुर् धार्मिके संघकरणीये च्छन्दं दत् त् वा ततः पश्चात् क्षेपधर्मम् आपद्येत पातयन्तिका ५४

पातयन्तिका ५५

SC 121 यः पुनर् भिक्षुर् एवं वदेत् तथाहं भगवतो धर्म देशितम् आजानामि ये अन्तरायिका धर्मास् तां प्रतिषेवतो नालम् अन्तरायायेति स भिक्षुर् भिक्षुभिर् एवं स्याद् वचनीयो मा त्वम् आयुष्मन्न् एवं वद तथाहं भगवतो धर्मं देशितम् आजानामि ये अन्तरायिका धर्मास् तां प्रतिषेवतो नालम् अन्तरायायेति मा भगवन्तं विवद मा भगवन्तम् अभ्याख्याहि न साधु भगवतो ’भ्याख्यानं भवति न च पुनर् भगवान् एवं वदेद् अनेकपर्यायेण भगवता अन्तरायिका धर्माः समाना अन्तरायिका धर्मा इत्य् उक्तास् तांश् च प्रतिषेवतो ’लम् अन्तरायायेति निःसृज त्वम् आयुष्मन्न् इदम् एवंरूपं पापकं दृष्टिगतम् एव चे त् स भिक्षुर् भिक्षुभिर् उच्यमानस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं न चेत् प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय द्व् इर् अपि त्रिर् अपि समनुशिष्यमाणस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् पातयन्तिका ५५

पातयन्तिका ५६

SC 122 यः पुनर् भिक्षुर् जानंस् तथावादिनं पुद्गलम् अकृतानुधर्माणम् अप्रतिनिःसृष्टेन पापकेन दृष्टिगतेन संभुंजीत वा संवसेद् वा तेन वा सार्धं सहागारशय्यां कल्पयेत् पातयन्तिका ५६

पातयन्तिका ५७

SC 123 श्रमणोद्देशश् चेद् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यत् कामां प्रतिषेवतो नालम् अन्तरायायेति । स श्रमणोद्देशो भिक्षुभिर् एवं स्याद् वचनीयो मा त्वम् आयुष्मं श्रमणोद्देश एवं वद तथाहं भगवतो धर्मं देशितम् आजानामि यत् कामां प्रतिषेवतो नालम् अन्तरायायेति मा भगवन्तं विवद मा भगवन्तम् अभ्याख्याहि न साधु भगवतो ’भ्याख्यानं भवति न च पुनर् भगवान् एवं वदेद् अनेकपर्यायेण भगवता अन्तरायिकाः कामाः समाना अन्तरायिका इत्य् उक्तास् तांश् च प्रतिषेवतो ’लम् अन्तरायायेति निःसृज त्वं श्रमणोद्देश इदम् एवंरूपं पापकं दृष्टिगतम् एवं चेत् स श्रमणोद्देशो भिक्षुभिर् उच्यमानस् तत् पापकं दृष्टिगतं प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजे द् द्विर् अपि त्रिर् अपि समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय स याव द् द्विर् अपि त्रिर् अपि समनुशिष्यमाण सचेत् प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् स श्रमणोद् द् एशो भिक्षुभिर् एवं स्याद् वचनीयः

SC 124 अद्याग्रेण ते श्रमणोद्देश न स भगवां शास्ता व्यपदेष्टव्यो नाप्य् अन्ये भिक्षवः समनुबन्धितव्या याम् अप्य् अन्ये श्रमणोद्द् एश् आ लभन्ते भिक्षुभिः सार्धं द्विरात्रं सहागारशय्यां सापि ते अद्याग्रेण नास्ति चर परेण मोहपुरुष नश्य त्वं न त्वयेह वस्तव्यम् इति ।

SC 125 यः पुनर् भिक्षुर् जानंस् तथानाशितं श्रमणोद्देशम् उपस्थापयेद् वा उपलाडयेद् वा तेन वा सार्धं सहागारशय्यां कल्पयेत् पातयन्तिका ५७

पातयन्तिका ५८

SC 126 यः पुनर् भिक्षु रत्नं वा रत्नसंमतं वा स्वहस्तम् उद्गृह्णीयाद् उद्ग्राहयेद् वा अन्यत्राध्यारामगताद् वा अध्यावासगताद् वा पातयन्तिका अध्यारामगतं अध्यावासगतं रत्नं वा रत्नसंमतं वा एवंचित्तेनोद्गृहीतव्यम् उद्ग्राहयितव्यं वा यस्य भविष्यति स एनं हरिष्यति इयं तत्र सामीचिः ५८

पातयन्तिका ५९

SC 127 नवचीवरप्रतिलाभाद् भिक्षुणा त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमम् आदातव्यं नवस्य दुर्वर्णीकरणाय नीलं वा कर्दमो वा काडिशामो वा अनादाय चेद् भिक्षुस् त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमं दुर्वर्णीकरणं नवं चीवरं परिभुंजीत पातयन्तिका ५९

पातयन्तिका ६०

SC 128 अर्धमासिकं स्नात्रम् अन्यत्र समयात् तदतिक्रामतः पातयन्तिका तत्रायं समयः सार्धो मासः शेषो ग्रीष्मस्य पूर्वो मासो वर्षाणाम् एतौ सार्धौ द्वौ मासौ परिदाघसमयः अवशिष्टं ग्लानसमयः कर्मसमयो वातसमयो वृष्टिसमयो ’ध्वानमार्गसमयो ’यं तत्र समयः ६०

पातयन्तिका ६१

SC 129 यः पुनर् भिक्षुः संचिन्त्य तीर्यग्योनिगतं प्राणिनं जीविताद् व्यपरोपयेत् पातयन्तिका ६१

पातयन्तिका ६२

SC 130 यः पुनर् भिक्षुर् भिक्षोः संचिन्त्य कौकृत्यम् उपसंहरेद् विहेठनाप्रेक्षी कच्चिद् अस्य भिक्षोर् मुहूर्तम् अपि तावद् अफाषं भवेद् इदम् एव प्रत्ययं कृत्वा नान्यथा पातयन्तिका ६२

पातयन्तिका ६३

अङ्गुलिप्रतोदनात् पातयन्तिका ६३

पातयन्तिका ६४

उदकहर्षणात् पातयन्तिका ६४

पातयन्तिका ६५

SC 131 यः पुनर् भिक्षुर् मातृग्रामेण सार्धं सहागारशय्यां कल्पयेत् पातयन्तिका ६५

पातयन्तिका ६६

SC 132 यः पुनर् भिक्षुर् भिक्षुं भीषयेद् भीषापयेद् वा अन्ततो हास्यप्रेक्ष्यम् अपि पातयन्तिका ६६

पातयन्तिका ६७

SC 133 यः पुनर् भिक्षुर् भिक्षोः पात्रं वा चीवरं वा कुञ्चिकं वा उपानहं वा सूचीघरकं वा अन्यतमान्यतमं वा श्रामणकं परिष्कारम् उपनिदध्याद् उपनिधापयेद् वा अन्ततो हास्यप्रेक्ष्यम् अपि पातयन्तिका ६७

पातयन्तिका ६८

SC 134 यः पुनर् भिक्षुर् भिक्षोः पात्रं वा चीवरम् वा दत् त् वा ततः पश्चाद् अप्रत्युद्धार्य परिभुंजीत पातयन्तिका ६८

पातयन्तिका ६९

SC 135 यः पुनर् भिक्षुर् भिक्षुम् अमूलकेन संघावशेषेण धर्मेणानुध्वंसयेत् पातयन्तिका ६९

पातयन्तिका ७०

SC 136 यः पुनर् भिक्षुर् मातृग्रामेण सार्धं संविधाय समानमार्गं प्रतिपद्येत अन्ततो ग्रामान्तरम् अपि पातयन्तिका ७०

पातयन्तिका ७१

SC 137 यः पुनर् भिक्षुः स्तेयसार्थेन सार्धं संविधाय समानमार्गं प्रतिपद्येत अन्ततो ग्रामान्तरम् अपि पातयन्तिका ७१

पातयन्तिका ७२

SC 138 यः पुनर् भिक्षुर् ऊनविंशतिवर्षं पुद्गलं भिक्षुभावेनोपसंपादयेत् पातयन्तिका स च पुद्गलो ’नुपसंपन्नस् ते च भिक्षवो गर्ह्या इयं तत्र सामीचिः ७२

पातयन्तिका ७३

SC 139 यः पुनर् भिक्षुः पृथिवीं खन्यात् खानयेद् वा पातयन्तिका ७३

पातयन्तिका ७४

SC 140 चतुर्मासिका भिक्षुणा प्रवारणा साधयितव्या अन्यत्र नित्यप्रवारणाया अन्यत्र पुनःपुनःप्रवारणाया अन्यत्र प्रत्येकप्रवारणाया तत उत्तरं साधयेत् पातयन्तिका ७४

पातयन्तिका ७५

SC 141 यः पुनर् भिक्षुर् भिक्षुभिर् उच्यमान इह ते शिक्षायां शिक्षितव्यम् इत्य् एवं वदेन् नाहं युष्माकं बालानां मूढानां दुष्प्रज्ञानां वचनेनात्र शिक्षायां शिक्षिष्यामि अन्यान् अहं भिक्षूं प्रक्ष्यामि सूत्रधरान् विनयधरान् मातृकाधरान् इति पातयन्तिका । आज्ञातुकामेन भिक्षुणा तत्र शिक्षायां शिक्षितव्यं भिक्षवश् च प्रष्टव्याः सूत्रधरा विनयधरा मातृकाधराः । इयं तत्र सामीचिः ७५

पातयन्तिका ७६

SC 142 यः पुनर् भिक्षुर् भिक्षूणां कलहजातानां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां तूष्णीम् उपश्रुतिकस् तिष्ठेद् यद् एते भिक्षवो वक्ष्यन्ति तद् अहं श्रुत्वा तथानुव्याहरिष्यामीति पा तयन्तिका ७६

पातयन्तिका ७७

SC 143 यः पुनर् भिक्षुः संघस्य् न् श्चितायां कथायां वर्तमानायां तूष्णीम् उत्थाय प्रक्रमेत् संतं भिक्षुम् अनव लोक्य पातय न्तिका ७७

पातयन्तिका ७८

अनादरेयकात् पातयन्तिका ७८

पातयन्तिका ७९

सुरामैरेयमद्यपानात् पातयन्तिका ७९

पातयन्तिका ८०

SC 144 यः पुनर् भिक्षुर् अकाले ग्रामं प्रविशेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तथारूपप्रत्ययात् पातयन्तिका ८०

पातयन्तिका ८१

SC 145 यः पुनर् भिक्षुः सभक्तं कुलेषूपनिमन्त्रितः पूर्वभक्तं पश्चाद्भक्तं कुलेषु चारित्रम् आपद्येत पा तयन्तिका ८१

पातयन्तिका ८२

SC 146 यः पुनर् भिक्षु राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य अनि ष्क् रान्ते राज्ञ् अनिर्गृहीतेषु रत्नेषु इन्द्रकीलं वा इन्द्रकीलभूमिं वा समतिक्रमेद् अन्यत्र तथारूपप्रत्ययात् पातयन्तिका ८२

पातयन्तिका ८३

SC 147 यः पुनर् भिक्षुः प्रातिमोक्षसूत्रोद्दिश्यमाने एवं वदेद् इदानीम् अहं जानामि यद् अय धर्मः सूत्रगतः सूत्रपर्यापन्न इति तं च भिक्षवो जानीयुः संनिषण्णपूर्वो ’यम् आयुष्मां द्विस् त्रिः प्रातिमोक्षसूत्रोद्देशे कः पुनर् वादो भूय इति तस्य पुनर् भिक्षोर् नास्त्य् अज्ञानान् मोक्षो यां चापत्तिम् आपन्नः स्यात् तां यथाधर्मं कारयितव्य उत्तरञ् च संवेजयितव्यस् तस्य ते आयुष्मन्न् अलाभो न लाभः दुर्लब्धो न सुलब्धः यो हि नाम त्वम् अन्वर्धमासं प्रातिमोक्षसूत्रोद्दिश्यमाने न सत्कृत्यार्थीकृत्वा न गुरुकृत्वा न मनसीकृत्वा नैकाग्रचित्तो नावहितश्रोत्रो न सर्वचेतसा समन्वाहृत्य शृणोषि इयं तस्य संवेजनात् पातयन्तिका ८३

पातयन्तिका ८४

SC 148 यः पुनर् भिक्षुर् अस्थिमयं दन्तमयं विषाणमयं वा सूचीघरकं कारयेत् पातय न् तिका ८४

पातयन्तिका ८५

SC 149 पीठं वा भिक्षुणा मञ्चं वा कारयता सुगताष्टाङ्गुलिप्रमाणाः पादाः कारयितव्या अन्यत्रारण्यास् तत उत्तरं कारयेत् प् आतयन्तिका ८५

पातयन्तिका ८६

SC 150 यः पुनर् भिक्षुस् तूलसंस्तृतां शय्याम् अवनहेद् अवनाहयेद् वा पातयन्तिका ८६

पातयन्तिका ८७

SC 151 वर्षाशाटीचीवरं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं दीर्घतः षड् वितस्तयः सुगतवितस्त्या तीर्यक् सार्धे द्वे तत उत्तरं कारयेत् पातयन्तिका ८७

पातयन्तिका ८८

SC 152 कण्डुप्रतिच्छादनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं दीर्घतश् चतस्रो वितस्तयः सुगतवितस्त्या तीर्यग् द्वे तत उत्तरं कारयेत् पातयन्तिका ८८

पातयन्तिका ८९

SC 153 निषीदनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं दीर्घतो वितस्ती द्वे सुगतवितस्त्या तीर्यक् सार्धवितस्तिर् दशानां च वितस्तिस् तत उत्तरं कारयेत् पातयन्तिका ८९

पातयन्तिका ९०

SC 154 यः पुनर् भिक्षुः सुगतचीवरप्रमाणेन चीवरं कारयेद् उत्तरं वा सुगतचीवरात् पातयन्तिका । तत्रेदं सुगतचीवरप्रमाणं दीर्घतो नव वितस्तयः सुगतवितस्त्या तीर्यक् षड् इदं तत्र सुगतचीवरप्रमाणं ९०


SC 155 उद्दिष्टा मयायुष्मन्तो नवति पातयन्तिका धर्मास् तत्राहम् आयुष्मतः पृच्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रिर् अपि पृच्छामि कच्चित् स्थात्र पर् श् उद्धा परिशु द्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥

४ प्रतिदेशनीया रुलेस्

SC 156 इमे पुनर् आयुष्मन्तश् चत्वारः प्रतिदेशनीया धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ॥

प्रतिदेशनीय १

SC 157 यः पुनर् भिक्षुर् अग्लानो ’न्तर्गृहं पिण्डाय चरन्त्या अज्ञात्या भिक्षुण्याः सन्तिकात् स्वहस्तं खादनीयभोजनीयं प्रतिगृह्णीयात् तेन भिक्षुणा भिक्ष् णाम् अन्तिके प्रतिदेशयितव्यं गर्हणीयम् आयुष्मन्तः स्थानम् आपन्नो ’स्मि असांप्रेयं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामि अयं धर्मः प्रतिदेशनीयः

प्रतिदेशनीय २

SC 158 भिक्षवः पुनः संबहुलाः कुलेषूपनिमन्त्रिता भुंजीरंस् तत्र चेद् भिक्षुणी व्यपदिशमाना स्थिता स्याद् इहौदनं देहि इह सूपं देहि इह भूयो देहीति सा भिक्षुणी भिक्षुभिर् एवं स्याद् वचनीया आगमय ताव त् त्वं भ् अगिनी यावद् इमे भिक्षवो भुंजन्ताम् इत्य् एकभिक्षोर् अपि चे न् न प्रतिभायात् तां भिक्षुणी म् एवं वक्तुम् आगमय ताव त् त्वं गिनी या वद् इ मे भिक्ष् अवो भुंजन्ताम् इति सर्वैस् तैर् भिक्ष् भिर् भिक् षू णाम् अन्तिके प्रतिदेशयितव्यं गर्ह् ण् ईयम् आयुष्मन्तः स्थानम् आपन्ना स्म असांप्रेयं प्रतिदेशनीयं तं धर्मं प्रतिदे य् आम अय ं धर्म प्रति द् एशनीयः

प्रतिदेशनीय ३

SC 159 यानि पुनस् तानि संघस्य शैक्षसंमतानि कुलानि भवन्ति शैक्षसंवृतिसंमतानि यः पुनर् भिक्षुस् तथारूपेभ्यः कुलेभ्यः शै क्षसं वृति स् अंम तेभ्यः पूर्वम् अनिमन्त्रितः समानः खादनीयभोजनीयं प्रतिगृह्णीयात् तेन भिक्षुणा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यं गर्हणीयम् आयुष्मन्तः स्थानम् आपन्नो ’स्मि असांप्रेयं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामि अयं धर्मः प्रतिदेशनीयः

प्रतिदेशनीय ४

SC 160 यानि पुनस् तानि संघस्यारण्यकानि शय्यासनानि भवन्ति साशंकसंमतानि सभयसंमतानि सप्रतिभयभैरवसंमतानि । यः पुनर् भिक्षुस् तथारूपेषु संघस्यारण्यकेषु शय्यासनेषु पूर्वप्रतिसंवेदकः असंमतः संघेन बहिर् आरामस्य स्वहस्तं खादनीयभोजनीयं अप्रतिगृह्य अन्तर् आरामे प्रतिगृह्णीयात् तेन भिक्षुणा भिक्ष् णाम् अन्तिके प्रतिदेशयितव्यं गर्हणीयम् आयुष्मन्तः स्थानम् आपन्नो ’स्मि असांप्रेयं प्रतिदेशनीयं त धर्मं प्रतिदेशयामि अयम् अपि धर्मः प्रतिदेशनीयः


SC 161 उद्दिष्टा मयायुष्मन्तश् चत्वारः प्रतिदेशनीया धर्मास् तत्राहम् आयुष्मतः पृच्छामि कच्चिद् स्थात्र परिशुद्धा द्विर् अपि त् रि र् अपि पृच्छामि कच्चित् स्थात्र परिशुद्धा परिशुद्धा त्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥

११३ शैक्षा रुलेस्

SC 162 इमे पुनर् आयुष्मन्तः संबहुलाः शैक्षा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ॥

छप्तेर् १

शैक्ष १

SC 163 नात्युत्कृष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया १।१

शैक्ष २

SC 164 नात्यवकृष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया १।२

शैक्ष ३

SC 165 न विकीर्णं चीवरं निवासयिष्याम इति शिक्षा करणीया १।३

शैक्ष ४

SC 166 न वासिझडकं चीवरं निवासयिष्याम इति शिक्षा करणीया १।४

शैक्ष ५

SC 167 न तालपत्रं चीवरं निवासयिष्याम इति शिक्षा करणीया १।५

शैक्ष ६

SC 168 न हस्तिशुण्डं चीवरं निवासयिष्याम इति शिक्षा करणीया १।६

शैक्ष ७

SC 169 न कुन्मांसपिण्डं चीवरं निवासयिष्याम इति शिक्षा करणीया १।७

शैक्ष ८

SC 170 न कलापकं चीवरं निवासयिष्याम इति शिक्षा करणीया १।८

शैक्ष ९

SC 171 न दुन्दुमं चीवरं निवासयिष्याम इति शिक्षा करणीया १।९

शैक्ष १०

SC 172 न मिलिमं चीवरं निवसयिष्याम इति शि क्षा करणीया १।१०

शैक्ष ११

SC 173 न चूर्णसूत्रं ची वरं निवासयिष्याम इति शिक्षा कर णीया १।११

शैक्ष १२

SC 174 परिमण्डलं चीवरं निवासय् ष्याम इति शिक्षा करणीया १।१२

शैक्ष १३

SC 175 नात्युत्कृष्टं चीवरं प्रावरिष्याम इति शिक्षा करणीया १।१३

शैक्ष १४

SC 176 नात्यवकृष्टं चीवरं प्रा वरिष्याम इति शिक्षा करणीया १।१४

शैक्ष १५

SC 177 न विकीर्णं चीवरं प्रावरिष्याम इति शिक्षा करण् य् १।१५

शैक्ष १६

SC 178 परिमण्डलं चीवरं प्रावरिष्याम इति शिक्षा करणीय् १।१६

छप्तेर् २

शैक्ष १७

SC 179 सुसंवृता अन्तर्गृहं प्रवेक्ष्याम् अ इति शिक्षा करणीय् २।१

शैक्ष १८

SC 180 सुस ंवृता न्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।२

शैक्ष १९

SC 181 सुप्रतिच्छन्ना अन्तर्गृहं प्र वेक्ष्या म इ ति शिक्षा करणीया २।३

शैक्ष २०

SC 182 सु प्रति च् छन्ना अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।४

शैक्ष २१

SC 183 नोत्क्षिप्तचक्षुषो ’न्तर्गृ हं प्रवेक्ष्याम इति शिक्ष् करणीया २।५

शैक्ष २२

SC 184 नोत्क्षिप्तचक्षुषो ’न्तर्गृहे निषत्स्य् म इति शिक्षा करणीया २।६

शैक्ष २३

SC 185 अल्पशब्दा न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीय् २।७

शैक्ष २४

SC 186 अल्पशब्दा न्तर्ग् हे निषत्स्याम इति शिक्षा करणीय् २।८

शैक्ष २५

SC 187 नोच्चग्घिकया अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।९

शैक्ष २६

SC 188 नोच्चग्घिकय् आ अ न्तर्गृहे निषत्स्याम इति शिक्षा करणीय् २।१०

शैक्ष २७

SC 189 नोत्कुटुका न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।११

शैक्ष २८

SC 190 नोत्कुटुका न्तर्गृहे निषत्स्याम इति शिक्षा करणीय् २।१२

शैक्ष २९

SC 191 न वेष्टितशिरसो ’न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।१३

शैक्ष ३०

SC 192 न वेष्टितशिरसो ’न्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।१४

शैक्ष ३१

SC 193 नाव गु ण्डिकाकृता अन्तर्गृहं प्रव् एक्ष्याम इति शिक्षा करणीय् २।१५

शैक्ष ३२

SC 194 नावगुण्डिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।१६

शैक्ष ३३

SC 195 न कम्भाकृता न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीय् २।१७

शैक्ष ३४

SC 196 न कम्भाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।१८

शैक्ष ३५

SC 197 नोत्कृष्टिकाकृता न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।१९

शैक्ष ३६

SC 198 नोत्कृष्टिकाकृता न्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।२०

शैक्ष ३७

SC 199 नात्यस्तिकाकृता न्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।२१

शैक्ष ३८

SC 200 नात्यस्तिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।२२

शैक्ष ३९

SC 201 न विन्यस्तिकाकृता अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।२३

शैक्ष ४०

SC 202 न विन्यस्तिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।२४

शैक्ष ४१

SC 203 न विक्षिप्तिकाकृता अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।२५

शैक्ष ४२

SC 204 न विक्षिप्तिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।२६

शैक्ष ४३

SC 205 न पल्लत्थिकाकृता अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।२७

शैक्ष ४४

SC 206 न पल्लत्थिकाकृता अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।२८

शैक्ष ४५

SC 207 न बाहुप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।२९

शैक्ष ४६

SC 208 न बाहुप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।३०

शैक्ष ४७

SC 209 न चांसप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।३१

शैक्ष ४८

SC 210 न चांसप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।३

शैक्ष ४९

SC 211 न शीर्षप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।३

शैक्ष ५०

SC 212 न शीर्षप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।३४

शैक्ष ५१

SC 213 न कायप्रचालका अन्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।३५

शैक्ष ५२

SC 214 न कायप्रचालका अन्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।३६

शैक्ष ५३

SC 215 न हस्तसंलग्निकयान्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।३७

शैक्ष ५४

SC 216 न हस्तसंलग्निकयान्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।३८

शैक्ष ५५

SC 217 न विडङ्गिकयान्तर्गृहं प्रवेक्ष्याम इति शिक्षा करणीया २।३९

शैक्ष ५६

SC 218 न विडङ्गिकयान्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।४०

शैक्ष ५७

SC 219 न पादे पादम् आधायान्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।४१

शैक्ष ५८

SC 220 न सक्थ्नि सक्थ्य् आरोप्यान्तर्गृहे निषत्स्याम इति शिक्षा करणीया २।४२

शैक्ष ५९

SC 221 न पाणौ हनुम् उपादायान्तर्गृहे निषत्स्यामो गृहिणो हास्यप्रेक्षिण इति शिक्षा करणीया २।४३

छप्तेर् ३

शैक्ष ६०

SC 222 सत्कृत्यौदनं प्रतिगृहीष्याम इति शिक्षा करणीया ३।१

शैक्ष ६१

SC 223 सत्कृत्य सूपं प्रतिगृहीष्याम इति शिक्षा करणीया ३।२

शैक्ष ६२

SC 224 न स्तूपाकारं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।३

शैक्ष ६३

SC 225 समतित्तिक् अं पि ण्डपातं परिभोक्ष्याम इत् इ शिक्षा कर णीय् ३।४

शैक्ष ६४

SC 226 समसूपिकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीय् ३।५

शैक्ष ६५

SC 227 न स्तूप्यवगुण्ठीकृतं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।६

शैक्ष ६६

SC 228 न व्युत्कण्ठशः पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।७

शैक्ष ६७

SC 229 नातिमहान्तम् आलोपं करिष्याम इति शिक्षा करणीया ३।८

शैक्ष ६८

SC 230 परिमण्डलम् आलोपं करिष्याम इति शिक्षा करणीया ३।९

शैक्ष ६९

SC 231 नानागते आलोपे मुखद्वारं विवरिष्याम इति शिक्षा करणीया ३।१०

शैक्ष ७०

SC 232 न सालोपेन मुखद्वारेण व्याहरिष्याम इति शिक्षा करणीया ३।११

शैक्ष ७१

SC 233 न कबडच्छेदकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।१२

शैक्ष ७२

SC 234 न शुशुक्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।१३

शैक्ष ७३

SC 235 न चुचुक्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।१४

शैक्ष ७४

SC 236 न फुफुक्कारकं पिण्डपातं परिभोक्ष्याम इति शि क्षा करणी य् ३।१५

शैक्ष ७५

SC 237 न गृष्मकारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।१६

शैक्ष ७६

SC 238 नोज्जिघ्रन्त पिण्डपातं परि भोक्ष्याम इति शिक्षा करणीया ३।१७

शैक्ष ७७

SC 239 न जिह्वानिश्चारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।१८

शैक्ष ७८

SC 240 न हस्तावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।१९

शैक्ष ७९

SC 241 न पात्रावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।२०

शैक्ष ८०

SC 242 न हस्तावधूनकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।२१

शैक्ष ८१

SC 243 न शिस्तविकिरं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।२२

शैक्ष ८२

SC 244 न सामिषेण पाणिना पानीयस्थालकं प्रतिगृहीष्याम इति शिक्षा करणीया ३।२३

शैक्ष ८३

SC 245 नात्मार्थम् अग्लाना ओदनं वा सूपं वा विज्ञापयिष्याम इ ति शिक्षा करणीया ३।२४

शैक्ष ८४

SC 246 नौदनेन सूपं प्रतिच्छादयिष्यामो भूयस्कामताम् उपादाय इति शिक्षा करणी या ३।२५

शैक्ष ८५

SC 247 नावध्यानप्रेक्षिण अनन्तरिकस्य पात्रं व्यवलोकयिष्याम ति शिक्षा करण् ईया ३।२६

शैक्ष ८६

SC 248 पात्रसंज्ञिनः पिण्डपातं परिभोक्ष्याम इति शिक्षा करणी या ३।२७

शैक्ष ८७

SC 249 सावदानं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ३।२८

शैक्ष ८८

SC 250 न सामिषं पात्रोदकम् अन्तर्गृहे छोरयिष्यामो गृहिणम् अनवलोक्येति शिक्षा करणीया ३।२९

छप्तेर् ४

शैक्ष ८९

SC 251 न यानाधिरूढस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१

शैक्ष ९०

SC 252 न पुरतो गच्छतः पृष्ठतो ’नुगच्छन्त अग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीय् ४।२

शैक्ष ९१

SC 253 न मार्गं गच्छतो ह्य् अमार्ग् अं ग च्छन्त अग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।३

शैक्ष ९२

SC 254 न स्थिता निषण्णस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा कर णीय् ४।४

शैक्ष ९३

SC 255 न नीचासन् निषण्णा उच्चासने निषण्णस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा क रणीया ४।५

शैक्ष ९४

SC 256 न नि ण्णा निपन्नस्याग्लानस्य धर्मं देशयिष्या म इति शिक्षा करणीया ४।६

शैक्ष ९५

SC 257 न वेष् ट् इतशिरस अग्लानस्य धर्म ं देशयिष्याम इति शिक्षा करणीया ४।७

शैक्ष ९६

SC 258 नावगुण्डिकाकृतस्याग्लानस्य् अ धर्मं देशयिष्याम इति शिक्षा करणीया ४।८

शैक्ष ९७

SC 259 न कंभाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।९

शैक्ष ९८

SC 260 नोत्कृष्टिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्ष करणीया ४।१०

शैक्ष ९९

SC 261 नात्यस्तिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।११

शैक्ष १००

SC 262 न विन्यस्तिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१२

शैक्ष १०१

SC 263 न विक्षिप्तिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१३

शैक्ष १०२

SC 264 न पल्लत्थिकाकृतस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१४

शैक्ष १०३

SC 265 न सोपानहकस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१५

शैक्ष १०४

SC 266 न सपादुकस्याग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१६

शैक्ष १०५

SC 267 न दण्डपाणेर् अग्लानस्य धर्मं देशयिष्याम इति शिक्षा कर णीया ४।१७

शैक्ष १०६

SC 268 न च्छत्रपाणेर् अग्लानस्य धर्मं देशयिष्याम इति शिक्षा करणीया ४।१८

शैक्ष १०७

SC 269 न शस्त्रपाणेः सर्वथा धर्मं देशयिष्याम इति श् क्षा करणीय् ४।१९

शैक्ष १०८

SC 270 न खड्गपा णेः स र्वथा र्मं देशयिष् य् म इति शिक्ष् आ करणीया ४।२०

शैक्ष १०९

SC 271 नायुधपाणेः सर्वथा धर्म देशयिष्याम इति शिक् ष् आ कर् अण् ईय् ४।२१

शैक्ष ११०

SC 272 न् हरित उच्चारप्रस्रावं खे टं शिङ्घा णकं करिष्याम इति शिक्षा करणीया ४।२२

शैक्ष १११

SC 273 न कल्पिक उदके पारिभोगीये उच्चारप्रस्रावं खेटं शिङ्घाणकं करिष्याम इति शिक्षा कर णीया ४।२३

शैक्ष ११२

SC 274 न स्थि त् आ अग्लान् उच् च् आरप्रस्रावं करिष्याम इति शिक्षा करणीया ४।२४

शैक्ष ११३

SC 275 न साधिकपौरुषं वृक्षम् आरोक्ष्यामो ’न्यत्र प्रत्य् अयाद् इत् इ शिक्षा करणीया ४।२५ । ।


SC 276 उद्दिष्टा मयायुष्मन्तः संबहु लाः शैक्षा धर्मास् तत्राहम् आयुष्मतः पृच्छामि क च्च् त् स्थ् त्र परिशुद्द् आ द्विर् अपि त्र् र् अपि पृच्छामि कच्चित् स्थात्र परिशु द्धाः परिशु द्धा अत्राय् उष्म् अन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥

७ अधिकरणशमथा

SC 277 इमे पुनर् आयुष्मन्तः सप्ताधि करण मथा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

अधिकरणशमथ १

संम् व् इनयार्हस्य संमुखविनय् अं दास्यामः १

अधिकरणशमथ २

स्मृति विनया र् हस्य स् मृति विनयं दास्याम

अधिकरणशमथ ३

अमूढ व् या र्हस् य अमूढविनयं दास्यामः

अधिकरणशमथ ४

प्रतिज्ञाविनयार्हस्य प्रतिज्ञां कार यि ष्याम

अधिकरणशमथ ५

SC 278 तत्स्वभावैषिकार्हस्य तत्स्वभा वैषिकां दास्यामः

अधिकरणशमथ ६

यद्भूयेषिकार्हस्य यद्भूयेषिकं दास्यामः

अधिकरणशमथ ७

SC 279 उत्पन्नो त्पन्नान्य् अधिकरणानि तृणप्रस्तारकेन व्युपशमयिष्यामो धर्मेण ॥।

SC 280 उद् द् इष्टा मयायुष्मन्तः सप्ताधिकरणशमथा धर्मास् त् अत्राहम् आयु ष्मत ः पृ च्छामि कच्चित् स्थात्र परिशुद्धा द्विर् अपि त्रि र् अपि पृच्छामि कच्चित् स्थात्र परिशुद्धाः परि शुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एवाहं धारयामि ॥

चोन्च्लुसिओन्

SC 281 उद्द् ष्ट् ं मयायुष्मन्तः प्रातिमोक्षसूत्रस्य । । निदानं उद्दिष्टाश् चत्वारः पाराजिका धर्मा उद्दिष्टास् त्रयोदश संघावशेषा धर्मा उद्दिष्टौ द्वाव् अनियतौ धर्मौ उद्दिष्टास् त्रिंश न् न् इःसर्गिकाः पातयन्तिका धर्मा उद्दिष्टा नवति पातयन्तिका धर्मा उद्दिष्टाश् चत्वारः प्रत् देशनीया ध र् म् द्दि ष्ट् आः संबहुला शैक्षा धर्मा उद्दिष्टाः सप्ताधिकरणशमथा धर्माः ।

SC 282 एतावत् तस्य भगवतः सूत्रगतं सूत्रपर्यापन्नम् न्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आग् अच्छति इति यो व् पु नर् अन्यो ’प् य् आग च्छेद् धर्मस्यानुधर्मस् तत्र वः सहितैः समग्रैः संमोदमानैर् अविवदमानैर् एकाग्र् र् एकोद्देशैर् एकक्षीरोदकीभूतै सुखं फा षं व् इह र्तव्यम् इति शिक्षा करणीया ॥

चोन्च्लुदिन्ग् वेर्सेस्

SC 283 क्षान्ति परमं तपस् तितीक्षा
निर्वाणं परमं वदन्ति बुद्धाः
न हि प्रव्रजित ः प रोपत् आप्
श् रमणो भवति परा न् विहेठयानः वेर्से १

SC 284 चक्षुष्मान् विषमानी विद्यमाने पराक्रमे
पण्डितो जीवलोके ’स्मि न् पापानि परिवर्जयेत् वेर्से २

SC 285 नोपवा द् नोपघाती प्रातिमोक्षे च संवरः
मात्रज्ञता च भक्तेषु प्रान्तं च शयनासनम्
अधिचित्ते समायोग एतद् बुद्धस्य श् आस नम् वेर्से ३

SC 286 यथ् पि भ्रमरः पुष्पाद् वर्णगन्धाव् अहेठयन्
परैति रसम् आदाय तथा ग्रामां मुनिश् चरेत् वेर्से ४

SC 287 न परेषां विलोमानि न परेषां कृताकृतम्
आत्मनस् तु समीक्षेत समानि विषमानि च वेर्से ५

SC 288 अधिचेत् स् मा प् मद्यत प्रततं मौनपदेषु शिक्षत
शोका न भवन्ति तायिनो ह्य् उपशान्तस्य सदा स्मृतात्मनः वेर्से ६

SC 289 सर्वपापस्याकरणं कुशलस्योपसंपदः
स्वचित्तपर्यवदनम् एतद् बुद्धस्य शासनं वेर्से ७

SC 290 कायेन संवरः साधु साधु वाचा च संवरः
मनसा संवरः साधु साधु सर्वत्र संवरः
सर्वत्र संवृतो भिक्षु सर्वदुःखात् प्रमुच्यते वेर्से ८

SC 291 वाचानुरक्षी मनसा सुसंवृतः
कायेन चैवाकुशलं न कुर्यात्
एतां शुभां कर्मपथां विशोधय न्न्
राधय् एन् मार्ग म् ऋषिप्रवेदितम् वेर्से ९

SC 292 क्षिप्तः क्षिपेन् नैव हतो न हन्याद्
वैरप्रसंगेषु भवेद् अवैर् अः
दुष्टे
षु च स्यात् सततं प्रसन्न
स् व् य् अं न कुर्यात् परगर्हितं यत् वेर्से १०

SC 293 सप्तभिर् लोकनायकैर् बुद्धवीरैर् महात्मभिः
प्रातिमोक्षः समुद्दिष्टो निर्दिष्टश् च महर्षिणा वेर्से ११

SC 294 अत्र सगौरवा बुद्धा बुद्धानां श्रावकाश् च ये
अत्र सगौरवा भूत्वा तथान्योन्यसगौरवा
ह्रीरवत्राप्यसंपन्ना प्राप्नुवन्ति ह्य् असंस्कृतम् वेर्से १२

SC 295 आरभध्वं निष्क्रमध्वं युज्यध्वं बुद्धशासने ।
धुनध्वं मृत्युनः सैन्यं नडागारम् इव कुञ्जरः वेर्से १३

SC 296 यो ह्य् अस्मिं धर्मविनये अप्रमत्तो भविष्यति
प्रहाय जातिसंसारं दुःखस्यान्तं स य् आस्यति वेर्से १४

SC 297 यस्यार्थ् सूत्रम् उद्दिष्टं यस्यार्थे पोषथः कृतः
तच् छीलम् अनुरक्षध्वं वालाग्र रो यथा वेर्से १५

SC 298 उद्दिष्ट प्रातिमोक्षः कृतः समग्रेण संघेन पोषथ इति ॥

प्रातिमोक्षसूत्रं समाप्त म्

बसेद् ओन् थे एदितिओन् ब्य् गेओर्ग् वोन् सिम्सोन् , प्रतिमोक्ससुत्र देर् सर्वस्तिवदिन्स् , तेइल् १, गऺत्तिन्गेन् १९८६ (सन्स्क्रित्तेxते औस् देन् तुर्फ़न्फ़ुन्देन्, ११); तेइल् २, गऺत्तिन्गेन् २०००।

इन्पुत् ब्य् गेओर्ग् वोन् सिम्सोन् फ़ोर् GRETIL

प्रेपरेद् फ़ोर् सुत्तचेन्त्रल् ब्य् भिक्खु सुजतो