लोकोत्तरवाद प्रातिमोक्षसूत्रम्
इन्त्रोदुच्तोर्य् वेर्सेस्
नमो भगवते वीतरागाय ।
SC 1 नरेन्द्रदेवेन्द्रसुवन्दितेन त्रिलोकविघुष्टविशालकीर्तिना ।
बुद्धेन लोकार्थचरेण तायिना सुदेशितं प्रातिमोक्षं विदुना ॥ वेर्से १ ॥SC 2 तं प्रातिमोक्षं भवदुःखमोक्षं श्रुत्वान धीराः सुगतस्य भाषितं ।
षडिन्द्रियसंवरसंवृतत्वात् करोन्ति जातीमरणस्य अन्तं ॥ वेर्से २ ॥SC 3 चिरस्य लब्ध्वा रतनानि त्रीणि बुद्धोत्पादं मानुषिकाञ् च श्रद्धां ।
दौःशील्यवद्यं परिवर्जयित्वा विशुद्धशीला भवथाप्रमत्ताः ॥ वेर्से ३ ॥SC 4 शीलेन युक्तो श्रमणो ’तिवेति शीलेन युक्तो ब्राह्मणो ’तिवेति ।
शीलेन युक्तो नरदेवपूज्यो शीलेन युक्तस्य हि प्रातिमोक्षं ॥ वेर्से ४ ॥SC 5 अनेकबुद्धानुमतं विशुद्धं शीलं प्रतिष्ठा धरणीव सानुं ।
उदाहरिष्याम्य् अहं संघमध्ये हिताय लोकस्य सदेवकस्य ॥ वेर्से ५ ॥
इति उपोद्घातः ॥
SC 6 किं जीवितेन तेषां येषाम् इहाकुशलमूलजालानि ।
प्रच्छादयन्ति हृदयं गगनम् इव समुन्नता मेघाः ॥
अतिजीवितं च तेषां येषाम् इहाकुशलमूलजालानि ।
विलयं व्रजन्ति क्षिप्रं दिवसकरहतान्धकारम् इव ॥ Verse 6-7 ॥SC 7 किं पोषधेन तेषां ये ते सावद्यशीलचरित्राः ।
जरामरणपञ्जरगता अमरवितर्केहि खाद्यन्ति ॥
कार्यं च पोषधेन तेषां ये ते अनवद्यशीलचारित्राः ।
जरामरणान्तकरा मारबलप्रमर्दना धीराः ॥ Verse 8-9 ॥SC 8 किं पोषधेन तेषाम् अलज्जिनां भिन्नवृत्तशीलानां ।
मिथ्याजीवरतानाम् असरणम् इव चरन्तानां ॥
कार्यं च पोषधेन तेषां लज्जिनाम् अभिन्नवृत्तशीलानां ।
सम्यग्जीवरतानाम् अध्याशयशुद्धशीलानां ॥ Verse 10-11 ॥SC 9 किं पोषधेन तेषां ये ते दुःशीलपापकर्मान्ताः ।
कुणपम् इव समुद्रतो समुत्क्षिप्ताः शास्तु प्रावचनात् ॥
कार्यं च पोषधेन तेषां ये ते त्रैधातुके अनुपलिप्ताः ।
आकाशे विय पाणि शुद्धानां विमुक्तचित्तानां ॥ Verse 12-13 ॥SC 10 किं पोषधेन तेषां षडिन्द्रियं येहि येहि सुरक्षितं नित्यं ।
पतितानां मारविषये स्वगोचरं वर्जयन्तानां ॥
कार्यं च पोषधेन तेषां षडिन्द्रियं येहि सुरक्षितं नित्यं ।
युक्तानां शास्तुर् वचने जिनवचने शासनरतानां ॥ Verse 14-15 ॥SC 11 किं पोषधेन तेषाम् आत्मशीलेहि ये ह्य् उपवदन्ति ।
सब्रह्मचारिणश् च शस्ता देवमनुष्याश् च दुःशीलाः ॥
कार्यं च पोषधेन तेषां शीलेहि नास्ति गार्ह्यं ।
सर्वत्र नोपवद्या विज्ञानां वै सदेवके लोके ॥ Verse 16-17 ॥SC 12 किं पोषधेन तेषां विरागितं शास्तुः शासनं येहि ।
आसेविता च येहि विपत्तीयो पञ्च चापत्तीः ॥
कार्यं च पोषधेन तेषां युक्तानां शासने दशबलस्य ।
सर्वज्ञस्य सर्वदर्शिनो मैत्रीपदा येहि परिचीर्णाः ॥ Verse 18-19 ॥SC 13 येषां च वसति हृदये शास्ता धर्मो गणोत्तमो ।
शिक्षा उद्देशो संवासो संभोगो शास्तुनो वचनं ॥
तेषाम् उपोषधो ’द्य अपरित्यक्तानि येहि एतानि ।
परिचर्य धर्मराजं ते यान्ति असंस्कृतं स्थानं ॥ Verse 20-21 ॥SC 14 शुद्धस्य वै सदा फल्गुः सदा शुद्धस्य पोषधो ।
शुद्धस्य शुचिकर्मस्य सदा सम्पद्यते व्रतं ॥ वेर्से २२ ॥SC 15 यावत् सूत्रप्रतिक्षेपो गणमध्ये न भेष्यति ।
तावत् स्थास्यति सद्धर्मो सामग्री च गणोत्तमे ॥ वेर्से २३ ॥SC 16 यावच् च देशयितारः प्रतिपत्तारश् च धर्मरत्नस्य ।
तावत् स्थास्यति सद्धर्म्मो हिताय सर्वलोकस्य ॥ वेर्से २४ ॥SC 17 तस्मात् समग्राः सहिताः सगौरवाः भविया अन्यमन्यं परिचरथ ।
धर्मराजम् अधिगच्छथ निर्वाणम् अतन्द्रिता अच्युतम् पदम् अशोकम् इति ॥ वेर्से २५ ॥
प्रेलिमिनर्य्
(इति) वस्तु ।
SC 18 अभिक्रान्ताः सुविहिताः शुद्धा निपुणा अनुसङ्गायन्तो उपनिषण्णा, चारिताः शलाका, गणिता भिक्ःऊ सीमाप्राप्ता एत्तका जनाः । अनागतानाम् आयुःमन्तो भिक्ःऊणां च्छन्दपारिशुद्धिम् आरोचेत्थ, आरोचितं च प्रतिवेदेथ । को भिक्ःउ भिक्ःउणीनां च्छन्दहारको? नास्ति चात्र कश्चिद् अनुपसंपन्नो नास्ति उत्क्ःइप्तको । नास्ति मातृघाती, नास्ति पितृघाती । नास्ति अर्हन्तघातको, नास्ति संघभेदको, नास्ति तथागतस्य दुःटचित्तरुधिरोत्पादको । नास्ति भिक्ःउणीदूःअको । नास्ति स्तैन्यसंवासिको, नास्ति नानासंवासिको, नास्ति असंवासिको । नास्ति तीर्थिकापक्रान्तको । नास्ति स्वयंसन्नद्धको । तद् एवं समन्वाहरन्तु भगवतो श्रावकाणां नित्यविशुद्धानां परिशुद्धशीलानां ।
SC 19 शृणोतु मे भन्ते संघो ☸ अद्य संघस्य चातुर्दशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रं । एत्तकं ऋतुस्य निर्गतं । एत्त क म् अवशिष्टं । किं संघस्य पूर्वकृत्यं? अल्पकृत्यो भगवतः श्रावकसंघो सो भवति ।
SC 20 शृणोतु मे भन्ते संघो ☸ अद्य संघस्य पाञ्चदशिको पोषधो विशुद्धिनक्षत्रं । यदि संघस्य प्राप्तकालं संघो इमस्मिन् पृथिवीप्रदेशे यावतकं भिक्षुसंघेनाभिगृहीतं समन्तनव्याममात्रं अत्रान्तरे पाञ्चदशिकं पोषधं कुर्यात् प्रातिमोक्षं च सूत्रम् उद्दिशेय्या । ओवयिका एषा ज्ञप्तिः ।
SC 21 करिष्यति भन्ते संघो इमस्मिन् पृथिवीप्रदेशे यावतकं भिक्षुसंघेनाभिगृहीतं समन्तनव्याममात्रम् अत्रान्तरे पाञ्चदशिकं पोषधं प्रातिमोक्षं च सूत्रम् उद्दिशिष्यति । क्षमते तं संघस्य, यस्मात् तूष्णीम् एवम् एतं धारयामि ।
SC 22 अभिमुखं क्रामति जरामरणं क्षीयति जीवितेन्द्रियं, हायति सद्धर्मो अस्तमेति धर्मोल्को, निर्वायन्ति देशयितारः, परीत्ता भवन्ति प्रतिपत्तारः । गच्छन्ति क्षणलवमुहूर्त्तरात्रिन्दिवसमासार्धमासऋतुसंवत्सराः । गिरिनदीजलचपलचञ्चलोपमा आयुः संस्कारा मुहूर्त्तम् अपि नावतिष्ठन्ते । अप्रमादेनायुष्मन्तेहि सम्पादयितव्यं । तत् कस्य हेतोः? अप्रमादाधिगतानां हि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः । अप्रमादाधिगतो चानुत्तरो उपधिसंक्षयो ति वदामि । तेनाप्रमादेनायुष्मन्तेहि संपादयितव्यं । दशार्थवशान् सम्पश्यमानास् तथागतार्हन्तः सम्यक्संबुद्धाः श्रावकाणाम् अधिशीलं शिक्षापदं प्रज्ञापयन्ति, प्रतिमोक्षं च सूत्रम् उद्दिशन्ति । कतमान् दश? संय्यथीदं
- संघसंग्रहाय
- संघसुष्ठुताय
- दुर्मङ्कूनां पुद्गलानां निग्रहाय
- पेशलानां च भिक्षूणां फासुविहाराय
- अप्रसन्नानां प्रसादाय
- प्रसन्नानां च भूयोभावाय
- दृष्टधार्मिकाणाम् आश्रवाणां निर्घाताय
- सम्परायिकाणाम् आश्रवाणाम् आयत्याम् अननुश्रवणताय
- यथेमं स्यात् प्रावचनं चिरस्थितिकं
- बाहुजन्यं विवृतं सुप्रकाशितं यावद् देवमनुष्येष्व् इति ।
SC 23 इमान् दशार्थवशान् संपश्यमानास् तथागता अर्हन्तः सम्यक्सम्बुद्धाः श्रावकाणाम् अधिशीलं शिक्षापदं प्रज्ञापयन्ति प्रातिमोक्षं च सूत्रम् उद्दिशन्ति ।
निदानम्
SC 24 प्रातिमोक्षम् आयुष्मन्तो सूत्रम् उद्दिशिष्यामि । तं शृणुत साधु च सुष्ठु च मनसि कुरुत । भाषिष्यामि । यस्य वो सियापत्तिः सो ’विष्करोतु, असन्तीये आपत्तीये तूष्णीं भवितव्यं । तूष्णीम्भावेन खो पुनर् आयुष्मन्तो परिशुद्धा इति वेदयिष्यामि । यथा खो पुनर् आयुष्मन्तो प्रत्येकं प्रत्येकं पृच्छितस्य भिक्षुस्य व्याकरणं भवति एवम् एव रूपाये भिक्षुपर्षाये यावन्तृतीयकं समनुश्रावयिष्यति । यो पुन भिक्षु एवंरूपाये भिक्षुपर्षाये यावन्तृतीयकं समनुश्रावियमाणो स्मरमाणो सन्तीम् आपत्तिं नाविष्करोति संप्रजानमृषावादो से भवति । संप्रजानमृषावादो खो पुनर् आयुष्मन्तो आन्तरायिको धर्मो उक्तो भगवता । तस्मात् स्मरमाणेन भिक्षुणा आपन्नेन विशुद्धिप्रेक्षेण सन्ती आपत्ती आविष्कर्तव्या । आविष्कृत्वा च से फासु भवति, नो अनाविष्कृत्वा ।
॥ इति निदानं ॥
४ पाराजिक रुलेस्
SC 25 इमे खो पुनर् आयुष्मन्तो चत्वारः पाराजिका धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ।
पाराजिक १: मैथुनम्
SC 26 यो पुन भिक्षु भिक्षूणां शिक्षासामीचीसमापन्नो शिक्षाम् अप्रत्याख्याय दौर्बल्यम् अनाविष्कृत्वा मैथुनं ग्राम्यधर्मं प्रतिषेवेय अन्तमशतो तिर्यग्योनिगतायम् अपि साधम् अयं भिक्षुः पाराजिको भवत्य् असंवास्यो, न लभते भिक्षूहि सार्धसंवासं ।
SC 27 इदं भगवता वेशालीयं शिक्षापदं प्रज्ञप्तं पञ्चवर्षाभिसंबुद्धेन हेमन्तपक्षे पञ्चमे, दिवसे द्वादशमे, पुरेभक्तम् उत्तरामुखनिषण्णेन द्व्यर्धपौरुषायां च्छायायां, आयुष्मन्तं यशिकं कलन्दकपुत्रम् आरभ्य । इमस्य च शिक्षापदस्य प्रज्ञप्तिर् धर्मो, यथाप्रणिहितस्य च या अनुवर्तनता अयम् उच्यते अनुधर्मो ।
पाराजिक २: अदिन्नादानं
SC 28 यो पुन भिक्षु ग्रामाद् वा अरण्याद् वा अदिन्नम् अन्यातकं स्तैनसंस्कारम् आदियेय यथारूपेणादिन्नादानेन रा जानो गृहीत्वा हनेंसु वा बन्धेंसु वा प्रव्राजेंसु वा हम्भो पुरुष चोरो ’सि बालो ’सि मूढो ’सि स्तैन्यो ’सीति वा वदेंसु, तथारूपं भिक्षुर् अदिन्नम् आदियमानो अयम् पि भिक्षुः पाराजिको भवत्य् असंवास्यो, न लभते भिक्षूहि सार्धसंवासं ।
SC 29 इदं भगवता राजगृहे शिक्षापदं प्रज्ञप्तं षड्वर्षाभिसम्बुद्धेन हेमन्तपक्षे द्विती ये, दि वसे नवमे, पश्चाद्भक्तं पुरस्तान् मुखनिषण्णेन अड्ढातीयपौरुषायां च्छायायाम् आयुष्मन्तं धनिकं कुम्भकारजातीयम् आरभ्य राजानं च श्रेणीयं बिम्बसारं पांसुकूलिकं च भिक्षं । इमस्य च शिक्षापदस्य प्रज्ञप्तिर् धर्मो यथाप्रणिहितस्य च या अनुवर्तनता अयम् उच्यते अनुधर्मो ।
पाराजिक ३: वधो मनुष्यविग्रहस्य
SC 30 यो पुन भिक्षुः स्वहस्तं मनुष्यविग्रहं जीविताद् व्यपरोपेय शस्त्रहारकं वास्य पर्येषेय, मरणाय चैनं समादापेय, मरणवर्णं वास्य संवर्णेय ☸ हम्भो पुरुष किं ते इमिना पापकेन दुर्जीवितेन धिग्जीवितेन, मृतं ते जीविताच् छ्रेयो ☸ इति चित्तम् अलं चित्तसंकल्पम् अनेकपर्यायेण मरणाय वैनं समादापेय मरणवर्णं वास्य संवर्णेय, सो च पुरुषो तेनोपक्रमेण कालं कुर्यान् नान्येन, अयं पि भिक्षुः पाराजिको भवत्य् असंवास्यो, न लभते भिक्षूहि सार्धसंवासं ।
SC 31 इदं भगवता वेशालीयं शिक्षापदं प्रज्ञप्तं षड्वर्षाभिसम्बुद्धेन हेमन्तपक्षे तृतीये, दिवसे दशमे, पश्चाद्भक्तं पुरस्तान् मुखनिषण्णेन अड्ढातीयपौरुषायां च्छायायां सम्बहुलान् गिलानोपस्थापकान् भिक्षून् आरभ्य मृगदण्डिकं च परिव्राजकं । इमस्य च शिक्षापदस्य प्रज्ञप्तिर् धर्मो, यथाप्रणिहितस्य च या अनुवर्तनता अयम् उच्यते अनुधर्मो ।
पाराजिक ४: अभूतेन चोत्तरिमनुष्यधर्मं प्रतिजानाति
SC 32 यो पुन भिक्षुर् अनभिजानन्न् अपरिजानन्न् आत्मोपनायिकम् उत्तरिमनुष्यधर्मम् अलमार्यज्ञानदर्शनं विशेषाधिगमं प्रातजानेय इत जानामि इत पश्यामीति । सो तद् अपरेण समयेन समनुग्राहियमाणो वा अस म नुग्राहियमाणो वा आपन्नो विशुद्धिप्रेक्षो एवम् अवचि ☸ अजानन्न् एवाहम् आयुष्मन्तो अवचि जानामि, अपश्यन् पश्यामीति । इति तुच्छं मृषा विलापम् अन्यत्राभिमानात् अयं पि भिक्षुः पाराजिको भवत्य् असंवास्यो न लभते भिक्षूहि सार्धसंवासं ।
SC 33 इदं भगवता श्रावस्तीयं शिक्षापदं प्रज्ञप्तं षड्वर्षाभिसम्बुद्धेन हेमन्तपक्षे चतुर्थे, दिवसे त्रयोदशमे, पुरेभक्तं उत्तरामुखनिषण्णेन अड्ढुच्छपौरुषायां च्छायायां संबहुलान् ग्रामवासिकान् भिक्षून् आरभ्य आभियानिकं च भिक्षुं । इमस्य च शिक्षापदस्य प्रज्ञप्तिर् धर्मो, यथा प्रणिहितस्य च या अनुवर्तनता अयम् उच्यते अनुधर्मो ।
SC 34
॥ उद्दानं ॥
[१] मैथुनम् [२] अदिन्नादानं [३] वधो मनुष्यविग्रहस्या- [४] भूतेन चोत्तरिमनुष्यधर्मं प्रतिजानातीति ।
SC 35 उद्दिष्टाः खो पुनर् आयुष्मन्तो चत्वारः पाराजिका धर्माः । येषां भिक्षुर् इतो ’न्यतराम् आपत्तिम् आपद्यित्वा पाराजिको भवत्य् असंवास्यो न लभते भिक्षूहि सार्धसंवासं । यथा पूर्वे तथा पश्चाद् यथा पश्चात् तथा पूर्वे पाराजिको भवत्य् असंवास्यो न लभते भिक्षूहि संवासं ः तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धात्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
१३ संघातिशेष रुलेस्
SC 36 इमे खो पुनर् आयुष्मन्तो त्रयोदश संघातिशेषा धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ।
संघातिशेष १: संचेतनिका
SC 37 संचेतनिकाये शुक्रस्य विसृष्टीये अन्यत्र स्वप्नान्तरे संघातिशेषो ।
संघातिशेष २: हस्तग्रहो
SC 38 यो पुन भिक्षु ओतीर्णो विपरिणतेन चित्तेन मातृग्रामेण सार्धं कायसंसर्गं समापद्येय संयथीदं हस्तग्रहणं वा वेणीग्रहणं वा अन्यतरान्यतरस्य वा पुनर् अङ्गजातस्य आमोषणपरामोषणं सादियेय संघातिशेषो ।
संघातिशेष ३: ओभाषो
SC 39 यो पुन भिक्षु ओतीर्णो विपरिणतेन चित्तेन मातृग्रामं दुष्ठुल्लाय वाचाय ओभाषेय पापिकाय मैथुनोपसंहिताय संयथीदं युवां युवतीति संघातिशेषो ।
संघातिशेष ४: परिचर्या
SC 40 यो पुन भिक्षु ओतीर्णो विपरिणतेन चित्तेन मातृग्रामस्य अन्तिके आत्मिकाये परिचर्याये वर्णं भाषेय ☸ एतद् अग्रं भगिनि परिचर्याणां या मादृशं श्रमणं शीलवन्तं कल्याणधर्मं ब्रह्मचारिं एतेन धर्मेण उपस्थिहेय परिचरेय यदुत मैथुनोपसंहितेनेति संघातिशेषो ।
संघातिशेष ५: संचरित्रं
SC 41 यो पुन भिक्षुः संचरित्रं समापद्येय इस्त्रियाये मतं पुरुषस्योपसंहरेय पुरुषस्य वा मतं इस्त्रियाये उपसंहरेय जायत्तनेन वा जार्तनेन वा अन्तमशतो तत्क्षणिकायाम् अपि संघातिशेषो ।
संघातिशेष ६: कुटीं
SC 42 स्वयं याचिकाय भिक्षुणा कुटी कारयमाणेन अस्वामिकात्मोद्देशिका कुटी कारापयितव्या । तत्रेदं प्रमाणं ☸ दीर्घशो द्वादश वितस्तीयो सुगतवितस्तिना । तिर्यक् सप्तान्तरं । भिक्षू चानेनाभिनेतव्या वस्तुदेशनाय । तेहि भिक्षुहि वस्तु देशयितव्यं । अनारंभं सपरिक्रमणं । सारंभे चेद् भिक्षु वस्तुस्मिन्न् अपरिक्रमणे स्वयंयाचिकाय कुटीं कारापेय अस्वामिकाम् आत्मोद्देशिकां भिक्षून् वा नाभिनेय वस्तुदेसनाय, प्रमाणं वा अतिक्रमेय, अदेशिते वस्तुस्मिन्न् अपरिक्रमणे संघातिशेषो ।
संघातिशेष ७: विहारो
SC 43 महालकं भिक्षुणा विहारं कारा पयमाणेन सस्वामिकम् आत्मोद्देशिकं भिक्षू चानेनाभिनेतव्या वस्तुदेशनाय । तेहि भिक्षूहि वस्तु देशयितव्यं । अनारंभं सपरिक्रमणं । सारंभे चेद् भिक्षु वस्तुस्मिन्न् अपरिक्रमणे महल्लकं विहारं कारापेय सस्वामिकम् आत्मोद्देशिकं भिक्षून् वा नाभिनेय वस्तुदेशनाय, अदेशिते वस्तुस्मिन्न् अपरिक्रमणे संघातिशेषो ।
संघातिशेष ८: अभूतेन (१)
SC 44 यो पुन भिक्षु भिक्षुस्य दुष्टो, दोषात् कुपितो, अनात्तमनो शुद्धं भिक्षुम् अनापत्तिकम् अमूलकेन पाराजिकेन धर्मेण अनुध्वंसेय अप्य् एवं नाम इमं भिक्षुं ब्रह्मचर्यातो च्यावेयं ति, सो तद् अपरेण समयेन समनुग्राहियमाणो वा असमनुग्राहियमाणो वा अमूलकम् एव तम् अधिकरणं भवति । अमूलकस्य च अधिकरणस्य च अधर्मो उपादिन्नो भवति, भिक्षु च दोषे प्रतिष्ठिहति दोषाद् अवचामीति संघातिशेषो ।
संघातिशेष ९: अभूतेन (२)
SC 45 यो पुन भिक्षु भिक्षुस्य दुष्टो, दोषात् कुपितो, अनात्तमनो अन्यभागीयस्याधिकरणस्य किञ्चिद् एव लेशमात्रकं धर्मम् उपादाय अपराजिकं भिक्षुं पाराजिकेन धर्मेण अनुध्वंसेय अप्य् एव नाम इमं भिक्षुं ब्रह्मचर्यातो च्यावेयं ति, सो तद् अपरेण समयेन समनुग्राहियमाणो वा असमनुग्राहियमाणो वा अन्यभागीयम् एव तम् अधिकरणं भवति, अन्यभागीयस्य चाधिकरणस्य कोचिद् ए व लेशमात्रको धर्मो उपादिन्नो भवति, भिक्षु च दोषे प्रतिष्ठिहति दोषाद् अवचामीति संघातिशेषो ।
संघातिशेष १०: संघस्य च भेदायोपक्रामति
SC 46 यो पुन भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमेय भेदनसंवर्तनीयं वाधिकरणं समादाय प्रगृह्य तिष्ठेय, सो भिक्षु भिक्षूहि एवम् अस्य वचनीयो ☸ मा आयुष्मन् समग्रस्य संघस्य भेदाय पराक्रमेहि, भेदनसंवर्तनीयं वा अधिकरणं समादाय प्रगृह्य तिष्ठाहि । समेतु आयुष्मान् सार्धं संघेन, समग्रो हि संघो सहितो सम्मोदमानो अविवदमानो एकुद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानो सुखं च फासुं च विहरति । एवं च सो भिक्षु भिक्षूहि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं । नो च प्रतिनिस्सरेय, सो भिक्षु भिक्षूहि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावन्तृतीयकं समनुग्राहियमाणो वा समनुभाषियमाणो वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं । नो च प्रतिनिस्सरेय तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय संघातिशेषो ।
संघातिशेष ११: तस्य चानुवर्तकाः
SC 47 तस्य खो पुन भिक्षुस्य भिक्षू सहायका भोन्ति एको वा, द्वौ वा त्रयो वा संबहुला वा, वर्गवादका अनुवर्तकाः समनुज्ञाः संघभेदाय । ते भिक्षू तान् भिक्षून् एवं वदेंसु ☸ मा आयुष्मन्तो एतं भिक्षुं किञ्चिद् वदथ कल्याणं वा पापकं वा । धर्मवादी चैषो भिक्षुर् विन य वादी चैषो भिक्षु, अस्माकं चैषो भिक्षु च्छन्दं च रुचिं च समादाय प्रगृह्य व्यवहरति । यं चैतस्य भिक्षुस्य क्षमते च रोचते च अस्माकम् अपि तं क्षमते च रोचते च । जानन् चैषो भिक्षु भाषते नो अजानन् । ते भिक्षु भिक्षूहि एवम् अस्य वचनीया ☸ मा आयुष्मन्तो एवं वदथ, न एषो भिक्षुर् धर्मवादी, न एषो भिक्षुर् विनयवादी, अधर्मवादी चैषो भिक्षु, अविनयवादी चैषो भिक्षु, अजानन् चैषो भिक्षु भाषते नो जानन् । मा आयुष्मन्तो संघभेदं रोचेन्तु, संघसामग्रीम् एवायुष्मन्तो रोचेन्तु । समेन्तु आयुष्मन्तो सार्धं संघेन । समग्रो हि सहितो सम्मोदमानो अविवदमानो एकुद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानो सुखं च फासुं च विहरति । एवं च ते भिक्षू भिक्षूहि वुच्यमानास् तं वस्तुं प्रतिनिस्सरेंसु इत्य् एतं कुशलं, नो च प्रतिनिस्सरेंसु ते भिक्षू भिक्षूहि यावन्तृतीयकं समनुग्राहितव्याः समनुभाषितव्याः तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावन्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेंसु इ त्य् ए तं कुशलं, नो च प्रतिनिस्सरेंसु तम् एव च वस्तुं समादाय प्रगृह्य तिष्ठेंसु संघातिशेषो ।
संघातिशेष १२: दुर्वचको
SC 48 भिक्षुः खो पुन दुर्वचकजातीयो भोति । सो उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षूहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमानो आत्मानम् अवचनीयं करोति । सो एवम् आह ☸ मा मे आयुष्मन्तो किञ्चिद् वदथ कल्याणं वा पापकं वा । अहम् अप्य् आयुष्मन्तानां न किञ्चिद् वक्ष्यामि कल्याणं वा पापकं वा । विरमथायुष्मन्तो मम वचनाय । सो भिक्षु भिक्षूहि एवम् अस्य वचनीयो ☸ मा आयुष्मन्न् उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षूहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमानो आत्मानम् अवचनीयं करोहि । अ वचनीयम् एवायुष्मान् आत्मानं करोतु । भिक्षू पि आयुष्मन्तं वक्ष्यन्ति शिक्षायां सह धर्मेण सह विन येन । आयुष्मान् अपि भिक्षून् वदतु शिक्षायां सह धर्मेण सह विनयेन । एवं संबद्धा खो पुनस् तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य पर्षा यद् इदम् अन्यमन्यस्य वचनीया, अन्योन्यापत्ति व्युत्थापनीया । एवं च सो भिक्षू भिक्षूहि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं, नो च प्रतिनिस्सरेय सो भिक्षु भिक्षूहि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावन्तृतीयकं समनुग्राहियमाणो वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं, नो च प्रतिनिस्सरेय तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय संघातिशेषो ।
संघातिशेष १३: कुलदूषकाश्
SC 49 संबहुला भिक्षू खो पुनर् अन्यतरं ग्रामम् वा नगरं वा निगमं वा उपनिश्राय विहरन्ति कुलदूषकाः पापसमाचाराः । तेषां ते पापकाः समाचारा दृश्यन्ते च श्रूयन्ते च । कुलान्य् अपि दुष्टानि दृश्यन्ते च श्रूयन्ते च । कुलदूषकाश् च पुनर् भवन्ति पापसमाचाराः । ते भिक्षू भिक्षूहि एवम् अस्य वचनीयाः ☸ आयुष्मन्तानां खलु पापकाः समाचाराः दृश्यन्ते च श्रूयन्ते च । कुलान्य् अपि दुष्टानि दृश्यन्ते च श्रूयन्ते च । कुलदूषकाश् च पुनर् आयुष्मन्तः पापसमाचाराः । प्रक्रमथायुष्मन्तो इमस्माद् आवासाद् अलं वो इह वुस्तेन । एवं च ते भिक्षू भिक्षूहि वुच्यमानास् ते भिक्षू तान् भिक्षून् एवं वदेंसु ☸ च्छन्दगामी चायुष्मन्तो दोषगामी चायुष्मन्तो संघो, मोहगामी चायुष्मन्तो संघो, भयगामी चायुष्मन्तो संघो, संघो च ताहि तादृशिकाहि आपत्तीहि एकत्यान् भिक्षून् प्रव्राजेति एकत्यान् भिक्षून् न प्रव्राजेति । ते भिक्षू भिक्षूहि एवम् अस्य वचनीयाः ☸ मा आयुष्मन्तो एवं वदथ । न संघो च्छन्दगामी, न संघो दोषगामी, न संघो मोहगामी, न संघो भयगामी । न च संघो ताहि तादृशिकाहि आपत्तीहि एकत्यान् भिक्षून् प्रव्राजेति, एकत्यान् भिक्षून् न प्रव्राजेति । आयुष्मन्तानाम् एव खलु पापकाः समाचाराः दृश्यन्ते च श्रूयन्ते च । कुलान्य् अपि दुष्टानि दृश्यन्ते च श्रूयन्ते च । कुलदूषकाश् च पुनर् आयुष्मन्तः पापसमाचाराः । प्रक्रमथायुष्मन्तो इमस्माद् आवासाद् अलं वो इह वुस्तेन । एवं च ते भिक्षू भिक्षूहि वुच्यमाना तं वस्तुं प्रतिनिस्सरेंसु इत्य् एतं कुशलं । नो च प्रतिनिस्सरेंसु ते भिक्षू भिक्षूहि यावन्तृतीयकं समनुग्राहितव्या समनुभाषितव्यास् तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावन्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रति नि स्सरेंसु इत्य् एतं कुशलं । नो च प्रतिनिस्सरेंसु तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेंसु संघातिशेषो ।
SC 50
॥ उद्दानं ॥
[१] संचेतनिका [२] हस्तग्रहो [३] ओभाषो [४] परिचर्या अथ [५] संचरित्रं [६] कुटीं [७] विहारो (८–९) द्वे चाभूतेन [१०] संघस्य च भेदायोपक्रामति । [११] तस्य चानुवर्तकाः [१२] दुर्वचको [१३] कुलदूषकाश् च ॥
SC 51 उद्दिष्टा खो पुनर् आयुष्मन्तो त्रयोदश संघातिशेषा धर्माः । तत्र नव प्रथमापत्तिकाश् चत्वारो यावन्तृतीयका, येषां भिक्षुर् अतो ’न्यतराम् आपत्तिम् आपद्यित्वा यावतकं जानन् च्छादेति तावतकं तेन भिक्षुणा अकामपरिवासं परिवसितव्यं । परिवुस्तपरिवासेन भिक्षुणा उत्तरिषडाहं भिक्षुसंघे मानत्वं चरितव्यं । चीर्णमानत्वो भिक्षुः कृतानुधर्मो आह्वयनप्रतिबद्धो यत्र स्याद् विंशगणो भिक्षुसंघो तत्र सो भिक्षु आह्वयितव्यो । एकभिक्षुणापि चेद् ऊनोविंशतिगणो भिक्षुसंघो तं भिक्षुम् आह्वेय, सो च भिक्षु अनाहूतो ते च भिक्षू गर्ह्याः । इयम् अत्र सामीची ।
SC 52 तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
२ अनियत रुलेस्
SC 53 इमे खो पुनर् आयुष्मन्तो दुवे अनियता धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ☸
अनियत १: प्रतिच्छन्नासनं
SC 54 यो पुन भिक्षु मातृग्रामेण सार्धं प्रतिच्छन्नासने अलंकर्मणीये एको एका य रहो निषद्यां कल्पेय, तम् एनं श्रद्धेयवचसा उपासिका दृष्ट्वा त्रयाणां धर्माणाम् अन्यतरान्यतरेण धर्मेण वदेय पाराजिकेन वा संघातिशेषेण वा पाचत्तिकेन वा । निषद्यां भिक्षुः प्रतिजानमानो त्रयाणां धर्माणाम् अन्यतरान्यतरेण धर्मेण कारापयितव्यो पाराजिकेन वा संघातिशेषेण वा पाचत्तिकेन वा येन येन वा पुनर् अस्य श्रद्धेयवचसा उपासिका दृष्ट्वा धर्मेण वदेय, तेन सो भिक्षु धर्मेण कारापयितव्यो । अयं धर्मो अनियतो ।
अनियत २: रहोनिषद्या
SC 55 न हैव खो पुनः प्रतिच्छन्नासनं भवति, नालं कर्मणीयं, अलं खो पुन मातृग्रामं दुष्ठुल्लाय वाचाय ओभाषितुं पापिकाय मैथुनोपसंहिताय । तथारूपे च भिक्षु आसने मातृग्रामेण सार्धम् एको एकाय रहो निषद्यां कल्पेय, तम् एनं श्रद्धेयवचसा उपासिका दृष्ट्वा द्विन्नां धर्माणाम् अन्यतरान्यतरेण धर्मेण वदेय संघातिशेषेण वा पाचत्तिकेन वा । निषद्यां भिक्षुः प्रतिजानमानो द्विन्नां धर्माणाम् अन्यतरान्तरेण धर्मेण कारापयितव्यो संघातिशेषेण वा पाचत्तिकेन वा, येन येन वा पुनर् अस्य श्रद्धेयवचसा उपासिका दृष्ट्वा धर्मेण वदेय, तेन तेन सो भिक्षु धर्मेण कारापयितव्यो । अयं पि धर्मो अनियतो ।
SC 56
॥ उद्दानं ॥
[१] प्रतिच्छन्नासनं [२] रहोनिषद्या च ।
SC 57 उद्दिष्टाः खो पुनर् आयुष्मन्तो दुवे अनियता धर्माः । तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धा? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
३० निस्सर्गिक पाचत्तिक रुलेस्
SC 58 इमे खो पुनर् आयुष्मन्तो त्रिंशन् निस्सर्गिकपाचत्तिका धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ☸
छप्तेर् १
निस्सर्गिकपाचत्तिक १: दशाहं
SC 59 कृतचीवरेहि भिक्षूहि उद्धृतस्मिन् कठिने दशाहपरमं भिक्षुणा अतिरेकचीवरं धारयितव्यं । तदुत्तरिं धारेय, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २: विप्रवासो
SC 60 कृतचीवरेहि भिक्षूहि उद्धृतस्मिन् कठिने एकरात्रं पि चेद् भिक्षुः त्रयाणां चीवराणाम् अन्यतरान्यतरेण विप्रवसेय अन्यत्र संघसंमुतीये, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक ३: अकाले
SC 61 कृतचीवरेहि भिक्षूहि उद्धृतस्मिन् कठिने उत्पद्येय भिक्षुस्य अकालचीवरम् आकांक्षमाणेन भिक्षुणा प्रतिगृह्णितव्यं । प्रतिगृह्णित्वा क्षिप्रम् एव तं चीवरं कारापयितव्यं । कारापयतो च तस्य भिक्षुस्य तं चीवरं न परिपूरेय, मासपरमं तेन भिक्षुणा तं चीवरं निक्षिपितव्यं ऊनस्य पारिपूरीये सन्तीये प्रत्याशाये । तदुत्तरिं निक्षिपेय सन्तीये वा असन्तीये वा प्रत्याशाये निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक ४: प्रतिग्रहो
SC 62 यो पुन भिक्षुर् अन्यातिकाये भिक्षुणीये चीवरं प्रतिगृह्णेय अन्यत्र पल्लट्ठकेन निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक ५: धोवना
SC 63 यो पुन भिक्षुर् अन्यातिकाये भिक्षुणीये पुराणचीवरं धोवापेय वा रञ्जापेय वा आकोटापेय वा निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक ६: याचना
SC 64 यो पुन भिक्षुर् अन्यातकं गृहपतिं वा गृहप तिपुत्रं वा चीवरं याचेय अन्यत्र समये निस्सर्गिकपाचत्तिकं । तत्रायं समयो ☸ आच्छिन्नचीवरो भिक्षुर् भवति । अयम् अत्र समयो ।
निस्सर्गिकपाचत्तिक ७: सान्तरोत्तरं
SC 65 आच्छिन्नचीवरेण भिक्षुणा क्षमते अन्यातकं गृहपतिं वा गृहप तिपुत्रीं वा चीवरं याचितुं । तम् एनम् अभिहृष्टो समानो संबहुलेहि चीवरेहि प्रवारेय, तथाप्रवारितेन भिक्षुणा सान्तरोत्तरपरमं चीवरं सादयितव्यं । तदुत्तरिं सादियेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक ८: विकल्पेन (१)
SC 66 भिक्षुं खो पुनर् उद्दिश्य अन्यतरेषां द्विन्नां गृहपतिकानां चीवरचेतापनान्य् अभिसंस्कृतानि भवन्ति अभिसंचेतयितानि ☸ इमेहि वयं चीवरचेतापनेहि चिवरं चेतापयित्वा इत्थनामं भिक्षुं चीवरेणाच्छदयिष्यामः । तत्र च भिक्षुः पूर्वं अप्रवारितो उपसंक्रमित्वा विकल्पम् आपद्येय ☸ साधु खो पुन यूयम् आयुष्मन्तो इमेहि चीवरचेतापनेहि चीवरं चेतापयित्वा इत्थंनामं भिक्षुं चीवरेणाच्छादेथ । एवंरूपेण वा एवंरूपेण वा उभौ पि सहितौ एकेन कल्याणकामताम् उपादाय । अभिनिष्पन्ने चीवरे नि स्स र्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक ९: विकल्पेन (२)
SC 67 भिक्षुं खो पुनर् उद्दिश्य अन्यतरेषां द्विन्नां गृहपतिकस्य गृहपतिनीये च प्रत्येकचीवरचेतापनानि अभिसंस्कृतानि भवन्ति, अभिसंचेतयितानि ☸ इमेहि वयं प्रत्येकचीवरचेतापनेहि प्रत्येकं प्रत्येकं चीवरं चेतापयित्वा इत्थंनामं भिक्षुं प्रत्येकं प्रत्येकं चीवरेणाच्छदयिष्यामः । तत्र च भिक्षुः पूर्वं अप्रवारितो उपसंक्रमित्वा विकल्पम् आपद्येय ☸ साधु खो पुनस् त्वम् आयुष्मन्, त्वं च भगिनि, इमेहि प्रत्येकचीवरचेतापनेहि प्रत्येकं चीवरं चेतापयित्वा इत्थंनामं भिक्षुं प्रत्येकं चीवरेणाच्छादेथ एवंरूपेण वा एवंरूपेण वा उभौ पि सहितौ एकेन कल्याणकामताम् उपादाय । अभिनिष्पन्ने चीवरे निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १०: राजा
SC 68 भिक्षुं खो पुनर् उद्दिश्य अन्यतरो राजा वा राजभोग्यो वा दूतेन चीवरचेतापनानि प्रेषेय । सो भिक्षुस् तेनोपसंक्रमित्वा तं भिक्षुम् एवं वदेय ☸ इमानि खल्व् आर्यम् उद्दिश्य इत्थंनामेन राज्ञा च राजभोग्येन वा दूतेन चीवरचेतापनानि प्रेषितानि, तानि आर्यो प्रतिगृह्णातु । तेन भिक्षुणा सो दूतो एवम् अस्य वचनीयो ☸ न खो पुनर् आयुष्मन् क्षमते भिक्षुस्य चीवरचेतापनानि प्रतिगृह्णितुं । चीवरं तु वयं प्रतिगृह्णामः कालेन समयेन कल्पिकं दीयमानं । एवम् उक्ते सो दूतो तं भिक्षुम् एवं वदेय स न्ति पुनर् आर्य केचिद् भिक्षूणां वैयापृत्यकराति । आकांक्षमाणेन भिक्षुणा सन्ता वैयापृत्यकरा व्यपदिशितव्याः आरामिका वा । एते आयुष्मन् भिक्षूणां वैयापृत्यकरा ये भिक्षूणां वैयापृत्यं करोन्ति । एवम् उक्ते सो दूतो येन वैयापृत्यकरास् तेनोपसंक्रमित्वा तान् वैयापृत्यकरान् एवं वदेय ☸ साधु खो पुन यूयम् आयुष्मन्तो वैयापृत्यकरा इमेहि चीवरचेतापनेहि चीवरं चेतापयित्वा इत्थंनाम भिक्षुं चीवरेणाच्छादेथ कालेन समयेन कल्पिकेनानवद्येन । सो च दूतो तान् वैयापृत्यकरान् संज्ञपयित्वा येन सो भिक्षुस् तेनोपसंक्रमित्वा न भिक्षुम् एव वदेय ये खु ते आर्येण वैयापृत्यकरा व्यपदिष्टास् ते मया संज्ञप्तास् तान् उपसंक्रमेयामि । आच्छादयिष्यन्ति ते चीवरेण कालेन समयेन कल्पिकेनानवद्येन । आकांक्षमाणेन भिक्षुणा चीवरार्थिकेन येन ते वैयापृत्यकरास् तेनोपसंक्रमित्वा ते वैयापृत्यकराः सकृत् द्विक्खुत्तो त्रिक्खुत्तो चोदयितव्या विज्ञापयितव्याः ☸ अर्थो आयुष्मन्तो भिक्षुस्य चीवरेणेति । सकृत् द्विक्खुत्तो त्रिक्खुत्तो चोदयन्तो विज्ञापयन्तो तं चीवरम् अभिनिष्पादेय इत्य् एतत् कुशलं, नो चेद् अभिनिष्पादेय चतुक्खुत्तो पञ्चखुत्तो षट्खुत्तोपरमं तेन भिक्षुणा तूष्णीभूतेन उद्देशे स्थातव्यं । चतुक्खुत्तो पञ्चक्खुत्तो षट्क्खुत्तोपरमं तूष्णीभूतो उद्देशे तिष्ठन्तो तं चीवरम् अभिनिष्पादेय, इत्य् एतत् कुशलं, नो चेद् अभिनिष्पादेय तद् उत्तपन्तो वा व्यायमन्तो वा तं चीवरम् अभिनिष्पादेय, अभिनिष्पन्ने चीवरे निस्सर्गिकपाचत्तिकं । नो चेद् अभिनिष्पादेय येन से तानि राज्ञा वा राजभोग्येन वा दूतेन चीवरचेतापनानि प्रेषितानि तत्र तेन भिक्षुणा स्वयं वा गन्तव्यं, दूतो वा प्रतिरूपो प्रेषयितव्यो, यानि खु आयुष्मन्तेहि इत्थंनामं भिक्षुम् उद्दिश्य दूतेन चीवरचेतापनानि प्रेषितानि न खु तानि तस्य भिक्षुस्य किञ्चिद् अर्थं स्फरन्ति, प्रत्यन्वेषथ, न स्वकं धर्मो । वो विप्रणशिष्यतीति इयम् अत्र सामीची ।
SC 69
॥ उद्दानं ॥
[१] दशाहं [२] विप्रवासो [३] अकाले च [४] प्रतिग्रहो [५] धोवना [६] याचना चंव । [७] सान्तरोत्तरं (८–९) द्वे च विकल्पेन [१०] राजा च ॥ प्रथमो वर्गः ॥
छप्तेर् २
निस्सर्गिकपाचत्तिक ११: शुद्धकालकानां
SC 70 यो पुन भिक्षुः शुद्धकालकानाम् एडकलोमानां नवं सन्थतं कारापेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १२: द्वे भागा
SC 71 नवं सन्थतं भिक्षुणा कारापयमाणेन शुद्धकालकानाम् एडकलोमानां द्वे भागा आदयितव्यास् तृतीयो ओदातिकानां चतुर्थो गोचरिकाणां । तदुत्तरिम् आदियेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १३: कौशेयमिश्र
SC 72 यो पुन भिक्षुः कौशेयमिश्राणाम् एडकलोमानां नवं सन्थतं कारापेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १४: षड्वर्षाणि
SC 73 नवं सन्थतं भिक्षुणा कारापयमाणेन अकामं षड्वर्षाणि धारयितव्यं । ततो च भिक्षुः प्रत्योरेण तं पुराणं सन्थतं विसर्जयित्वा वा अविसर्जयित्वा वा अन्यं नवं सन्थतं कारापेय कल्याणकामताम् उपादाय, अन्यत्र नमतसंमुतीये निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १५: निषीदनं
SC 74 नवं सन्थतनिषीदनं भिक्षुणा कारापयमाणेन ततो पुराणसन्थतातो समन्तात् सुगतवितस्तिना भागो आदयितव्यो नवस्य दुर्वण्णीकरणार्थं । ततो च भिक्षुर् अनादाय नवसन्थतं निषीदनं कारापेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १६: अध्वानमार्गो
SC 75 भिक्षुस्य खो पुनर् अध्वानमार्गे प्रतिपन्नस्य उत्पद्येंसु ए ड कलोमानि । आकांक्षमाणेन भिक्षुणा प्रतिगृह्णितव्यं । प्रतिगृह्णित्वा सामं त्रियोजनपरमं हर्तव्यम् असन्ते अन्यस्मि न् हारके तदुत्तरिं हारेय सन्ते वा असन्ते वा अन्यस्मि न् हारके, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १७: विवटा वा
SC 76 यो पुन भिक्षुर् अन्यातिकाये भिक्षुणीये एडकलोमादि धोवापेय वा रंजापे य वा विवटापये वा, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १८: स्वहस्तं
SC 77 यो पुन भिक्षुः स्वहस्तं जातरूपरजतम् उद्गृह्णेय वा उद्गृह्णापेय वा अन्तमसतो इह निक्षिपेहीति वा वदेय, उपनिक्षिप्तं वा सादियेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक १९: क्रयविक्रय
SC 78 यो पुन भिक्षुर् अनेकविधं क्रयविक्रयव्यवहारं समापद्येय संय्यथीदं इमं क्रिण इतो क्रिण एत्तकमेत्तके न क्री णाहीति वा वदेय, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २०: विकृतिव्यवहार
SC 79 यो पुन भिक्षुर् अनेकविधं जातरूपरजतविकृतिव्यवहारं समापद्येय निस्सर्गिकपाचत्तिकम् ॥
SC 80
॥ उद्दानं ॥
[११] शुद्धकालकानां [१२] द्वे भागा [१३] कौशेयमिश्र [१४] षड्वर्षाणि [१५] निषीदनं [१६] अध्वानमार्गो [१७] विवटा वा [१८] स्वहस्तं [१९] क्रयविक्रय [२०] विकृतिव्यवहारेण ॥ द्वितीयो वर्गः ॥
छप्तेर् ३
निस्सर्गिकपाचत्तिक २१: पात्र
SC 81 दशाहपरमं भिक्षुणा अतिरेकपात्रं धारयितव्यं । तदुत्तरिं धारेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २२: बन्धनं
SC 82 यो पुन भिक्षु ऊनपञ्चबन्धनबद्धेन पात्रेण अन्यं नवं पात्रं पर्येषेय कामाताम् उपादाय, तेन भिक्षुणा तं पात्रं भिक्षुपर्षाये निस्सरितव्यं । यो तहि भिक्षुपर्षाये पात्रपर्यन्तो भवति सो तस्य भिक्षुस्य अनुप्रदातव्यो ☸ एवं ते आयुष्मन् पात्रो धारयितव्यो यावद् भेदनं, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २३: भैषज्यम्
SC 83 यानि खो पुनर् इमानि गिलानप्रतिषेवणीयानि भैषज्यानि भवन्ति सय्यथीदं सर्पिस्तैलमधुफाणितं ☸ एवंरूपाणि गिलानेन भिक्षुणा सत्कृत्याभिगृहीतानि, क्षमते सप्ताहं सन्निधिकारं परिभुञ्जितुं, सन्तं शेषं निस्सरितव्यं तद् उत्तरितव्यं । तदुत्तरिं खादेय वा भुंजेय वा सन्तं वा शेषभू तं निस्सरेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २४: आच्छेदो
SC 84 यो पुन भिक्षु भिक्षुस्य चीवरं दत्वा यथा दुष्टो दोषात् कुपितो अनात्तमानो आच्छिन्देय वा आच्छिन्दापयेय वा ☸ आहर भिक्षु चीवरं, न ते ’हं देमीति वा वदेय, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २५: वर्षाशाटिका
SC 85 मासो शेषो ग्रीष्माणाम् इति भिक्षुणा वर्षासाटिकाचीवरं पर्येषितव्यं । अर्धमासो अवशिष्टो ति कृत्वा स्नपितव्यम् । ततो च भिक्षुः प्र त्यो रेण वर्षासाटिकाचीवरं पर्येषेय, कृत्वा वा स्नापेय, निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २६: तन्तुवायेन (१)
SC 86 यो पुन भिक्षुः स्वयंयाचिकाय सूत्रं तन्तुवायेन चीवरं वुनापेय निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २७: तन्तुवायेन (२)
SC 87 भिक्षुं खो पुनर् उद्दिश्य अन्यतरो गृहपतिर् वा गृहपतिपुत्रो वा तन्तुवायेन चीवरं वुनापेय, तेन च भिक्षुः पूर्वं अप्रवारितो उपसंक्रमित्वा विकल्पम् आपद्येय ☸ साधु खो पुनस् त्वम् आयुष्मन्न् इमं चीवरम् आयतं च करोहि, विस्तृतं च करोहि, सुवुतं च करोहि, सुतच्छितं च करोहि, सुविलिखितं च करोहि । अप्य् एव नाम वयं पि तव किञ्चिद् एव मात्राम् उपसंहरेम, माषकं वा माषकार्हं वा पिण्डपातं वा पिण्डपातार्हं वा । तत्र च सो भिक्षुर् एवं वदित्वा न किञ्चिद् एव मात्राम् उपसंहरेय माषकं वा माषकार्हं वा पिण्डपातं वा पिण्डपातार्हं वा, अभिनिष्पन्ने चीवरे निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिक २८: दशाहानागतम्
SC 88 दशाहानागतं खो पुन त्रेमासं कार्त्तिकी पौर्णमासी उत्पद्येय भिक्षुस्य आत्यायिकं चीवरम् आत्यायिकं मन्यमानो न भिक्षुणा प्रतिगृह्णितव्यं । प्रतिगृह्णित्वा यावच् चीवरदानकालसमयं निक्षिपितव्यं । तदुत्तरिं निक्षिपेय निस्सर्गिकपाचत्तिकम् ।
निस्सर्गिकपाचत्तिक २९: उपवर्षं
SC 89 उपवर्षं खो पुनः त्रेमासं कार्त्तिकी पौर्णमासी भिक्षु चारण्यके शयनासने विहरन्ति समये सप्रतिभये साशंकसंमते । आकांक्षमाणेन भिक्षुणा त्रयाणां चीवराणाम् अन्यतरान्यतरं चीवरम् अन्तरगृहे निक्षिपितव्यं, स्यात् तस्य भिक्षुस्य कोचिद् एव प्रत्ययो तस्माच् चीवराद् विप्रवासाय, षडाहपरमं तेन भिक्षुणा तस्माच् चीवराद् विप्रवसितव्यं । तदुत्तरिं विप्रवसेय अन्यत्र भिक्षु संमुतीये निस्सर्गिकपाचत्तिकम् ।
निस्सर्गिकपाचत्तिक ३०: परिणामन
SC 90 यो पुन भिक्षुर् जानन् सांघिकां लाभं संघे परिणतम् आत्मनो परिणामेय निस्सर्गिकपाचत्तिकम् ॥
SC 91
॥ उद्दानं ॥
[२१] पात्र [२२] बन्धनं [२३] भैषज्यम् [२४] आच्छेदो [२५] वर्षाशाटिका । (२६–२७) तन्तुवायेन द्वे [२८] दशाहानागतम् [२९] उपवर्षं [३०] परिणामनेन ॥ तृतीयो वर्गः ॥
SC 92 उद्दिष्टाः खो पुनर् आयुष्मन्तो त्रिंशन् निस्सर्ग्गिकपाचत्तिका धर्म्माः । तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
९२ शुद्धपाचत्तिक रुलेस्
SC 93 इमे खो पुनर् आयुष्मन्तो द्वानवतिं शुद्धपाचत्तिका धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ☸
छप्तेर् १: मृषा
पाचत्तिक १: मृषा
संप्रजानमृषावादे पाचत्तिकं ।
पाचत्तिक २: ओमृष्य
ओमृष्यवादे पाचत्तिकं ।
पाचत्तिक ३: पैशुन्य
भिक्षुपैशुन्ये पाचत्तिकं ।
पाचत्तिक ४: उत्खोटन
SC 94 यो पुन भिक्षुर् जानं संघस्याधिकरणानि धर्मेण विनयेन विहितानि व्युपशान्तानि पुनः कर्माय उत्खोटेय ☸ इदं पुनः कर्म कर्तव्यं भविष्यतीति ☸ एतद् एव प्रत्ययं कृत्वा अनन्यम् इमं तस्य भिक्षुस्य उत्खोटनं पाचत्तिकं ।
पाचत्तिक ५: धर्मदेशना
SC 95 यो पुन भिक्षुर् अकल्पियकारो मातृग्रामस्य धर्मं देशेय उत्तरि च्छहि पञ्चहि वाचाहि अन्यत्र विज्ञपुरुषपुद्गलेन पाचत्तिकं ।
पाचत्तिक ६: पदशो
SC 96 यो पुन भिक्षुर् अनुपसंपन्नं पुद्गलं पदशो धर्मं वाचेय पाचत्तिकं ।
पाचत्तिक ७: विशेषणम्
SC 97 यो पुन भिक्षुर् अनुपसंपन्नस्य पुद्गलस्य सन्तिके आत्मोपनायिकम् उत्तरिमनुष्यधर्मम् अलमार्यज्ञानदर्शनं विशेषाधिगमं प्रतिजानेय ☸ इति जानामि इति पश्यामीति भूतस्मिं पाचत्तिकं ।
पाचत्तिक ८: आरोचना
SC 98 यो पुन भिक्षुर् जानन् भिक्षुस्य दुष्ठुल्लाम् आपत्तिम् अनुपसंपन्नस्य पुद्गलस्य सन्तिके आरोचेय अन्यत्र कृताये प्रकाशनासंमुतीये पाचत्तिकं ।
पाचत्तिक ९: यथासंस्तुत
SC 99 यो पुन भिक्षुर् जानन् सांघिके लाभे भाजीयमाने पूर्वे समनुज्ञो भूत्वा पश्चात् क्षियाधर्मम् आपद्येय ☸ यथासंस्तुतम् एवायुष्मन्तो, जानन् सांघिकं लाभं संघे परिणतं पुद्गलो पुद्गलस्य परिणामयतीति पाचत्तिकं ।
पाचत्तिक १०: विगर्हण
SC 100 यो पुन भिक्षुर् अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्दिश्यमाने एवं वदेय ☸ किं पुनर् आयुष्मन्तो इमेहि क्षुद्रानुक्षूद्रेहि शिक्षापदेहि उद्दिष्टेहि यावद् एव भिक्षूणां कौकृत्याय विघाताय विलेखाय संवर्तन्तीति, शिक्षाविगर्हणे पाचत्तिकं ।
SC 101
॥ उद्दानम् ॥
[१] मृषा [२] ओमृष्य [३] पैशुन्य [४] उत्खोटन [५] धर्मदेशना । [६] पदशो [७] विशेषणम् [८] आरोचना [९] यथासंस्तुत [१०] विगर्हणेन च ॥ प्रथमो वर्गः ॥
छप्तेर् २: बीजं
पाचत्तिक ११: बीजम्
बीजग्रामभूतग्रामपातापनके पाचत्तिकं ।
पाचत्तिक १२: अन्यवादं
अन्यवादविहिंसनके पाचत्तिकं ।
पाचत्तिक १३: ओध्यायनं
ओध्यायनक्षीयनके पाचत्तिकं ।
पाचत्तिक १४: मञ्च
SC 102 यो पुन भिक्षुः सांघिके भिक्षुविहारे अभ्यवकाशे मञ्चं वा पीठं वा विशिकं वा चतुरश्रकं वा कुर्चं वा बिम्बोहनं वा प्रज्ञापेत्वा वा प्रज्ञापयित्वा वा ततो प्रक्रमन्तो न उद्धरेय वा, न उद्धरापेय वा, अनामन्त्रयित्वा वा प्रक्रमेय पाचत्तिकं ।
पाचत्तिक १५: शय्या
SC 103 यो पुनर् भिक्षुः सांघिके भिक्षुविहारे अन्तोशय्यां प्रज्ञापेत्वा प्रज्ञापयित्वा वा ततो प्रक्रमन्तो न उद्धरेय वा, न उद्धरापेय वा, अनामन्त्रयित्वा वा प्रक्रमेय पाचत्तिकं ।
पाचत्तिक १६: निकड्ढनं
SC 104 यो पुनर् भिक्षु भिक्षुस्य दुष्टो दोषात् कुपितो अनात्तमनो सांघिकाद् भिक्षुविहाराद् भिक्षुं निकड्ढेय वा निकड्ढापेय वा अन्तमसतो नेह भिक्षू ति वा वदेय पाचत्तिकं ।
पाचत्तिक १७: पूर्वोपगतं
SC 105 यो पुन भिक्षु सांघिके भिक्षुविहारे जानन् भिक्षूणां पूर्वप्रज्ञप्ताहि शय्याहि पश्चाद् आगत्वा मध्येशय्यां प्रज्ञापेय यस्योद्वहिष्यति सो प्रक्रमिष्यतीति । एतद् एव प्रत्ययं कृत्वा, अनन्यम् इमं तस्य भिक्षुस्य उद्वाहनपाचत्तिकं ।
पाचत्तिक १८: वैहायसं
SC 106 यो पुन भिक्षुः सांघिके भिक्षुविहारे उपरि वैहायसकुटिकाये आहत्य पादके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं ।
पाचत्तिक १९: उदक
SC 107 यो पुन भिक्षुर् जानन् सप्राणकेनोदकेन तृणं वा मृत्तिकां वा सिञ्चेय वा सिञ्चापेय वा पाचत्तिकं ।
पाचत्तिक २०: छादन
SC 108 महल्लकं भिक्षुणा विहारं छादापयमानेन यावद् द्वारकोषार्गलप्रतिष्ठानम् आलोकसन्धिपरिकर्मम् उपादाय द्वे वा त्रयो वा च्छादनपर्याया अधिष्ठिहितव्याः अल्पहरिते स्थितेन । तदुत्तरिं अधिष्ठिहेय अल्पहरिते स्थितो पि पाचत्तिकं ।
SC 109
॥ उद्दानं ॥
[११] बीजम् [१२] अन्यवादं [१३] ओध्यायनं [१४] मञ्च [१५] शय्या [१६] निकड्ढनं । [१७] पूर्वोपगतं [१८] वैहायसं [१९] उदक [२०] च्छादनेन ॥ द्वितीयो वर्गः ॥
छप्तेर् ३: असंमतो
पाचत्तिक २१: असंमतो
SC 110 यो पुन भिक्षु असंमतो भिक्षुणीम् ओवदेय पाचत्तिकं ।
पाचत्तिक २२: संमतो
SC 111 संमतो वापि भिक्षुः भिक्षूणीम् ओवदेय विकाले, अस्तंगते सूर्ये, अनूहते अरुणे पाचत्तिकं ।
पाचत्तिक २३: ओवादो
SC 112 यो पुन भिक्षु ओवादप्रेक्षो भिक्षुणीउपाश्रयम् उपसंक्रमेय सन्तं भिक्षुम् अनामन्त्रयित्वा, अन्यत्र समये पाचत्तिकं । तत्रायं समयो ☸ गिलाना भिक्षुणी ओवदितव्या अनुशासितव्या भवति । अयम् अत्र समयो ।
पाचत्तिक २४: आमिषं
SC 113 यो पुन भिक्षु भिक्षुम् एवं वदेय ☸ आमिषहेतोर् आयुष्मन् भिक्षु भिक्षुणीं ते ओवदतीति पाचत्तिकं ।
पाचत्तिक २५: निषद्या
SC 114 यो पुन भिक्षु भिक्षुणीय सार्धम् एको एकाय रहो निषद्यां कल्पेय पाचत्तिकं ।
पाचत्तिक २६: अध्वानमार्गो
SC 115 यो पुन भिक्षु भिक्षुणीय सार्धं संविधाय अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरं पि, अन्यत्र समये, पाचत्तिकं । तत्रायं समयो ☸ मार्गो भवति सभयो सप्रतिभयो साशंकसंमतो । अयम् अत्र समयो ।
पाचत्तिक २७: नावा
SC 116 यो पुन भिक्षु भिक्षुणीय सार्धं संविधाय एकनावां अभिरुहेय ऊर्ध्वगामिनीं वा अधोगामिनीं वा, अन्यत्र तिर्योत्तरणाय पाचत्तिकं ।
पाचत्तिक २८: देति
SC 117 यो पुन भिक्षु अन्यातिकाये भिक्षुणीये चीवरं दद्याद् अन्यत्र पल्लट्ठकेन पाचत्तिकं ।
पाचत्तिक २९: सीवेति
SC 118 यो पुन भिक्षुर् अन्यातिकाये भिक्षुणीये चीवरं सीवेय वा सीवापेय वा पाचत्तिकं ।
पाचत्तिक ३०: परिपाचन
SC 119 यो पुन भिक्षुर् जानन् भिक्षुणीपरिपाचितं पिन्डपातं परिभुञ्जेय, अन्यत्र पूर्वे गृहीसमारम्भे पाचत्तिकं ।
SC 120
॥ उद्दानं ॥
[२१] असंमतो [२२] संमतो चापि [२३] ओवादो [२४] आमिषं [२५] निषद्या च । [२६] अध्वानमार्गो [२७] नावा च [२८] देति [२९] सीवेति [३०] परिपाचनेन ॥ तृतीयो वर्गः ॥
छप्तेर् ४: एकाहपरमो
पाचत्तिक ३१: आवसथो
SC 121 एकाहपरमं भिक्षुणा अगिलानेन आवसथपिण्डपातो परिभुञ्जितव्यो, तदुत्तरिं परिभुंजेय पाचत्तिकं ।
पाचत्तिक ३२: परम्पर
SC 122 परम्पराभोजने अन्यत्र समये पाचत्तिकं । तत्रायं समयो गिलानसमयो चीवरदानकालसमयो । अयम् अत्र समयो ।
पाचत्तिक ३३: प्रवारणा
SC 123 यो पुन भिक्षुर् भुंजावी प्रवारितो उत्थितो आसनातो, अनतिरिक्तं कृतं खादनीयं वा भोजनीयं वा खादेय वा भुंजेय वा पाचत्तिकं ।
पाचत्तिक ३४: आसादना
SC 124 यो पुन भिक्षुर् जानन् भिक्षु भुक्तावी प्रवारितम् उत्थितम् आसनातो आसादनाप्रेक्षो अनतिरिक्तकृतेन खादनीयेन वा भोजनीयेन वा उपनिमन्त्रेय, एहि भिक्षु खादाहि भुंजाहीति वा वदेय भुक्तस्मिं पाचत्तिकं ।
पाचत्तिक ३५: अदिन्नं
SC 125 यो पुन भिक्षुर् अदिन्नम् अप्रतिग्राहितं मुखद्वारिकम् आहारम् आहारेय अन्यत्रोदकदन्तपोणे पाचत्तिकं ।
पाचत्तिक ३६: विकालं
विकालाभोजने पाचत्तिकं ।
पाचत्तिक ३७: सन्निधिं
सन्निधिकारभोजने पाचत्तिकं ।
पाचत्तिक ३८: मन्था
SC 126 भिक्षुं खो पुनः कुलेहि उपसंक्रान्तं प्रवारेंसु पूपेहि वा मन्थेहि वा । तथाप्रवारितेन भिक्षुणा यावत्त्रिपात्रपूरपरमं ततो प्रतिगृह्णितव्यं । प्रतिगृह्णित्वा बहिर्धा नीहरितव्यं । बहिर्धा नीहरित्वा अगिलानकेहि भिक्षूहि सार्धं संविभजित्वा खादितव्यं भुंजितव्यं । तदुत्तरिं प्रतिगृह्णित्वा बहिर्धा नीहरित्वा अगिलानकेहि भिक्षूहि सार्धं संविभजित्वा वा असंविभजित्वा वा खादेय वा भुंजेय वा पाचत्तिकं ।
पाचत्तिक ३९: विज्ञप्तिः
SC 127 यानि खो पुनर् इमानि प्रणीतसंमतानि भोजनानि भवन्ति संय्यथीदं सर्पिस्तैलं मधु फाणितं दुग्धं दधि मत्स्यं मांसं यो पुन भिक्षुर् एवंरूपाणि प्रणीतसंमतानि भोजनानि आत्मार्थाय अगिलानो कुलेहि विज्ञपेत्वा वा विज्ञापायेत्वा वा खादेय वा भुंजेय वा पाचत्तिकं ।
पाचत्तिक ४०: गणभोजन
SC 128 गणभोजने अन्यत्र समये पाचत्तिकं । तत्रायं समयो ☸ गिलानसमयो चीवरदानकालसमयो अध्वानगमनसमयो नावाभिरोहणसमयो महासमयो श्रवणभक्तं । अयम् अत्र समयो ।
SC 129
॥ उद्दानं ॥
[३१] आवसथो [३२] परम्पर [३३] प्रवारणा [३४] आसादना [३५] अदिन्नं । [३६] विकालं [३७] सन्निधिं [३८] मन्था [३९] विज्ञप्तिः [४०] गणभोजनेन ॥ चतुर्थो वर्गः ॥
छप्तेर् ५: ज्योति
पाचत्तिक ४१: ज्योतिः
SC 130 यो पुन भिक्षुर् आत्मार्थाय अगिलानो ज्योतिस्मिं वितापनाप्रेक्षो तृणं वा काष्ठं वा गोमयं वा सकलिकां वा तुषं वा संकारं वा आदहेय वा आदहापेय वा अन्यत्र समये पाचत्तिकं ।
पाचत्तिक ४२: सहगार
SC 131 यो पुन भिक्षुर् अनुपसंपन्नेन पुद्गलेन सार्धं उत्तरि द्विरात्रं त्रिरात्रं वा सहगारशय्यां कल्पेय पाचत्तिकं ।
पाचत्तिक ४३: छन्दम्
SC 132 यो पुन भिक्षु भिक्षूणां कर्मणा च्छन्दं दत्वा पश्चाद् दुष्टो दोषात् कुपितो अनात्तमनो एवं वदेय ☸ अदिन्नो मे छन्दो, दुर्दिन्नो मे छन्दो, अकृतान्य् एतानि कर्माणि दुष्कृतान्य् एतानि कर्माणि, नाहम् एतेषां कर्मणां च्छन्दं देमीति वदेय पाचत्तिकं ।
पाचत्तिक ४४: उद्योजना
SC 133 यो पुन भिक्षु भिक्षुम् एवं वदेय ☸ एहि त्वम् आयुष्मन् ग्रामं पिन्डाय प्रविशिष्यामः । अहं च ते तत्र किंचिद् दापयिष्यं । सो तत्र तस्य किञ्चिद् दापयित्वा वा अदापयित्वा वा पश्चाद् उद्योजनप्रेक्षो एवं वदेय ☸ गच्छ त्वम् आयुष्मन् न मे त्वया सार्धं फासु भवति कथाय वा निषद्याय वा, एकस्यैव मम फासु भवति कथाय वा निषद्याय वा । एतद् एव प्रत्ययं कृत्वा अनन्यम्, इमं तस्य भिक्षुस्य उद्योजनपाचत्तिकं ।
पाचत्तिक ४५: अन्तरायिका (१)
SC 134 यो पुन भिक्षु भिक्षून् एवं वदेय । तथाहम् आयुष्मन्तो भगवता धर्मं देशितम् आजानामि यथा ये इमे अन्तरायिका धर्मा उक्ता भगवता तान् प्रतिसेवतो नालम् अन्तरायाय । सो भिक्षु भिक्षूहि एवम् अस्य वचनीयो ☸ मा आयुष्मन्न् एवं वद, मा भगवन्तम् अभ्याचक्ष असता दुर्गृहीतेन । अन्तरायिका एवायुष्मन् धर्माः समाना अन्तरायिका धर्मा उक्ता भगवता, अलं च पुनस् तान् प्रतिषेवतो अन्तरायाय । एवं च सो भिक्षु भिक्षूहि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं । नो च प्रतिनिस्सरेय सो भिक्षु भिक्षूहि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावन्तृतीयकं समनुग्राहियमाणो वा समनुभाषियमाणो वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं । नो च प्रतिनिस्सरेय सो भिक्षुः समग्रेण संघेन उत्क्षिपितव्यो । इमं तस्य भिक्षुस्य उत्क्षेपणपाचत्तिकं ।
पाचत्तिक ४६: अन्तरायिका (२)
SC 135 यो पुन भिक्षुर् जानन् भिक्षुं तथा उत्क्षिप्तं समग्रेण संघेन धर्मेण विनयेन यथावादिं तथाकारिं तां पापिकां दृष्टिं अप्रतिनिस्सरन्तं अकृतानुधर्मं संभुञ्जेय वा संवसेय वा सहगारशय्यां वा कल्पेय पाचत्तिकं ।
पाचत्तिक ४७: अन्तरायिका (३)
SC 136 श्रमणुद्देसो पि चेद् एवं वदेय तथाहम् आयुष्मन्तो भगवता धर्मं देशितम् आजानामि यथा ये इमे अन्तरायिका कामा उक्ता भगवता तान् प्रतिसेवतो नालम् अन्तरायाय । सो श्रमणुद्देशो भिक्षूहि एवम् अस्य वचनीयो ☸ मा आयुष्मन् च्छ्रमणुद्देश एवं वद, मा भगवन्तम् अभ्याचक्ष असत्ता दुर्गृहीतेन । अन्तरायिका एवायुष्मन् च्छ्रमणुद्देश कामाः समाना अन्तरायिकाः कामा उक्ता भगवता । अलं च पुनस् तान् प्रतिसेवतो अन्तरायाय । एवं च सो श्रमणुद्देशो भिक्षूहि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं । नो च प्रतिनिस्सरेय सो श्रमणुद्देशो भिक्षूहि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सर्गाय यावन्तृतीयकं समनुग्राहियमाणो वा समनुभाषियमाणो वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतं कुशलं, नो च प्रतिनिस्सरेय सो श्रमणुद्देशो भिक्षूहि नाशयितव्यो ☸ अद्यदग्रेण ते आयुष्मन् श्रमणुद्देश न चैव सो भगवांस् तथागतो ’र्हन् सम्यक्संबुद्धो शास्ता व्यपदिशितव्यो । यं पि च दानि लभसि भिक्षूहि सार्धं द्विरात्रं वा त्रिरात्रं वा सहगारशय्यां सापि ते अद्यदग्रेण नास्ति । गच्छ नश्य चल प्रपलाहि । यो पुन भिक्षुर् जानन् तथानाशितं श्रमणुद्देशं यथावादीं तथाकारिं तां पापिकां दृष्टिम् अप्रतिनिस्सरन्तं अकृतानुधर्मं उपस्थापेय वा उपलापेय वा संभुंजेय वा संवसेय वा सहगारशय्यां वा कल्पेय पाचत्तिकं ।
पाचत्तिक ४८: अकृतकल्पं
SC 137 नवचीवरलाभिना भिक्षुणा त्रयाणां दुर्वर्णीकरणानाम् अन्यतरान्यतरं दुर्वणीकरणम् आदयितव्यं ☸ नीलं वा कर्दमं वा कालश्यामं वा । ततो च भिक्षुर् अनादाय नवं चीवरं परिभुंजेय पाचत्तिकं ।
पाचत्तिक ४९: रतनं
SC 138 यो पुन भिक्षुर् अन्यत्र अध्यारामे वा अध्यावसथे वा रतनं वा रतनसंमतं वा उद्गृह्णेय वा उद्गृह्णापेय वा, पाचत्तिकं । आकांक्षमाणेन भिक्षुणा रतनं वा रतनसंमतं वा अध्यारामे वा अध्यावसथे वा उद्गृह्णितव्यं वा उद्गृह्णापयितव्यं वा ☸ यस्य भविष्यति सो हरिष्यतीति । एतद् एव प्रत्ययं कृत्वा, अनन्यम् । इयम् अत्र सामीची ।
पाचत्तिक ५०: स्नान
SC 139 अन्वर्धमासं स्नानम् उक्तं भगवता । अन्यत्र समये पाचत्तिकं । तत्रायं समयो ☸ द्व्यर्धो मासो शेषो ग्रीष्माणां, वर्षाणां च पुरिमो मासो इत्य् एते अड्ढातीयमासाः, परिदाहकालसमयो, अध्वानगमनकालसमयो, गिलानसमयो, कर्मसमयो, वातसमयो, वृष्टिसमयो । अयम् अत्र समयो ।
SC 140
॥ उद्दानम् ॥
[४१] ज्योतिः [४२] सहगार [४३] च्छन्दम् [४४] उद्योजना (४५–४७) त्रयो ’न्तरायिका [४८] अकृतकल्पं [४९] रतनं [५०] स्नानेन ॥ पञ्चमो वर्गः ॥
छप्तेर् ६: सप्राणकं
पाचत्तिक ५१: सप्राणकम्
SC 141 यो पुन भिक्षुर् जानन् सप्राणकम् उदकं परिभुञ्जेय पाचत्तिकं ।
पाचत्तिक ५२: सप्राणकम्
SC 142 यो पुन भिक्षु अचेलकस्य वा अचेलिकाय वा परिव्राजकस्य वा परिव्राजकाये वा स्वहस्तं खादनीयं वा भोजनीयं वा दद्यात् पाचत्तिकं ।
पाचत्तिक ५३: अनुपखज्जं
SC 143 यो पुन भिक्षुर् जानन् संभोजनीये कुले अनुपखज्जासने निषद्यां कल्पेय पाचत्तिकं ।
पाचत्तिक ५४: प्रतिच्छन्नासनं
SC 144 यो पुन भिक्षुर् जानन् संभोजनीये कुले प्रतिच्छन्नासने निषद्यां कल्पेय पाचत्तिकं ।
पाचत्तिक ५५: सेनां (१)
SC 145 यो पुन भिक्षुर् उद्युक्तां सेनां दर्शनाय गच्छेय पाचत्तिकं ।
पाचत्तिक ५६: सेनां (२)
SC 146 स्यात् तस्य भिक्षुस्य कोचिद् एव प्रत्ययो सेनायां गमनाय, द्विरात्रं वा त्रिरात्रं वा तेन भिक्षुणा सेनायां वसितव्यं । तदुत्तरिं वसेय पाचत्तिकं ।
पाचत्तिक ५७: सेनां (३)
SC 147 तत्रापि च भिक्षु द्विरात्रं वा त्रिरात्रं वा सेनायां वसमानो आयूहिकं वा नियूद्धिकं वा अनेकव्यूहं वा संग्रामशीर्षं वा दर्शनाय गच्छेय पाचत्तिकं ।
पाचत्तिक ५८: प्रहरति
यो पुन भिक्षु भिक्षुं प्रहरेय पाचत्तिकं ।
पाचत्तिक ५९: तलशक्तिका
SC 148 यो पुन भिक्षु भिक्षुस्य तलशक्तिकाम् आवर्जेय पाचत्तिकं ।
पाचत्तिक ६०: प्रतिच्छादन
SC 149 यो पुन भिक्षुर् जानन् भिक्षुस्य दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां च्छादेय, सो न परेषाम् आरोचेय किं ति से मा परे जानन्तू ति । अवद्य प्रतिच्छादने पाचत्तिकं ।
SC 150
॥ उद्दानं ॥
[५१] सप्राणकम् [५२] अचेलको [५३] अनुपखज्जं [५४] प्रतिच्छन्नासनं (५५–५७) त्रयं सेनायां [५८] प्रहरति [५९] तलशक्तिका [६०] प्रतिच्छादनेन ॥ षष्ठो वर्गः ॥
छप्तेर् ७: सञ्चिन्त्य
पाचत्तिक ६१: संचिन्त्य
SC 151 यो पुन भिक्षुः संचिन्त्य तिर्यग्योनिगतं प्राणिनं जीविताद् व्यपरोपेय पाचत्तिकं ।
पाचत्तिक ६२: कौकृत्यम्
SC 152 यो पुन भिक्षु भिक्षुस्य संचिन्त्य कौकृत्यम् उपसंहरेय किं ति से मुहूर्तं पि अफासु भवतू ति पाचत्तिकं ।
पाचत्तिक ६३: अप्रत्युद्धरित्वा
SC 153 यो पुन भिक्षु भिक्षुस्य वा भिक्षुणीये वा श्रामणेरस्य वा श्रामणेरीये वा शिक्षमाणाये वा चीवरं दत्वा अप्रत्युद्धरेय परिभुंजेय, अप्रत्युद्धारपरिभोगे पाचत्तिकं ।
पाचत्तिक ६४: अपनिहेय
SC 154 यो पुन भिक्षु भिक्षुस्य पात्रं वा चीवरं वा निषीदनं वा सूचीविग्रहं वा अपनिहेय वा अपनिहापेय वा अन्तमशतो हास्यार्थं पि पाचत्तिकं ।
पाचत्तिक ६५: भीषेय
यो पुन भिक्षुर् भिक्षुं भीषेय पाचत्तिकम् ।
पाचत्तिक ६६: उदक
उदकहस्तसंमर्दनात् पाचत्तिकं ।
पाचत्तिक ६७: अङ्गुलि
अङ्गुलिप्रतोदनके पाचत्तिकं ।
पाचत्तिक ६८: संविधाय
SC 155 यो पुन भिक्षु मातृग्रामेण सार्धं संविधाय अध्वानमार्गं प्रतिपद्येय अन्तमशतो ग्रामान्तरं पि पाचत्तिकं ।
पाचत्तिक ६९: सहगार
SC 156 यो पुन भिक्षु मातृग्रामेण सार्धं सहगारशय्यां कल्पेय पाचत्तिकं ।
पाचत्तिक ७०: निषद्या
SC 157 यो पुन भिक्षु मातृग्रामेण सार्धं एको एकाय रहो निषद्यां कल्पेय पाचत्तिकं ।
SC 158
॥ उद्दानम् ॥
[६१] संचिन्त्य [६२] कौकृत्यम् [६३] अप्रत्युद्धरित्वा [६४] अपनिहेय । [६५] भीषेय [६६] उदक [६७] अङ्गुलि [६८] संविधाय [६९] सहगार [७०] निषद्याय ॥ सप्तमो वर्गः ॥
छप्तेर् ८: ऊनविंशति
पाचत्तिक ७१: ऊनविंशति
SC 159 यो पुन भिक्षुर् जानन् ऊनविंशतिवर्षपुद्गलं भिक्षुभावाय उपसंपादेय, सो च पुद्गलो अनुपसंपन्नो, ते च भिक्षू गार्ह्यां, इमं तेषां भिक्षूणां गर्हणपाचत्तिकं ।
पाचत्तिक ७२: स्तैन्यसार्थो
SC 160 यो पुन भिक्षुर् जानन् स्तैन्यसार्थेन सार्धं संविधाय अध्वानमार्गं प्रतिपद्येय अन्तमशतो ग्रामान्तरं पि पाचत्तिकं ।
पाचत्तिक ७३: पृथिवी
SC 161 यो पुन भिक्षुः स्वहस्तं पृथिवीं खनेय वा खनापेय वा अन्तमशतो इह खनेहीति वा वदेय पाचत्तिकं ।
पाचत्तिक ७४: प्रवारणा
SC 162 चातुर्मासिका भिक्षुणा प्रत्येकप्रवारणा सादयितव्या । तदुत्तरिं सादियेय, अन्यत्र पुनः प्रवारणे, अन्यत्र यावज्जीविकाये पाचत्तिकं ।
पाचत्तिक ७५: न शिक्षिष्यं
SC 163 यो पुन भिक्षु भिक्षूहि एवं वुच्यमानो ☸ इमेहि ते आयुष्मन् पञ्चहि आपत्तिकायेहि अनध्यावाचाय शिक्षा करणीयेति, सो भिक्षु तान् भिक्षून् एवं वदेय ☸ न यावद् अहम् आयुष्मन्तानां वचनेन शिक्षिष्यं यावद् अहं न द्रक्ष्यामि स्थविरान् भिक्षून् सूत्रधरान् विनयधरान् मातृकाधरान् मध्यमान् भिक्षून् सूत्रधरान् विनयधरान् मातृकाधरान्, नवकान् भिक्षून् सूत्रधरान् विनयधरान् मातृकाधरान् । तांस् तावद् अहम् उपसंक्रम्य परिपृच्छिष्यं परिप्रश्नीकरिष्यं ति, पाचत्तिकं । शिक्षाकामेन भिक्षुणा आज्ञातव्यम् उपलक्षयितव्यं उपधारयितव्यं ॥
पाचत्तिक ७६: मद्यपानम्
सुरामैरेयमद्य पानं पाचत्तिकं ।
पाचत्तिक ७७: अनादर्यम्
भिक्षुनादर्ये पाचत्तिकं ।
पाचत्तिक ७८: उपश्रोत्र
SC 164 यो पुन भिक्षु भिक्षूहि कलहजातेहि भण्डनजातेहि विग्रहविवादापन्नेहि विहरन्तेहि उपश्रोत्रस्थाने तिष्ठेय ☸ यं एते वदिष्यन्ति तं पश्चाद् उपसंहरिष्यामीति । एतद् एव प्रत्ययं कृत्वा, अनन्यम्, इमं तस्य भिक्षुस्य उपश्रोत्रस्थाने पाचत्तिकं ।
पाचत्तिक ७९: विनिश्चय
SC 165 यो पुन भिक्षुः संघे विनिश्चयकथाहि वर्तमानाहि उत्थायासनात् प्रक्रमेय सन्तं भिक्षुम् अनामन्त्रयित्वा, अन्यत्र तथारूपे अत्यायिके करणीये पाचत्तिकं ।
पाचत्तिक ८०: आरण्यक
SC 166 यो पुन भिक्षु आरण्यके शय्यासने विहरन्तो विकाले ग्रामं प्रविशेय सन्तं भिक्षुम् अनामन्त्रयित्वा, अन्यत्र तथारूपे अत्यायिके करणीये पाचत्तिकं ।
SC 167
॥ उद्दानं ॥
[७१] ऊनविंशति [७२] स्तैन्यसार्थो [७३] पृथिवी [७४] प्रवारणा [७५] न शिक्षिष्यं [७६] मद्यपानम् [७७] अनादर्यम् [७८] उपश्रोत्र [७९] विनिश्चय [८०] आरण्यकेन ॥ अष्टमो वर्गः ॥
छप्तेर् ९: सभक्तक
पाचत्तिक ८१: सभक्तो
SC 168 यो पुन भिक्षु सभक्तो समानो पुरेभक्तं पश्चाद्भक्तं वा कुलेषु चारित्रम् आपद्येय सन्तं भिक्षुम् अनामन्त्रयित्वा, अन्यत्र समये पाचत्तिकं । तत्रायम् समयो ☸ चीवरदानकालसमयो । अयम् अत्र समयः ।
पाचत्तिक ८२: राज्ञो
SC 169 यो पुन भिक्षु राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य अन्तःपुरं प्रविशेयानिष्क्रान्ते राजाने, अनिष्क्रान्ते अन्तःपुरे, अनिर्गतेहि रतनेहि अन्तमशतो इन्द्रकीलं पि अतिक्रमेय पाचत्तिकं ।
पाचत्तिक ८३: सूची गृहं
SC 170 यो पुन भिक्षु दन्तमयं वा अस्थिमयं वा शृङ्गमयं वा सुवर्णमयं वा रूप्यमयं वा रतनमयं वा सूचीविग्रहं कारापेय भेदनपाचत्तिकं ।
पाचत्तिक ८४: मञ्च
SC 171 मञ्चं वा पीठं वा भिक्षुणा कारापयमाणेन सुगताष्टाङ्गुलप्रमाणाः पादकाः कारापयितव्याः अन्यत्राट्टनीये, तदुत्तरिं कारापेय च्छेदनपाचत्तिकं ।
पाचत्तिक ८५: तूल
SC 172 यो पुन भिक्षुः तूलसंस्तृते मञ्चे वा पीठे वा अभिनिषीदेय वा अभि नि पद्येय वा उद्दालनपाचत्तिकं ।
पाचत्तिक ८६: निषीदनं
SC 173 निषीदनं भिक्षुणा कारापयमाणेन प्रामाणिकं कारापयितव्यं । तत्रेदं प्रमाणं ☸ दीर्घशो द्वे वितस्तीयो सुगतवितस्तिना तिर्यग् द्व्यर्धम् अन्यत्र दशवितस्तिकं । तदुत्तरिं कारापेय च्छेदनपाचत्तिकं ।
पाचत्तिक ८७: कण्डू
SC 174 कण्डूप्रतिच्छादनं भिक्षुणा कारापयमाणेन प्रामाणिकं कारापयितव्यं । तत्रेदं प्रमाणं ☸ दीर्घशो चत्वारि वितस्तीयो सुगतवितस्तिना, तिर्यग् द्वे । तदुत्तरिं कारापेय च्छेदनपाचत्तिकं ।
पाचत्तिक ८८: वर्षाशाटिका
SC 175 वर्षाशाटिका भिक्षुणा कारापयमाणेन प्रामाणिका कारापयितव्या । तत्रेदं प्रमाणं ☸ दीर्घशो षड्वितस्तीयो सुगतवितस्तिना, तिर्यग् अड्ढतीयं । तदुत्तरिं कारापेय च्छेदनपाचत्तिकं ।
पाचत्तिक ८९: सुगतचीवरम्
SC 176 यो पुन भिक्षुः सुगतचीवरप्रमाणं चीवरं कारापेय ☸ किञ्च तस्य भगवतो तथागतस्यार्हतः सम्यक्संबुद्धस्य सुगतस्य सुगतचीवरप्रमाणं? दिर्घशो नव वितस्तीयो सुगतवितस्तिना, तिर्यक् षट् । इदं तस्य भगवतो तथागतस्यार्हतः सम्यक्संबुद्धस्य सुगतस्य सुगतचीवरप्रमाणं । ततो वा पुनर् उत्तरिं कारापेय च्छेदनपाचत्तिकं ।
पाचत्तिक ९०: अभ्याख्यानं
SC 177 यो पुन भिक्षु भिक्षुस्य दुष्टो दोषात् कुपितो अनात्तमनो अमूलकेन संघातिशेषेण धर्मेणानुध्वंसेय पाचत्तिकं ।
पाचत्तिक ९१: परिणामनम्
SC 178 यो पुन भिक्षुर् जानन् सांघिकं लाभं संघे परिणतं पुद्गलो पुद्गलस्य परिणामेय पाचत्तिकं ।
पाचत्तिक ९२: अज्ञानक
SC 179 यो पुन भिक्षुर् अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्दिश्यमाने एवं वदेय ☸ अद्य पुनर् अहं जानामि, इदानीं पुनर् अहं जानामि ☸ अयं पि धर्मो सूत्रागतो सूत्रपर्यापन्नो अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छति । यावद् अहं न जानामि तावन् नास्तीत्थं मह्यम् आपत्तिर् जानेंसु च ते भिक्षु तं भिक्षुं सकृद् द्विक्खुतो त्रिक्खुतो आगतपूर्वं पि सन्निषण्णपूर्वं पि, कः पुनर् वादो बहुशो । नास्ति खो पुनस् तस्य भिक्षुस्य अज्ञानेन मुक्तिः । अथ खु यां पि च सो भिक्षुर् आपत्तिम् आपन्नो तां क्षिप्रम् एव यथाधर्म्मं यथाविनयं कारापयितव्यो, उत्तरिं च संमोहम् आपादयितव्यो । तस्य ते आयुष्मन् लाभा दुर्लब्धा यस् त्वं अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्दिश्यमाने नास्थीकृत्वा न मनसिकृत्वा न सर्वचेतसा समन्वाहृत्य अवहितश्रोतो सत्कृत्य धर्मं शृणोषीति । इमं तस्य भिक्षुस्य संमोहपाचत्तिकं ।
SC 180
॥ उद्दानम् ॥
[८१] सभक्तो [८२] राज्ञो [८३] सूची गृहं [८४] मञ्च [८५] तूल [८६] निषीदनं । [८७] कण्डू [८८] वर्षाशाटिका [८९] सुगतचीवरम् [९०] अभ्याख्यानं [९१] परिणामनम् [९२] अज्ञानकेन ॥ नवमो वर्गः ॥
SC 181
॥ वर्गाणाम् उद्दानं ॥
[१] मृषा [२] बीजं [३] असंमतो [४] एकाहपरमो । [५] ज्योति [६] सप्राणकं [७] सञ्चिन्त्य [८] ऊनविंशति [९] सभक्तकेन नवमः ।
SC 182 उद्दिष्टाः खो पुनर् आयुष्मन्तो द्वानवति शुद्धपाचत्तिका धर्माः । तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
४ प्रातिदेशनिका रुलेस्
SC 183 इमे खो पुनर् आयुष्मन्तो चत्वारः प्रातिदेशनिका धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ☸
प्रातिदेशनिक १:
SC 184 यो पुन भिक्षु आरण्यके शयनासने विहरन्तो पूर्वे अप्रतिसंवेदितं बहिर्धा अप्रतिगृहीतं, अन्तोवासवस्तुस्मिन्न् अगिलानो स्वहस्तं खादनीयं वा भोजनीयं वा प्रतिगृह्णित्वा खादेय वा भुञ्जेय वा भुक्ताविना तेन भिक्षुणा प्रतिदेशयितव्यं ☸ असंप्रेयं मे आयुष्मन् गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्नो । तं धर्मं प्रतिदेशयामि । अयं धर्मो प्रातिदेशनिको ॥
प्रातिदेशनिक २:
SC 185 यो पुन भिक्षुर् अन्यातिकाये भिक्षुणीये अन्तरगृहं प्रविष्टाये अगिलानो स्वहस्तं खादनीयं वा भोजनीयं वा प्रतिगृह्णित्वा खादेय वा भुंजेय वा भुक्ताविना तेन भिक्षुणा प्रतिदेशयितव्यं ☸ असंप्रेयं मे आयुष्मन् गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्नो । तं धर्म्मं प्रतिदेशयामि । अयं पि धर्मो प्रातिदेशनिको ।
प्रातिदेशनिक ३:
SC 186 भिक्षु खो पुनर् अन्तरगृहे निमन्त्रितका भुञ्जन्ति । तत्र च भिक्षुणी विश्वासमानरूपा स्थिता भवति । सा एवम् आह ☸ इह ओदनं देहि, इह सूपं देहि, इह व्यञ्जनं देहीति वा वदेय । सर्वेहि तेहि भिक्षुहि सा भिक्षुणी एवम् अस्य वचनीया ☸ आगमय ताव त्वं भगिनि यावद् भिक्षू भुञ्जन्तीति । एकभिक्षू पि च तां भिक्षुणीं नेव वदेय ☸ आगमय ताव त्वं भगिनि यावद् भिक्षू भुञ्जन्तीति, भुक्तावीहि तेहि भिक्षूहि प्रतिदेशयितव्यं ☸ असंप्रेयं मे आयुष्मन् गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्नो । तं धर्मं प्रतिदेशयामि । अयं पि धर्मो प्रातिदेशनिको ॥
प्रातिदेशनिक ४:
SC 187 यानि खो पुनर् इमानि शैक्षसंमतानि कुलानि भवन्ति तत्र च भिक्षुः पूर्वे अप्रवारितो उपसंक्रमित्वा स्वहस्तं खादनीयं वा भोजनीयं वा प्रतिगृह्णित्वा खादेय वा भुञ्जेय वा भुक्ताविना तेन भिक्षुणा प्रतिदेशयितव्यं ☸ असंप्रेयं मे आयुष्मन् गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्नो । तं धर्मं प्रतिदेशयामि । अयं पि धर्मो प्रातिदेशनिको ॥
SC 188
॥ उद्दानम् ॥
[१] आरण्यकम् [२] अन्तरगृहे [३] भिक्षू च निमन्त्रितकाः [४] शैक्षसंमतेन चतुर्थः ॥
SC 189 उद्दिष्टाः खो पुनर् आयुष्मन्तो चत्वारः प्रातिदेशनिका धर्माः । तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
६७ शैक्ष रुलेस्
SC 190 इमे खो पुनर् आयुष्मन्तो सातिरेकपञ्चाशच् छैक्षा धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ☸
छप्तेर् १
शैक्ष १:
SC 191 परिमण्डलं निवसनं निवासयिष्यामीति शिक्षा करणीया ।
शैक्ष २:
SC 192 परिमण्डलं चीवरं प्रावरिष्यामीति शिक्षा करणीया ।
शैक्ष ३:
SC 193 सुसंवृतो अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ४:
SC 194 न उत्क्षिप्तचक्षुर् अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ५:
SC 195 अल्पशब्दो अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ६:
SC 196 न उच्चग्घिकाय अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ७:
SC 197 न ओगुण्ठिकाय अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ८:
SC 198 न उत्क्षिप्तिकाय अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ९:
SC 199 न उत्कुटुकाय अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष १०:
SC 200 न खम्भकृतो अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष ११:
SC 201 न कायप्रचालकम् अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष १२:
SC 202 न शीर्षप्रचालकम् अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
शैक्ष १३:
SC 203 न बाहुविक्षेपकम् अन्तरगृहम् उपसंक्रमिष्यामीति शिक्षा करणीया ।
SC 204
॥ उद्दानम् ॥
[१] निवसनं [२] प्रावरणं [३] सुसंवृतो [४] चक्षुः [५] शब्द [६] नोच्चग्घिका [७] न ओगुण्ठिका [८] नोत्क्षिप्तिका [९] न उत्कुटुका [१०] न खम्भ [११] न काय [१२] न शीर्ष [१३] न बाहुकेन ॥ प्रथमो वर्गः ॥
छप्तेर् २
शैक्ष १४:
SC 205 सुसंवृतो अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष १५:
SC 206 न उत्क्षिप्तचक्षु अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष १६:
SC 207 अल्पशब्दो अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष १७:
SC 208 न उच्चग्घिकाय अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष १८:
SC 209 न ओगुण्ठिकाय अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष १९:
SC 210 न उत्क्षिप्तिकाय अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष २०:
SC 211 न ओसक्तिकाय अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष २१:
SC 212 न पल्लत्थिकाय अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष २२:
SC 213 न खम्भकृतो अन्तरगृहे निषीदिष्यामीति शिक्षा करणीया ।
शैक्ष २३:
SC 214 न अन्तरगृहे निषण्णो हस्तकौकृत्यं पादकौकृत्यं वा करिष्यामीति शिक्षा करणीया ।
SC 215
॥ उद्दानं ॥
[१४] सुसंवृतो [१५] चक्षुः [१६] शब्द [१७] नोच्चग्घिका [१८] न ओगुण्ठिका [१९] नोत्क्षिप्तिका [२०] नोसक्तिका [२१] न पल्लत्थिका [२२] न खम्भ [२३] न हस्तपादकौकृत्येन ॥ द्वितीयो वर्गः ॥
छप्तेर् ३
शैक्ष २४:
SC 216 सत्कृत्य पिण्डपातं प्रतिगृह्णिष्यामीति शिक्षा करणीया ।
शैक्ष २५:
SC 217 समसूपं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष २६:
SC 218 न स्तूपकारकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष २७:
SC 219 नावकीर्णकारकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष २८:
SC 220 नावगण्डकारकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष २९:
SC 221 न जिह्वानिचारकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३०:
SC 222 नातिमहन्तेहि कवडेहि पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३१:
SC 223 नानागते कवडे मुखद्वारं विवरिष्यामीति शिक्षा करणीया ।
शैक्ष ३२:
SC 224 न कवडोत्क्षेपकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३३:
SC 225 न कवडच्छेदकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३४:
SC 226 न सकवडेन मुखेन वाचं भाषिष्यमीति शिक्षा करणीया ।
SC 227
॥ उद्दानं ॥
[२४] सत्कृत्य [२५] समसूप [२६] न स्तूप [२७] नावकीर्ण [२८] नावगण्ड [२९] न जिह्वा [३०] नातिमहन्तं [३१] नानागतं [३२] न कवडोत्क्षेपक [३३] न कवडच्छेदक [३४] न सकवडेन मुखेन वाचं ॥ तृतीयो वर्गः ॥
छप्तेर् ४
शैक्ष ३५:
SC 228 न पात्रनिर्लेहकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३६:
SC 229 न हस्तनिर्लेहकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३७:
SC 230 नाङ्गुलिनिर्लेहकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३८:
SC 231 न चुच्चुकारं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ३९:
SC 232 न सुरुसुरुकारं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ४०:
SC 233 न गुलुगुलुकारकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ४१:
SC 234 न हस्तनिर्धूनकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ४२:
SC 235 न सित्थापकारकं पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ४३:
SC 236 नातिवेलं परस्य पात्रं निध्यायिष्यामि ओध्यायनकर्मताम् उपादायेति शिक्षा करणीया ।
शैक्ष ४४:
SC 237 न पात्रसंज्ञी पिण्डपातं परि भुंजि ष्यामीति शिक्षा करणीया ।
शैक्ष ४५:
SC 238 न अगिलानो ओदनं वा सूपं वा व्यञ्जनं वा आत्मार्थाय कुलेहि विज्ञापेत्वा वा विज्ञापायेत्वा वा पिण्डपातं परिभुंजिष्यामीति शिक्षा करणीया ।
शैक्ष ४६:
SC 239 न दिन्नदिन्नानि व्यंजनानि ओदनेन प्रच्छादयिष्यामि भूयो आगमनकर्मताम् उपादायेति शिक्षा करणीया ।
शैक्ष ४७:
SC 240 न ससित्थं पात्रोदकं पृथिव्यां निषिञ्चिष्यामीति शिक्षा करणीया ।
शैक्ष ४८:
SC 241 न ससित्थेन पाणिना पानीयस्थालकं प्रतिगृह्णिष्यामीति शिक्षा करणीया ।
SC 242
॥ उद्दानम् ॥
(३५–७) त्रयो निर्लेहाः [३८] चुच्चु [३९] सुरुसुरु [४०] न गुलुगुलु [४१] न हस्त [४२] न सित्थ [४३] न ओध्यायन [४४] न पात्रसंज्ञी [४५] विज्ञप्तिः [४६] च्छादयति [४७] पात्रोदक [४८] ससित्थेन ॥ चतुर्थो वर्गः ॥
छप्तेर् ५
शैक्ष ४९:
SC 243 न स्थितो निषण्णस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५०:
SC 244 न निषण्णो निषण्णस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५१:
SC 245 न नीचासने निषण्णो उच्चासने निषण्णस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५२:
SC 246 न उपानहारूढस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५३:
SC 247 न पादुकारूढस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५४:
SC 248 न ओगुण्ठिकाकृतस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५५:
SC 249 न संमुखावेष्टितस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५६:
SC 250 न ओसक्तिकाय निषण्णस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५७:
SC 251 न पल्लत्थिकाय निषण्णस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
SC 252
॥ उद्दानम् ॥
[४९] न स्थितो [५०] न निषण्णो [५१] उच्चासन [५२] उपानह [५३] पादुका [५४] ओगुण्ठिका [५५] न संमुख [५६] न ओसक्तिका [५७] न पल्लत्थिकाय ॥ पञ्चमो वर्गः ।
छप्तेर् ६
शैक्ष ५८:
SC 253 न शस्त्रपाणिस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ५९:
SC 254 नायुधपाणिस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ६०:
SC 255 न दण्डपाणिस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ६१:
SC 256 न च्छत्रपाणिस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ६२:
SC 257 न उत्पथेन गच्छन्तो पथेन गच्छन्तस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ६३:
SC 258 न पृष्ठतो गच्छन्तो पुरतो गच्छन्तस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ६४:
SC 259 न पादेन गच्छन्तो यानेन गच्छन्तस्य अगिलानस्य धर्मं देशयिष्यामीति शिक्षा करणीया ।
शैक्ष ६५:
SC 260 न हरिते तृणे उच्चारं वा प्रस्रावं वा खेटं वा सिंहाणं वा अगिलानो करिष्यामीति शिक्षा करणीया ।
शैक्ष ६६:
SC 261 न उदके उच्चारं वा प्रस्रावं वा खेटं वा सिंहाणकं वा अगिलानो करिष्यामीति शिक्षा करणीया ।
शैक्ष ६७:
SC 262 न स्थितो उच्चारं वा प्रस्रावं वा अगिलानो करिष्यामीति शिक्षा करणीया ।
SC 263
॥ उद्दानम् ॥
(५८–५९) न शस्त्रायुध [६०] दण्ड [६१] च्छत्र [६२] उत्पथ [६३] पृष्ठतो [६४] यानं [६५] हरितं [६६] उदक [६७] स्थितेन । षष्ठो वर्गः ॥
SC 264 उद्दिष्टाः खो पुनर् आयुष्मन्तो सातिरेकपञ्चाशच् छैक्षा धर्माः । तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
७ अधिकरणशमथ
SC 265 इमे खो पुनर् आयुष्मन्तो सप्त अधिकरणसमथा धर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति ये उत्पन्नोत्पन्नानाम् अधिकरणानां शमथाय व्यपशमथाय संवर्तन्ते । सय्यथीदं ☸
अधिकरणशमथ १:
संमुखविनयो शमथो ।
अधिकरणशमथ २:
स्मृतिविनयो शमथो ।
अधिकरणशमथ ३:
अमूढविनयो शमथो ।
अधिकरणशमथ ४:
प्रतिज्ञाकारको शमथो ।
अधिकरणशमथ ५:
तस्य पापेयसिको शमथो ।
अधिकरणशमथ ६:
यो भूयसिको शमथो ।
अधिकरणशमथ ७:
तृणप्रस्तारको च शमथो सप्तमो ।
SC 266 उद्दिष्टाः खो पुनर् आयुष्मन्तो सप्त अधिकरणशमथा धर्माः । तत्रायुःमन्तो पृच्छामि ☸ कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुःमन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुःमन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुःमन्तो यस्मात् तूःणीम् एवम् एतं धारयामि ।
दुवे धर्माः
SC 267 इमे खो पुनर् आयुष्मन्तो दुवे धर्माः ☸ धर्मो अनुधर्मश् च अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् आगच्छन्ति । तत्र धर्मो नाम यम् उभयतो विनयो । अनुधर्मो नाम या अत्र प्रतिपत्तिः ।
SC 268 उद्दिष्टाः खो पुनर् आयुष्मन्तो दुवे धर्माः धर्मो अनुधर्मश् च । तत्रायुष्मन्तो पृच्छामि ☸ कच्चित्थ परिशुद्धाः? द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः? परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतं धारयामि ।
चोन्च्लुसिओन्
SC 269 उद्दिष्टं खो पुनर् आयुष्मन्तो प्रातिमोक्षस्य वस्तु । उद्दिष्टं निदानं । उद्दिष्टाश् चत्वारः पाराजिका धर्माः । उद्दिष्टाः त्रयोदश संघातिशेषा धर्माः । उद्दिष्टाः दुवे अनियता धर्माः । उद्दिष्टाः त्रिंशन् निस्सर्गिकपाचत्तिका धर्माः । उद्दिष्टा द्वानवति शुद्धपाचत्ति का धर्माः । उद्दिष्टाश् चत्वारः प्रातिदेशनिका धर्माः । उद्दिष्टाः सातिरेकपञ्चाशच् छैक्षा धर्माः । उद्दिष्टाः सप्ताधिकरणशमथा धर्माः । उद्दिष्टा दुवे धर्माः, धर्मो अनुधर्मश् च । एतको ’यं पुनस् तस्य भगवतो तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मविनयो प्रातिमोक्षसूत्रागतो सूत्रपर्यापन्नो । यो वा अन्यो ’पि कश्चिद् धर्मस्य अनुधर्मो तत्र समग्रेहि सर्वेहि सहितेहि संमोदमानेहि अविवदमानेहि एकुद्देशेहि क्षीरोदकीभूतेहि शास्तुः शासनं दीपयमानेहि सुखं च फासुं च विहरन्तेहि अनध्याचाराय शिक्षा करणीया ।
चोन्च्लुदिन्ग् वेर्सेस्
SC 270 क्षान्तिः परमं तपो तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः ।
न हि प्रव्रजितः परोपतापी श्रवणो भोति परान् विहेठयानः ॥ वेर्से १ ॥
SC 271 इदं तस्य भगवतो विपश्यिस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितं ।
SC 272 अनोपवादी अपरोपघाती प्रातिमोक्षे च संवरो ।
मात्रज्ञता च भक्तस्मिं प्रान्तं च शयनासनं ।
अधिचित्ते चायोगो एतं बुद्धानुशासनं ॥ वेर्से २ ॥
SC 273 इदं तस्य भगवतो शिक्षिस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितं ॥
SC 274 अधिचेतसि मा प्रमाद्यतो मुनिनो मौनपदेषु शिक्षतः ।
शोका न भवन्ति तायिनो उपशान्तस्य सदा स्मृतीमतः ॥ वेर्से ३ ॥
SC 275 इदं तस्य भगवतो विश्वभुवस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितं ॥
SC 276 सर्वपापस्याकरणं कुशलस्योपसंपदा ।
स्वचित्तपर्योदपनं एतं बुद्धानुशासनम् ॥ वेर्से ४ ॥
SC 277 इदं तस्य भगवतो क्रकुच्छन्दस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितं ॥
SC 278 यथा हि भ्रमरो पुण्यं वर्णगन्धम् अहेठयं ।
परैति रसम् आदाय एवं ग्रामे मुनिश् चरेत् ॥ वेर्से ५ ॥SC 279 न परेषां विलोमानि न परेषां कृताकृतं ।
आत्मनो तु समीक्षेत कृतान्य् अकृतानि च ॥ वेर्से ६ ॥
SC 280 इदं तस्य भगवतो कोनाकमुनिस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितम् ।
SC 281 नास्ति ध्यानम् अप्रज्ञस्य प्रज्ञा नास्ति अध्यायतो ।
यस्य ध्यानं च प्रज्ञा च स वै निर्वाणस्य अन्तिके ॥ वेर्से ७ ॥SC 282 तत्रायम् आदि भवति इहप्रज्ञस्य भिक्षुणो ।
इन्द्रियै गुप्तिः संतुष्टिः प्रातिमोक्षे च संवरो ॥ वेर्से ८ ॥SC 283 मित्रं भजेत कल्याणं शुद्धाजीवीम् अतन्द्रितं ।
प्रतिसंस्तरवर्ती च आचारकुशलो सिया ।
ततः प्रामोद्य बहुलो भिक्षु निर्वाणस्यैव अन्तिके ॥ वेर्से ९ ॥
SC 284 इदं तस्य भगवतः काश्यपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितम् ॥
SC 285 चक्षुषा संवरः साधुः साधुः श्रोत्रेण संवरः ।
घ्राणेन संवरः साधुः साधुः जिह्वाय संवरः ॥ वेर्से १० ॥SC 286 कायेन संवरः साधुः मनसा साधु संवरः ।
सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ वेर्से ११ ॥
SC 287 इदं तस्य भगवतः शाक्यमुनेः शाक्याधिराजस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य अचिराभिसंबुद्धस्य निरर्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितम् ।
SC 288 एतानि प्रातिमोक्षाणि संबुद्धानां शिरीमतां ।
कीर्तितान्य् अप्रमेयाणि ॥॥॥॥॥। तिष्टम् अ ॥॥॥॥। णाश् च ॥ वेर्से १२ ॥SC 289 क्षान्तिवादी च भगवान् विपश्यी
अनोपवद्यं च शिखी प्रकाशयति ।
अधिचित्तं च विश्वभूः
अकरणं च पापानां क्रकुच्छन्दः ।
चर्यां च कोनाकमुनिः
ध्यानानि च काश्यपो प्रकाशयति ।
संवरं शाक्यमुनिः ॥ वेर्से १३ ॥
SC 290 एते सप्त दशबला महाप्रज्ञा अमितबुद्धी सप्तानां सम्यक्संबुद्धानाम् अभिन्नान् ॥॥ लोकाख्याधिपतीनां धर्माख्यानानि उक्तानि ।
SC 291 उद्दिस्तं प्रातिमोक्षसूत्रं । कृतं संघेन पोषधं । आर्याः शिक्षां चिरं पालयन्तु । शासनं ॥॥ सन्तु संस्थातु ।
SC 292 समाप्तं प्रातिमोक्षसूत्रं आर्यमहासांघिकानां लोकोत्तरवादिनां मध्योद्देशिकानां पाठ इति ॥
SC 293 ये धर्मा हेतुप्रभवा हेतुं पि तेषां तथागतो ह्य् अवदत् ।
तेषां च यो निरोध एवंवादी महाश्रवणः ।
SC 294
यो धर्मो ’यं प्रवरमहायानययिस्य शाक्यभिक्षुलोक श्री
धरस्य
।
शाक्यभिक्षुश्रीविजयभद्रलिखितम् इदम् ॥