- गिल्गित् बुद्धिस्त् मनुस्च्रिप्त्स् २
मूलसर्वास्तिवाद भिक्षु प्रातिमोक्ष
४ पाराजिका रुलेस्
पाराजिक २
SC 1 यः पुनर् भिक्षुर् ग्रामगतम् अरण्यगतं वा परेषां अदत्तं स्तेयसंख् यातम् आदद् ई त यद्रूपेणादत्तादानेन राजा वैनं गृहीत्वा राजमात्रो वा हन् याद् वा बध्नीयाद् वा प्रवासयेद् वा एवं चैनं वदेत् त्वं भोः पुरुष बालो ’सि मूढो ’सि स्तेयो ’सीत्य् एवंरूपं भिक्षुर् अदत्तं आददावः अयम् अपि भिक्षुः पाराजयिको भव त्य् असंवास्यः
पाराजिक ३
SC 2 यः पुनर् भिक्षुर् मनुष्यं वा मनुष्य विग्रहं वा स्वहस्तं संचिन्त्य जीविताद् व्यपरोपयेच् छस्त्रं वैनम् आधारयेच् छस्त्राधारकं वास्य पर्येषे त मरणाय वैनं समादापयेन् मरणव र्णं वास्यानुसंवर्णयेद् एवं चैनं वदेद् धं भोः पुरुषो किं ते अनेन पापकेनाशुचिना दुर्जीवि तेन मृतं ते भोः पुरुष जीविताद् वरम् इति चिन्ता नुमतैश् चित्तसंकल्पैर् अनेकपर्यायेण मरणाय वैनं समादापयेन् मरणवर्णं वास्या नुसंवर्णयेत् स च तेन कालं कुर्याद् अ यम् अपि भिक्षुः पाराजिको भवत्य् असंवास्य ः ॥
पाराजिक ४
SC 3 यः पुनर् भिक्षुर् अनभिजानन्न् अपरिजानन्न् असन्तम् असंवि द्यमानम् ॥। विशेषाधि गमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा प्रतिजानीयाद् इदं जानामीदं पश्यामीति स परेण समयेन समनुयुज्यमानो वा असमनुयुज्यमा नो वा आपन्नो विशुद्धिप्रेक्ष्य् एवं वदेद् अजानत्य् एवाहम् आयुष्मन्तो ’वोचं जानामीत्य् अपश्यन्न् एवा ॥। अयम् अ पि भिक्षुः पाराजिको भवत्य् असंवास्यः ॥
SC 4 उद्दिष्टा मे आयुष्मन्तश् चत्वारः पाराजिका धर्मा येषां भिक्षुर् अ न्यतमान्यतमम् आपत्तिम् अध्यापत्य न लभते भिक्षुभिः सार्धं संवासं भोगं वा यथापूर्वं तथापश्चात् पाराजिको भवत्य् असंवास्य ः ॥
SC 5 तत्राहम् आ युष्मन्तः परिपृच्छामि ॥। द्विर् अ पि त्रिर् अपि परिपृच्छामि कच्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् ए तद् धारयामि
१३ संघावशेष रुलेस्
SC 6 ॥। [4] चर्या [5] सांचरित्रं [6] कुटिका [7] महल्लकः [8] अमूलक [9] लेशिक [10] संघभेदस् [11] तस्यानुवर्ति [12] कुलदूषक [13] दौर्व चस्य ॥।
SC 7 इमे खल्व् आयुष्मन्तस् त्रयोदश संघा वशेषा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति
संघावशेष १
SC 8 संचिन्त्य शुक्रविसृष्टि र् अन्य त्र स्वप्ना न्तरात् संघावशेषः
संघावशेष २
SC 9 यः पुनर् भिक्षुर् अवलविपरिणतेन चित्तेन मातृग्रामेण सार्धं कायसंसर्गं समापद्येत हस्तग्रहणं वा बा हु ॥।
पायन्तिका रुलेस्
पायन्तिक ३३
SC 10 पायन्तिका ॥ द्वौ त्रीन् वा पात्रपूरान् प्रतिगृह्य बहिर् आरामं गत्वा सन्तो भिक्षवः संविभक्तव्या आत्मना च परिभोक्तव्यं अयं तत्र समयः ॥
पायन्तिक ३४
SC 11 यः पुन र् भिक्षु र् भुक्तवान् प्रवारितः अकृतनिरिक्तं खादनीयभोजनीयं खादेद् भुंजीत वा पायन्तिका ॥
पायन्तिक ३५
SC 12 यः पुनर् भिक्षुर् जानन् भिक्षुं भुक्तवन्तं प्रवारितम् अकृत अतिरि क्तेन खादनीयभोजनीयेनात्यर्थं प्रवारयेद् इदम् आयुष्मं खाद इदं भुंक्ष्व इत्य् आसादनप्रेक्षी कश्चिद् एष भिक्षुर् आसादितो भविष्यत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ॥
पायन्तिक ३६
SC 13 गणभोजनाद् अन्यत्र समयात् पायन्तिका ॥ तत्रायं समयः : ग्लानसमयः कर्मसमयो ’ध्वसमयो नावाधिरोहणं महासमाजः श्रमणभक्तम् अयं तत्र समयः ॥
पायन्तिक ३७
SC 14 यः पुनर् भिक्षुर् अकाले खादनीयभोजनीयं खादेद् भुंजीत वा पायन्तिका ॥
पायन्तिक ३८
SC 15 यः पुनर् भिक्षुः संनिहितं खादनीयभोजनीयं खादेद् भुंजीत वा पायन्तिका ॥
पायन्तिक ३९
SC 16 यः पुनर् भिक्षुर् अ दत्तं मुखाभ्यवहार्यम् आहारम् आहरेद् अन्यत्रोदकदन्तकाष्ठात् पायन्तिका ॥
पायन्तिक ४०
SC 17 यानि तानि भगवता भिक्षूणां प्रणीतभोज नान्य् अख्यातानि तद्यथा क्षीरं दधि नवनीतं मत्स्यो मांसवल्लूरा ॥ यः पुनर् भिक्षुर् इमान्य् एवंरूपाणि प्रणीतभोजनान्य् आत्मार्थम् अग्लानः परकुलेभ्यो विज्ञा प्य खादेद् भुंजीता वा पायन्तिका ॥ ☸ ॥
SC 18 उद्दानं ॥ सप्राणभोजने स्थानं निषद्याचेल सेनया द्विरात्रौद्यूषिकां गच्छेत् प्रहारोद्गूर दुष्ठुलाः ॥ ☸ ॥
पायन्तिक ४१
SC 19 यः पुनर् भिक्षुर् जान न् स प्राणकम् उदकं परिभुंजीत पाय न्ति का ॥
पायन्तिक ४२
SC 20 यः पुनर् भिक्षुर् जानन् सभोजने कुले अनुप्रस्कद्यासने निषद्यां कल्पयेत् पायन्तिका ॥
पायन्तिक ४३
SC 21 यः पुनर् भिक्षुर् जानन् सभोजने कुले रह सि प्रतिच्छन्ने ’तितिष्ठेत् पायन्तिका ॥
पायन्तिक ४४
SC 22 यः पुनर् भिक्षुर् अचेलकाय वा अचेलिकायै वा परिव्राजकाय वा परि व्राजि कायै वास्तमास्तं खादनीयभोजनीयं दद्यात् पायन्तिका ॥
पायन्तिक ४५
SC 23 यः पुनर् भिक्षुर् उद्युक्तां सेनां द र्श नायोपसंक्रामेत् पायन्तिका ॥
पायन्तिक ४६
SC 24 स्यात् खलु भिक्षोः तद्रूपः प्रत्यय उद्युक्तां सेनां दर्शनायोपसंक्रमितुं द्वि रात्रपरमं तेन भिक्षुणा तस्यां सेनायां विप्रवस्तव्यं तत उत्तरि विप्रवसेत् पायन्तिका ॥ = ॥ = ॥
पायन्तिक ४७
SC 25 द्विरात्रम् अपि चेद् भिक्षुस् तस्यां सेनायां विप्रवसन्न् उद्यूषिकां वा गच्छे द् ध्वजाग्रं वा बलाग्रं वा सेनाव्यूहम् अनीकसंदर्शनं वा प्रत्यनुभवेत् पायन्तिका ॥
पायन्तिक ४८
SC 26 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ’नात्तमना भिक्षोः प्रहारं दद्यात् पायन्तिका ॥
पायन्तिक ४९
SC 27 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ’नात्तमना भिक्षोः प्रहारम् उद्गूरयेद् अन्ततस् तलशक्तिका पायन्तिका ॥
पायन्तिक ५०
SC 28 यः पुनर् भिक्षुर् जानन् भिक्षोर् दुष्ठूलाम् आपत्तिं प्रतिच्छादयेत् पायन्तिका ॥ ☸ ॥
SC 29 उद्दानं स्पर्शो ज्योतिश् छन्दो ’नुपसंपादनेन धर्मवादी च श्रमणोद्देशो दौर्वर्ण्यं रत्नपरिदाहसमयश् च ॥ ☸ ॥
पायन्तिक ५१
SC 30 यः पुनर् भिक्षुर् भिक्षुम् एवं वदेद् एह्य् आयुष्मन् कुलान्य् उपसंक्रमिष्यावः तत्र ते दापयिष्यामि प्रणीतं खादनीयभोजनीयं यावद् आप्त स तस्यादापयित्वा ततः पश्चाद् एव वदेद् गच्छ त्वम् आयुष्मन् न चे त् त्वया सार्धं स्पर्शो भवति कथायां वा निषद्यायां वा अपि त्व् एकाकिन एव मे स्पर्शो भवति कथायां वा निषद्यायां वा इत्य् उद्योजनप्रेक्षी कश्चिद् एष भिक्षुर् उद्योजितो भविष्यतीत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ॥
पायन्तिक ५२
SC 31 यः पु नर् भिक्षुर् आत्मार्थम् अग्लानो वितपन प्रेक्षी ज्योतिः समवदध्यात् समवधापयेद् वा पायन्तिका ॥
पायन्तिक ५३
SC 32 यः पुनर् भिक्षुर् धार्मिके संघकरणीये भिक्षोश् छन्दं दत्वा पश्चाद् अभिषक्तः कुपितश् चण्डीभूतो नात्तमनाः क्षेपधर्मम् आपद्येत आहर भिक्षो च्छन्दं न ते ददामीति पायन्तिका ॥
पायन्तिक ५४
SC 33 यः पुनर् भिक्षुर् अनुपसंपन्नेन पुद्गलेन सार्धं द्विरात्राद् ऊर्ध्वं सहागारशय्यां प्रकल्पयेत् पायन्तिका ॥
पायन्तिक ५५
SC 34 यः पुनर् भिक्षुर् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये आन्तरायिका धर्मा उक्ता भगवता तेनाप्रतिसेव्यमाना नालम् अन्तरायायेति स भिक्षुर् भिक्षुभिर् इदं स्याद् वचनीयो मा त्वम् आयुष्मन्न् एवं वोचस् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये आन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना नालम् अन्तरायायेति मा भगवन्तम् अभ्याचक्षु न साधु भवति भगवतो ’भ्याख्यानं न च पुनर् भगवान् एवम् आह अनेकपर्यायेणायुष्मन्न् आन्तरायिका धर्माः सन्त आन्तरायिका एवोक्ता भगवता ते च प्रति सेव्य माना अलम् अन्तरायायेति ॥ निःसृज त्वम् आयुष्मन्न् इदम् एवंरूपं पापकं दृष्टिगतम् एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तद् वस्तु प्रतिनिःसृजे द् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमाणस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् पायन्तिका ॥
पायन्तिक ५६
SC 35 यः पुनर् भिक्षुर् जानंस् तथावादिनं पुद्गलम् अकृतानुधर्माणम् अप्रतिनिःसृष्टे तस्मिन् पापके दृष्टिगते आलपेत् संलपेत् संवसेत् संभुंजीत तेन वा सार्धं सहागारशय्यां कल्पयेत् पायन्तिका ॥
पायन्तिक ५७
SC 36 श्रमणोद्देशश् चाप्य् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये आन्तरायिकाः कामा उक्ता भगवता तेन प्रतिसेव्यमाना नालम् अन्तरायायेति स श्रमणोद्देशो भिक्षुभिर् इदं स्याद् वचनीयो मा त्वम् आयुष्मं च्छ्रमणोद्देश एवं वोचस् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये आन्तरायिकाः कामा उक्ता भगवता प्रतिसेव्यमाना नालम् अन्तरायायेति मा भगवन्तम् अभ्याचक्षु न साधु भवति भगवतो ’भ्याख्यानं न च पुनर् भगवान् एवम् आह अनेकपर्यायेण य ॥॥। आन्तरा यिकाः कामाः सन्त आन्तरायिका एवोक्ता भगवता ते च प्रतिसेव्यमाना अलम् अन्तरायायेति निःसृज त्वम् आयुष्मं च्छ्रम णोद्देश इदम् एवंरूपं पापकं दृष्टिगतम् एवं चेत् स श्रमणोद्देशो भिक्षुभिर् उच्यमानस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजे द् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमाणस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् स श्रमणोद्देशो भिक्षुभिर् इदं स्याद् वचनीयः अद्याग्रेण ते आयुष्मं च्छ्रमणोद्देश नासौ भगवांस् तथागतो ’र्हन् सम्यक्संबुद्धः शास्ता व्यपदेष्टव्यो नाप्य् अन्यतमान्यतमो विज्ञो गुरुस्थानीयः सब्रह्मचारी पृष्ठतः पृष्ठतः समनुबद्धव्यो यद् अप्य् अन्ये श्रमणोद्देशा लभन्ते भिक्षुभिः सार्धं द्विरात्रपरमं सहागारशय्यां सापि ते ’द्याग्रेण नास्ति चर परेण मोहपुरुष नश्य त्वं ॥ यः पुनर् भिक्षुर् जानंस् तथानाशितं श्रमणोद्देशम् उपस्थापयेद् उपलाडयेत् तेन वा सार्धं सहागारशय्यां कल्पयेत् पायन्तिका ॥
पायन्तिक ५८
SC 37 न च चीवरप्रतिलम्भाद् भिक्षुणा त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमद् दुर्वर्णीकरणं नीलं वा कर्दमं वा कषायं वा अनादाय चेद् भिक्षुस् त्रयाणां दुर्वर्णीकरणाना म् अन्य तमान्यतमः दुर्वर्णीकरणं नीलं वा कर्दमं वा कषायं वा नवं चीवरं परिभुंजीत पायन्तिका ॥
पायन्तिक ५९
SC 38 यः पुनर् भिक्षु रत्नं वा रत्न संमतं वा स्वहस्तम् उद्गृह्णीयाद् उद्ग्राहयेद् वा अन्यत्राध्यारामगताद् वा अध्यावासगताद् वा पायन्तिका ॥ अध्यारामगतेन भिक्षु ॥॥॥ अध्यावास ॥
॥॥॥॥॥॥॥॥॥॥॥।
पायन्तिक ६२
SC 39 ॥॥। कश्चिद् अस्य भिक्षोर् मुहूर्तम् अप्य् अस्पर्शो भविष्यतीत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ॥
पायन्तिक ६३
अङ्गुलिप्रतोदनात् पायन्तिका ॥
पायन्तिक ६४
उदकहर्षणात् पायन्तिका ॥
पायन्तिक ६५
SC 40 यः पुनर् भिक्षुर् मातृग्रामेण सार्धं सहागारशय्यां कल्पयेत् पायन्तिका ॥
पायन्तिक ६६
SC 41 यः पुनर् भिक्षुर् भिक्षुं भीषयेद् भीषापयेद् वा अनन्ततो हास्यप्रेक्ष्य् अपि पायन्तिका ॥
पायन्तिक ६७
SC 42 यः पुनर् भिक्षुर् भिक्षोर् वा भिक्षुण्या वा शिक्षमाणाया वा श्रामणेरकस्य वा श्रामणेरिकाया वा पात्रं वा चीवरं वा शिक्यं वा सरितं वा कायबन्धनं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारम् उपनिदध्याद् उपनिधापयेद् वान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ॥
पायन्तिक ६८
SC 43 यः पुनर् भिक्षुर् भिक्षोश् चीवरम् वा दत्वा ततः पश्चाद् अप्रत्युद्धार्य परिभुंजीत पायन्तिका ॥
पायन्तिक ६९
SC 44 यः पुनर् भिक्षुर् द्विष्टो द्वेषाद् अप्रतीतः शुद्धं भिक्षुम् अनापन्नम् अमूलकेन संघावशेषेण धर्मेणानुध्वंसयेत् पायन्तिका ॥
पायन्तिक ७०
SC 45 यः पुनर् भिक्षुर् अपुरुषया स्त्रिया सार्धम् अध्वानमार्गं प्रतिपद्येतान्ततो ग्रामान्तरम् अपि पायन्तिका ॥ ॥
SC 46 उद्दानम् ॥ स्तेयोनविंशति खनेत् प्रवारणा शिक्षितव्यं कलहानां तूष्णीं विप्रक्रामेद् अनादरात् सुरापानम् अकाले च ॥ ☸ ॥
पायन्तिक ७१
SC 47 यः पुनर् भिक्षुः स्तेयसार्थेन सार्धम् अध्वमार्गं प्रतिपद्येतान्ततो ग्रामान्तरम् अपि पायन्तिका ॥
पायन्तिक ७२
SC 48 यः पुनर् भिक्षुर् ऊनविंशतिवर्षं पुद्गलं भिक्षुभावायोपसंपादयेत् पायन्तिका ॥ स च पुद्गलो ’नुपसंपन्नस् ते च भिक्षवो गर्ह्या अयं तत्र समयः ॥
पायन्तिक ७३
SC 49 यः पुनर् भिक्षुः स्वहस्तं पृथिवीं खनेत् खानयेद् वा पायन्तिका ॥
पायन्तिक ७४
SC 50 चातुर्मासिकी भिक्षुणा प्रवारणा स्वीकर्तव्या अन्यत्र समयात् पायन्तिका ॥ तत्रायं समयः प्रत्येकप्रत्येकप्रवारणा पुनः पुनः प्रवारणा अत्यर्थप्रवारणा नित्यप्रवारणा अयं तत्र समयः ॥
पायन्तिक ७५
SC 51 यः पुनर् भिक्षुर् भिक्षुभिर् उच्यमानो स्यात् ते आयुष्मं च्छिक्षायां शिक्षितव्यं स एवं वदेन् नाहं युष्माकं बालानां मूढानाम् अव्यक्तानाम् अकुशलानां वचनेनास्यां शिक्षायां शिक्षिष्ये यावन् नाह म् अन्यान् भिक्षून् प्रक्ष्यामि सूत्रधरान् विनयधरान् मातृकाधरान् इति पायन्तिका ॥ आज्ञातुकामेन भिक्षुणा तस्यां च शिक्षायां शिक्षितव्यं भि क्षवः प्रष्टव्याः सूत्रधरा विनयधरा मातृकाधरा अयं तत्र समयः ॥
पायन्तिक ७६
SC 52 यः पुनर् भिक्षुर् भिक्षूणां कलहजातानां विहरतां भण्डनजातानां विगृहीतानां वि वादम् आपन्नानां तूष्णीम् औपश्रुतिकया तिष्ठेद् यद् एते भिक्षवो वक्ष्यन्ति तद् अहं श्रुत्वा तथा तथानुव्यहरिष्यामीत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ॥
पायन्तिक ७७
SC 53 यः पु नर् भिक्षुः संघ स्य धर्म्यायां विनिश्चयकथायां कथ्यमानायां तूष्णीं विप्रक्रामेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ॥
पायन्तिक ७८
अनादरात् पायन्तिका ॥
पायन्तिक ७९
सुरामैरेयमद्यपानात् पायन्तिका ॥
पायन्तिक ८०
SC 54 यः पुनर् भिक्षुर् अकाले ग्रामं प्रविशेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ॥ ☸ ॥
SC 55 उद्दानम् सभोजने ’रुणे दा नीं सूचीगृहकपादकाः नह्यान् निषदनं कण्डू शाटी सुगतचीवरं ॥ ☸ ॥
पायन्तिक ८१
SC 56 यः पुनर् भिक्षुः सभोजने कुले उपनिमन्त्रितः पूर्वभक्तं पश्चाद्भक्तं कुलेषु चारित्रम् आपद्येत सन्तं गृहिणम् अनवलोक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ॥
पायन्तिक ८२
SC 57 यः पुनर् भिक्षुर् अनिर्गतायां रजन्याम् अनुद्गते ’रुणे अनिर्हृतेषु रत्नेषु वा रत्नसंमतेषु वा राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्यैन्द्रकीलं वा इन्द्रकीलसामन्तकं वा समभिः ॥।
SC 58 प रिशुद्धा अत्रायुष्मन्तो यस्मात् तुष्णीम् एवम् एतद् धारयामि ॥ ☸ ॥
४ प्रतिदेशनीय रुलेस्
SC 59 उद्दानम् ॥ ग्रामम् अन्तर्गृहं चैव शैक्षाण्य् आरण्यकेन च प्रातिदेश्यानि चोक्तानि बुद्धेन हितवादिना ॥ ☸ ॥
SC 60 इमे पुनर् आयुष्मन्तश् चत्वारः प्रतिदेशनीया धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति
प्रतिदेशनीय १
SC 61 यः पुनर् भिक्षुर् अज्ञातिकाया भिक्षुण्या रथ्यागताया ग्रामं पिण्डाय चरन्त्या अन्तिकात् स्वहस्तं खादनीयभोजनीयं प्रतिगृह्य खादेद् भुञ्जीत वा तेन भिक्षुणा बहिर् आरामं गत्वा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यम् गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नो ’सात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयाम्य् अयं धर्मः प्रतिदेशनीयः ॥
प्रतिदेशनीय २
SC 62 भिक्षवः खलु संबहुलाः कुलेषूपनिमन्त्रिता भुंज तत्र चेद् भिक्षुणी व्यपदिशति स्थिता स्याद् इह खाद्यकं देहि इह ओदनं देहि इह सूपिकं देहि इह भूयो देहीति सा भिक्षुणी तैर् भिक्षुभिर् इदं स्याद् वचनीया आगमय ताव त् त्वं भगिनि मुहूर्तं तूष्णी यावद् इमे भिक्षवो भुंजते एकभिक्षोर् अपि चे न् न प्रतिभायन्तां भिक्षुणीम् एवं वक्तुं सर्वैस् तैर् भिक्षुभिर् इदं स्याद् वचनीय बहिर् आरामं गत्वा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यं गर्ह्यं वयम् आयुष्मन्तः स्थानम् आपन्ना आसात्म्यं प्रतिदेशनीयं धर्मं प्रतिदेशयामो ’यम् अपि धर्मः प्रतिदेशनीयः
प्रतिदेशनीय ३
SC 63 यानि तानि संघस्य शैक्षाणि कुलानि भवन्ति शिक्षासंवृतिसंमतानि ॥ यः पुनर् भिक्षुस् तद्रूपेषु संघस्य शैक्षेषु कुलेषु शिक्षासंवृतिसंमतेषु पूर्वम् अप्रवारितः सन् उपसंक्रम्य स्वहस्तं खादनीयभोजनीयं प्रतिगृह्य खादेद् भुंजीत वा तेन भिक्षुणा बहिर् आरामं गत्वा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यं गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नो ’सात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयाम्य् अयम् अपि धर्मः प्रतिदेशनीयः
प्रतिदेशनीय ४
SC 64 यानि तानि संघस्यारण्यकानि शयनासनानि भवन्ति साशंकसंमतानि सभयसंमतानि सप्रतिभयभैरवसंमतानि ॥ यः पुनर् भिक्षुस् तद्रूपेषु संघस्यारण्यकेषु शयनासनेषु साशंकसंमतेषु सभयसंमतेषु सप्रतिभयभैरवसंमतेषु सर्वम् अप्रतिसंविदिते वने बहिर् आरामस्य खादनीयभोजनीयं प्रतिगृह्यान्ते आरामस्य खादेद् भुंजीत वा तेन भिक्षुणा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यं गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नो ’सात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयाम्य् अयम् अपि धर्मः प्रतिदेशनीयः ॥
SC 65 उद्दिष्टा मे आयुष्मन्तश् चत्वारः प्रतिदे शनीया धर्मा स् तत्राहम् आयुष्मन्तः परिपृच्छामि कच्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि कच्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णी म् एवम् एतद् धारयामि ॥ ☸ ॥
शैक्षा
SC 66 उद्दानं ॥ निवासनेन सप्त स्युस् त्रयश् चोपरि चीवरे संवृतोद्गुण्ठिकोल्लंघिकया कायेन ॥॥। ॥ ☸ ॥
SC 67 इमे खल्व् आयुष्मन्तः संबहुलाः शैक्षा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ॥
शैक्षा १
SC 68 परिमण्डलं निवासनं निवासयिष्याम इति शिक्षा करणीया ॥
शैक्षा २–७
SC 69शैक्षा २
नात्युत्कृष्टं
शैक्षा ३
नात्यपकृष्टं
शैक्षा ४
न हस्तिशुण्डकं
शैक्षा ५
न तालवृन्दकं
शैक्षा ६
न कुल्माषपिण्डकं
शैक्षा ७
न नागशीर्षकं निवासनं निवासयिष्याम इति शिक्षा करणीया ॥
SC 70शैक्षा ८
परिमण्डलं चीवरं प्रावरिष्याम इति शिक्षा करणीया ॥
शैक्षा ९–१०
SC 71शैक्षा ९
नात्युत्कृष्टं
शैक्षा १०
नात्यपकृष्टं चीवरं प्रावरिष्याम इति शिक्षा करणीया ॥
शैक्षा ११–१५
SC 72शैक्षा ११
सुसंवृता
शैक्षा १२
सुप्रतिच्छन्ना
शैक्षा १३
अल्पशब्दा
शैक्षा १४
अनुत्क्षिप्तचक्षुषो
शैक्षा १५
युगमात्रदर्शिनो ’न्तर्गृहं गमिष्याम इति शिक्षा करणीया ॥
शैक्षा १६–२०
SC 73शैक्षा १६
नोद्गुण्ठिका
शैक्षा १७
नोत्कृष्टिकया
शैक्षा १८
नोत्सक्तिकया
शैक्षा १९
न व्यस्तिकया
शैक्षा २०
न पर्यस्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ॥
शैक्षा २१–२५
SC 74शैक्षा २१
नोल्लंघिकया
शैक्षा २२
नोज्जंघिकया
शैक्षा २३
नोत्कुटुकिकया
शैक्षा २४
न निकुटोत्कुटुकिकया
शैक्षा २५
न खंभाकृता अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ॥
शैक्षा २६–३०
शैक्षा २६
न कायप्रचालकं
शैक्षा २७
न बाहुप्रचालकं
शैक्षा २८
न शीर्षप्रचालकं
शैक्षा २९
नांसोत्ढौ किकया
शैक्षा ३०
न हस्तसंलग्निकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ॥ ☸ ॥
SC 75 उद्दानं कुर्यान् न विनिषत्स्यामीत्य् अष्टौ चापि प्रतिग्रहे पंच चतुस् सप्त पंच सत्कृत्यादि तु भोजने ॥ ☸ ॥
SC 76शैक्षा ३१
नाननुज्ञाता अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ॥
शैक्षा ३२–३८
SC 77शैक्षा ३२
नाप्रत्यवेक्ष्यासनं सर्वकायं समवधाय
शैक्षा ३३
न पादे पादम् आधाय
शैक्षा ३४
न गुल्फे गुल्फम् आधाय
शैक्षा ३५
न सक्थनि सक्थि आ धाय
शैक्षा ३६
न संक्षिप्य पादौ
शैक्षा ३७
न विक्षिप्य पादौ
शैक्षा ३८
न विडंगिकया अन्तर्गृह आसने निषत्स्याम इति शिक्षा करणीया ॥
SC 78शैक्षा ३९
सत्कृत्य पिण्डपातं प्रति ग्रहीष्याम इति शिक्षा करणीया ॥
शैक्षा ४०–४३
SC 79शैक्षा ४०
न समतित्तिकं
शैक्षा ४१
समसूपिकं
शैक्षा ४२
सावदानं
शैक्षा ४३
पात्रसंज्ञिनं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ॥ ॥॥।