dhamma.gift icon
bu-pm bi-pm sarv mg lo mu2 mu3 dpr player
  • 1. Bu-pjBhikkhupātimokkha
  • 2. Bu-ssBhikkhupātimokkha
  • 3. Bu-ayBhikkhupātimokkha
  • 4. Bu-np1vagBhikkhupātimokkha
  • 5. Bu-np2vagBhikkhupātimokkha
  • 6. Bu-np3vagBhikkhupātimokkha
  • 7. Bu-pc1vagBhikkhupātimokkha
  • 8. Bu-pc2vagBhikkhupātimokkha
  • 9. Bu-pc3vagBhikkhupātimokkha
  • 10. Bu-pc4vagBhikkhupātimokkha
  • 11. Bu-pc5vagBhikkhupātimokkha
  • 12. Bu-pc6vagBhikkhupātimokkha
  • 13. Bu-pc7vagBhikkhupātimokkha
  • 14. Bu-pc8vagBhikkhupātimokkha
  • 15. Bu-pc9vagBhikkhupātimokkha
  • 16. Bu-pdBhikkhupātimokkha
  • 17. Bu-sk1vagBhikkhupātimokkha
  • 18. Bu-sk2vagBhikkhupātimokkha
  • 19. Bu-sk3vagBhikkhupātimokkha
  • 20. Bu-sk4vagBhikkhupātimokkha
  • 21. Bu-sk5vagBhikkhupātimokkha
  • 22. Bu-sk6vagBhikkhupātimokkha
  • 23. Bu-sk7vagBhikkhupātimokkha
  • 24. Bu-asBhikkhupātimokkha

ह्त्म्ल्
  • गिल्गित् बुद्धिस्त् मनुस्च्रिप्त्स् ३

मूलसर्वास्तिवाद भिक्षु प्रातिमोक्ष

नमः सर्वज्ञाय ॥

इन्त्रोदुच्तिओन्

SC 1 प्रणम्य पूर्वं जगति प्रधानं दुःखालयोत्तीर्णम् अनन्तपारम् ।
सर्वज्ञशिक्षापद रत्नकोश म् उद्घाटयाम्य् आर्यगणस्य मध्ये ॥ वेर्से १

SC 2 त्रैलोक्यविख्यातयशःपताकं सद्धर्मनादोदितसिंहनादम् ।
सर्वं कषासादितरत्नकोशं ब्रह्माण्डचूडामणिघृष्टपादम् ॥ वेर्से २

SC 3 कृत्स्नस्यागाधपारस्य बौद्धस्य विनयोदधेः ।
प्रतिष्ठाहृदयं सारं प्रातिमोक्षो ’यम् उच्यते ॥ वेर्से ३

SC 4 एष सद्धर्मराजस्य सद्धर्मालेख्यसंग्रहः ।
एष भिक्षुवणिग्ग्रामः शिक्षापण्यमहापणः ॥ वेर्से ४

SC 5 एष दौ शील्यदुष्टानां विषविष्कम्भणो ’गदः ।
एष यौवनविभ्रान्त कुमारद्विपदाङ्कुशः वेर्से ५

SC 6 एष सागरगम्भीरसंसारोत्तरणप्लवः ।
एष क्लेशजयो मार्गो नृपतेर् अग्र नायकः वेर्से ६

SC 7 एष मोक्षपुरारोहे मूलसोपानवत् स्थितः ।
निर्वृते मयि युष्माकम् एष शास्तेत्य् अभिष्टुतः ॥ वेर्से ७

SC 8 स्वयं + + + + + क्षुममक्षम् चैव यत्नतः ।
निहताक्षः समन्तः + + + + + + + + +

SC 9 + + + + + + + + + + नैभ्यत्य् अदीक्षितैः ।
प्रातिमोक्षः सदा रक्षो भिक्षुभिर् निर्मुमुक्षुभिः ॥

SC 10 जित प्रवृत्ते ’प्य् अहिताय + + + + + + +
कृतोपकारे ’प्य् अपकर्तुमीहते + + + + +

SC 11 प्रातिमोक्षस्य श्रवणं दुर्लभं कल्पकोटिभिः ।
ग्रहणं धरणं चैवतिपत्तिः सुदुर्लभा ॥ वेर्से ८

बुद्धानां सुखम् उत्पादः सुखा धर्मस्य धीषणा सुखा संघस्य सामग्री श्रमणानां तपः सुखम् ॥ वेर्से ९

SC 12 सुखं दर्शनम् आर्याणां संवासो ’पि सता सुखः ।
अदर्शनेन बालानां नित्यम् एव सुखं भवेत् ॥ वेर्से १०

SC 13 सुखं दृष्टाः शीलवन्तः सुखं दृष्टा बहुश्रुताः ।
अर्हन्तश् च सुखं दृष्टा विप्रमुक्तपुनर्भवाः ॥ वेर्से ११

SC 14 सुखा नदी सुखं तीर्थं सुखं धर्मजितो जतः ।
सुखं प्रज्ञाप्रतिलंभो ह्य् अस्मिमानक्षयः सुखम् ॥ वेर्से १२

SC 15 सुखो हि वासः कृतनिश्चयानां जितेन्द्रियाणां च बहुश्रुतानाम् ।
शान्तेष्व् अरण्येषु जरां गतानां वनेषु निर्वापितयौवनानाम् ॥ वेर्से १३

SC 16 निर्गतम् आयुष्मन्तो ग्रीष्माणां यावत् तावद् अवशिष्टम् । अतिक्रामति आयुः आग तं ज रामर णम् । प्रलङ्घ्यते शास्तुः शासनम् अप्रमादेन आउष्मद्भिर् योगः रणीयः । अप्रमादाधिगताहि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिर् इति वा प्य् एवंभागीयाः कुशला धर्मा बोधिपक्ष्य् आः kiṁ भगवतः श्रावक saṁghasya pūrvakālakaraṇīyam alpo ’rtho ’ल्पकृत्यम् | अना gatānām āyuṣmantaś chandapariśuddhiṁ cārocayata ārocitāṁ ca pravedayata

SC 17 प्रणम्य शाक्यसिंहाय भूत्वा ह्य् अस्मै कृतांजलिः ।
प्रातिमोक्षं प्रवक्ष्यामि विनयं तच् छृणोतु नः ॥ वेर्से १४

SC 18 श्रुत्वा च तत् करोत्व् अत्र यथा प्रोक्तं महर्षिणा
अणुमात्रेष्व् अवद्येषु भवता यत्नकारिणा ॥ वेर्से १५

SC 19 यत्नाद् द्रुतं सततं यश् च चित्तहयं मुखवचनेषु अनुसारयति
प्रातिमोक्षखलीनम् अपि सदृशं शतकण्टकं तीक्ष्णं येनाति विध्यते वेर्से १६

SC 20 महात्मनः ये वचनमात्रेण यथाभागान् न निवर्तन्ते ।
पुरुषतुरगास् ते खलु क्लेशरणजयिनो
भविष्यन्ति ॥ वेर्से १७

SC 21 येषां तु खलीनम् इदं न विद्यते नापि अन्तःकामं
ते तु क्लेशरणविमथ्यता उद्दामा विभ्रमिष्यन्ति ॥ वेर्से १९

निदानम्

SC 22 शृणोतु भदन्तः संघः अद्य संघस्य पोषधः चातुर्दशिकः पांचदशिको वा सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघस्य पोषधं कुर्यात् प्रातिमोक्षसूत्रोद्देशम् उ द्देश येद् एषा ज्ञप्तिः ।

SC 23 पोषधं वयम् आयुष्मन् करिष्यामः प्रातिमोक्षसूत्रोद्देशम् उद्देशामः । यस्य स्या त् आपत्तिः तेन आवि ष्कर्तव्या । आपत्त्यां असत्यां तूष्णीं भवितव्यम् । तूष्णींभावेन च वयम् आयुष्मतः परि शुद्धान् वेदयिष्यामः । यथापि प्रत्येकं पृष्टस्य भिक्षोर् व्याकरणं भवति एवम् ए वं एवंरूपा यां भिक्षु पर्षदि या वत् त्रिर् अप्य् अनुश्रावणं भवति । यः पुनर् भिक्षुर् एवंरूपायां भिक्षुपर्षदि यावत् त्रिर् अप्य् अनुश्राव्यमाने स्म रन् सतीम् आपत्तिं नाविष्करोति संप्रजानन् मृषावादो ’स्य भवति । संप्रजानन् मृषावादः खल्व् आयुष्मन्तः अन्तरायिको धर्म उक्तो भगवता । तस्मात् स्मरता भिक्षुणा आपन्नेन विशुद्धापेक्षेण सती आपत्तिर् आविष्कर्तव्या । आविष्कृतेनास्य फासु भवति नाविष्कृतेन न भवति ।

SC 24 उद्दिष्टं खलु मयायुष्मन्तः प्रातिमोक्षसूत्रोद्देशनिदानम् । तत्रायुष्मतः पृच्छामि—कच्चित् स्थात्र परिशुद्धाः

SC 25 द्विर् अपि त्रिर् अपि पृच्छामि—कच्चित् स्थात्र परिशुद्धाः

अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ।

४ पाराजिका रुलेस्

SC 26 इमे खलु आयुष्मन्तश् चत्वारः पाराजिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

पाराजिक १

SC 27 यः पुनर् भिक्षुर् भिक्षूणां शिक्षासाजीवसमापन्नः शिक्षाम् अप्रत्याख्याय शिक्षादौर्बल्यम् अनाविष्कृत्याब्रह्मचर्यं मैथुनं धर्मं प्रतिसेवते अन्ततस् तिर्यग्योनिगतयापि सार्धं, अयम् अपि भिक्षुः पाराजिको भवत्य् असंवास्यः ।

पाराजिक २

SC 28 यः पुनर् भिक्षुर् ग्रामगतम् अरण्यगतं वा परेषां अदत्तं स्तेयसंख्यातम् आददीत यद्रूपेणादत्तादानेन राजा वैनं गृहीत्वा राजमात्रो वा हन्याद् वा संबध्नीयाद् वा प्रवासयेद् वा एवं चैनं वदेत्—त्वं भोः पुरुष चौरो ’सि बालो ’सि स्तेनो ’सीत्य् एवंरूपं अदत्तं भिक्षुः आददित, अयम् अपि भिक्षुः पाराजयिको भवत्य् असंवास्यः ।

पाराजिक ३

SC 29 यः पुनर् भिक्षुर् मनुष्यं वा मनुष्यविग्रहं वा स्वहस्तेन संचिन्त्य जीविताद् व्यपरोपयेत् । शस्त्रं वैनाम् आधारयेच् छस्त्रधारकं वास्य पर्येषेत मरणाय वैनं समादापयेन् मरणवर्णं वास्यानुसंवर्णयेत् । एवं चैनं वदेत्—हंभो पुरुष किं तव पापकेनाशुचिना दुर्जीवितेन मृतं ते भो पुरुष जीविताद् व रम् इति चिन्तानुमतैश् चित्तसंकल्पैर् अनेकपर्यायेण मरणाय वैनं समादापयेन् मरणवर्णं वास्य अनुसं वर्णयेत् स च तेन कालं कुर्याद् अयम् अपि भिक्षुः पाराजिको भवत्य् असंवास्यः ।

पाराजिक ४

SC 30 यः पुनर् भिक्षुर् अनभिजानन्न् अपरिजानन्न् असन्तम् असंविद्यमानम् अनुत्तरमनुष्यधर्मम् अल मार्य विशेषा धिगमं ज्ञानं वा दर्शनं स्पर्शविहारतां वा प्रतिजानीयाद् इदं जानामीदं पश्यामीति स परेण समयेन समनुयुज्यमानो वा असमनुयुज्यमानो वा आपन्नो विशुद्धिं प्रक्ष्यैवं वदेद् अजानन्न् एवाहम् आयु ष्मन्तो ’वोचं ज् आनामीत्य् अ पश्यामीति रिक्तं तुच्छं मृषाव्यपलपनम् अन्यत्राभि मानात् अयम् अपि भिक्षुः पाराजिको भवत्य् असं वास्यः ।


SC 31 उद्दिष्टा मयायुष्मन्तश् चत्वारः पाराजिका धर्मा येषां भिक्षुर् अन्यतमान्यतमम् आपत्तिम् अध्यापत्य न लभते भिक्षुभिः सार्धं संवासं भोगं वा यथापूर्वं च तथापश्चात् पाराजिको भवत्य् असंवास्यः ।

SC 32 तत्राहम् आयुष्मन्तः परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः

SC 33 द्विर् अपि त्रिर् अपि परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः

SC 34 परिशुद्धा अत्रायुष्मन्तो यस्मा त् तूष्णी म् एवम् एतद् धारयामि ।

१३ संघावशेषा रुलेस्

SC 35 इमे खल्व् आयुष्मन्तस् त्रयोदश संघावशेषा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

संघावशेष १

SC 36 संचिन्त्य शुक्रविसृष्टिर् अन्यत्र स्वप्नान्तरात् संघा वशेषः ।

संघावशेष २

SC 37 यः पुनर् भिक्षुर् अवलविपरिणतेन चित्तेन मातृग्रामेण सार्धं काय संसर्गं समापद्येत हस्तग्रहणं वा बाहुग्रहणं वा वेणीग्रहणं वा अन्यतमान्यतमस्य वा अङ्गप्रत्यङ्गसंस्पर्शनं वा अङ्गमर्शनं स्वीकुर्यात् संघावशेषः ।

संघावशेष ३

SC 38 यः पुनर् भिक्षु र् अवदलविपरिणतेन चित्तेन मातृग्रामं दुष्ठुलया पापिकया असभ्यया मैथुनोपसंहितया वाचा आभाषेत यथापि तां युवा युवतिं संघावशेषः ।

संघावशेष ४

SC 39 यः पुनर् भिक्षुर् अवदलविपरिणतेन चित्तेन मातृग्रामस्य पुरस्ताद् आत्मनः कायपरि चर्याया संवर्णयेद् एतद् अग्रं मातृस्वसः परि चर्याणां यदुत मादृशं भिक्षुं शीलवन्तं कल्याण धर्माणं ब्रह्मचारिण म् अनेन धर्मेण परिचरेद् यदुत मैथुनोपसंहितेन संघावशेषः ।

संघावशेष ५

SC 40 यः पुनर् भिक्षुः संच रित्रं समापद्येत स्त्रियं वा पुरुषमतेन पुरुषं वा स्त्रीमतेन जायात्वेन वा जा रित्वेन वा अन्ततस् त त्क्षणिकायाम् अपि संघावशेषः ।

संघावशेष ६

SC 41 स्वयं याचिता भिक्षुणा कुटिं कारयित्वा अस्वा मिकाम् आत्मोद्देशिकां प्रामाणिका कुटिः कारयितव्या । तत्रेदं कुट्याः प्रमाणं दैर्घ्येण द्वादश वितस्तयः सुगतवितस्त्या तीर्यक् सप्तान्तरतः । तेन भिक्षुणा भिक्षवो ’भिनेतव्याः वास्तुदर्शनाय । अभिनीतैर् भिक्षुभिर् वास्तु द्रष्टव्यम् अनारम्भं सपरिक्रमम् । सारम्भे चेद् भिक्षुर् वास्तुन्य् अपराक्रमे स्वयं याचितां कुटिं कारयेद् अस्वामिकाम् आत्मोद्देशकां भिक्षूंश् च नाभिनयेद् वास्तु दर्शनाय अनभिनीतैर् भिक्षुभिः अदर्शितवास्तुनि प्रमाणं वातिक्रमेत् संघावशेषः ।

संघावशेष ७

SC 42 महल्लकं पुनर् भिक्षुः विहारं कारय मानाः स स्वामिकं संघोद्देशकं तेन भिक्षुणा भिक्षवो ’भिहितव्या वास्तुदर्शनाय । अतः अभिनी तैर् भिक्षुभिर् वास्तु द्रष्टवम् अनारंभं सपरिक्रमम् । सारंभे चेद् भिक्षुर् वास्तुन्य् अपरिक्रमे महन्तं विहारं कारयित्वा यत् सस्वामिकं संघोद्देशकं भिक्षूंश् च नाभिनयेद् वास्तुदर्शनाय संघा वशेषः ।

संघावशेष ८

SC 43 यः पुनर् भिक्षुर् द्विष्टोद्देशाद् अप्रतीतः शुद्धं भिक्षुं अमूलकेन पाराजिकेन धर्मेणानुध्वंस येद् अप्य् एवैनं ब्रह्मचर्याच् च्यावयेयम् इति तस्य च अपरेण समयेन सम नुयुज्यमानो वा असमनुयुज्यमानो वा अमूलकम् एव स्वाधिकरणं भवेद् भिक्षुश् च द्वेषे प्रतिष्ठेद् द्वेषेणावोच म् इति संघावशेषः ।

संघावशेष ९

SC 44 यः पुनर् भिक्षुर् द्विष्टोद्देशाद् अप्रतीतः शुद्धं भिक्षुं अन्यस्य वा अन्यथाभागीयस्य अधिकरणस्य कञ्चिद् एव लेशमात्रं धर्मम् उपादाय पाराजिकेन धर्मेण अनुध्वंसयेद् अप्य् एवैनं ब्रह्मचर्याच् च्यावयेयम् इति तस्य च अपरेण समयेन समनुयु ज्यमानस्य वा समनुयुज्यमानस्य वा अन्यभागीयं तद् अधिकरणं भवति कश्चिद् एव लेशोद्देशमात्रो धर्म उपात्तो भवति भिक्षुश् च द्वेषे प्रतिष्ठेद् द्वेषाद् अवोचम् इति संघावशेषः ।

संघावशेष १०

SC 45 यः पुनर् भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमेद् भेदकरणसंवर्तनीयं चाधिकरणं समाधाय प्रगृह्य तिष्ठेत् स भिक्षुर् भिक्षुभिर् इदं स्याद् वचनीयः—मा त्वम् आयुष्मन् समग्रस्य संघस्य भेदाय पराक्रमेद् भेदकरणसंवर्तनीयं चाधिकरणं समाधाय प्रगृह्य तिष्ठ । समेत्व् आयुष्मन् सार्धं संघेन समग्रो संघसहितः संमोदमानो ’विवदमानः एकाग्रधर्मोद्देशः एकक्षीरोदकीभूतः शास्तु दर्शयमानः सुखं स्पर्शं विहारं तु निशृज त्वम् आयुष्मन् इदम् एवंरूपं संघभेदकरणं वस्तु । एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तथैव वस्तु समादाय प्रगृह्य तिष्ठेत् शुद्धस् तु प्रति निःसृजे द् इत्य् एवं कुशलं न च प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यः तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् संघा वशेषः ।

संघावशेष ११

SC 46 तस्य खलु भिक्षोर् भिक्षवः स्युर् सहाय काः व्यग्रवादिनः एको वा द्वौ वा संबहुला वा ते तान् भिक्षून् एवं वदेयुः—मा यूयम् आयुष्मन्तः तं भिक्षुं कल्याणं वा पापकं वा किंचिद् वदत तत् कस्माद् धेतोर् धर्मवादी आयुष्मन्तो भिक्षुर् विनयवादी च सो ’स्माकं चैषश् छन्दं च रुचिञ् चादाय तु व्याहरति । जानंश् च स भिक्षुर् भाषते नाजानन् यच् चास्य भिक्षोः रोचते च क्षमते च अस्माकम् अपि रोचते च क्षमते च इति । ते भिक्षवो भिक्षुभिर् एवं स्युर् वचनीया—मायुष्मन्त एवं वदन्तु न च स भिक्षुर् धर्मवादी न विनयवादी अधर्मं चैषो ’विनयं चास्माकं छन्दं रुचिञ् चादाय तु व्याहरति नाजानंश् च स भिक्षुर् भाषते जानंश् च यच् चास्य बिक्षोः रोचते च क्षमते च तवायुष्मतो ’पि संघभेदः न रोचते मायुष्मताम् अपि संघभेदो रोचते समेत्व् आयुष्मन्तः संघेन समग्रो हि संघो संमोदमानो अविवदमानो एकाग्रधर्मोद्देशः एकक्षीरोदकीभूतः शास्तु दर्शयमानः सुखं स्पर्शं विहरन्तु । तिष्ठ मा त्वम् आयुष्मन् संघभेदाय निःसृज इमाम् एवंरूपां संघभेदकरां कथाम् । एवं ते भिक्षवो भिक्षुभिः द्विर् अपि त्रिर् अपि समनुयोक्तव्याः समनुशासितव्यास् तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयोक्तव्याः समनुशासितव्याः प्रतिनिःसृजेयुः इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेयुः संघावशेषः ।

संघावशेष १२

SC 47 संबहुला भिक्षवः अन्यतमं ग्रामं वा निगमं वा उपनिःश्रित्य विहरेयुस् ते च स्युः कुलदूषकाः पापसमाचाराः तेषां च कुलानि दुष्टानि दृश्येरन् वा श्रूयेरन् वा प्रज्ञायेरन् वा । ते भिक्षवः भिक्षुभिर् एवं स्युर् वचनीयाः—आयुष्मन्तः कुलदूषकाः पापसमाचाराः युष्माकं कुलानि दुष्टानि दृश्यन्ते ’पि श्रूयन्ते ’पि प्रज्ञायन्ते ’पि युष्माकं च ते पापसमाचारा दृश्यन्ते ’पि श्रूयन्ते ’पि प्रज्ञायन्ते ’पि प्रक्रमध्वं आयुष्मन्तः यूयं अस्माद् आवासाद् अलं युष्माकं इह वासेनेति । एवं चेत् ते भिक्षवस् तान् भिक्षून् वदेयुः—छन्दगामिन आयुष्मन्तः भिक्षव द्वेषगामिनो मोहगामिनो भयगामिनश् च एवंरूपायाः आपत्त्याः एकत्य भिक्षून् प्रवासयन्त्य् एकत्य भिक्षून् न प्रवासयन्तीति । तत्र भिक्षवः एवं स्युर् वचनीयाः—मा आयुष्मन्त एवं वदत । एकत्य भिक्षवश् छन्दगामिनो द्वेषगामिनो मोहगामिनो भयगामिनश् च एवंरूपायाः आपत्त्याः एकत्य भिक्षून् प्रवासयन्त्य् एकत्य भिक्षून् न प्रवासयन्तीति । तत् कस्माद् धेतोः । नेमे भिक्षवश् छन्दगामिनो द्वेषगामिनो मोहगामिनो भयगामिनश् च आयुष्मन्त खलु कुलदूषकाः पापसमाचाराः युष्माकं कुलानि दुष्टानि दृश्यन्ते ’पि श्रूयन्ते ’पि पापकाश् च युष्माकं समाचारा दृश्यन्ते ’पि श्रूयन्ते ’पि प्रज्ञायन्ते ’पि । भिक्षव आयुष्मन्तश् छन्दगामिनो द्वेषगामिनो मोहगामिनो भयगामिनश् च—निःसृजत इमाम् एवंरूपां कथाम् । ते भिक्षवः भिक्षुभिर् एवं भासितव्याः—एवं चेत् प्रतिनिःसृजेयुः इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेयुः द्विर् अपि त्रिर् अपि समनुयोक्तव्याः समनुशासितव्यास् तस्य प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयोक्तव्याः समनुशासितव्याः प्रतिनिःसृजेयुः इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेयुः संघावशेषः ।

संघावशेष १३

SC 48 भिक्षुर् इह कश्चिद् दुर्वाच्यस्वभावो भवति उद्देश्यपर्यापन्नैः शिक्षापदैः सुगतसूत्रपर्यापन्नैः भिक्षुभिः सहधर्मेण सहविनयेनोच्यमान आत्मानम् अवचनीयं करोति—मा माम् आयुष्मन्तः यूयं किंचिद् वदत कल्याणम् अकल्याणं वा अहम् अपि आयुष्मतः न किंचिद् वक्ष्यामि कल्याणम् अकल्याणं वा विरमन्तु आयुष्मन्तः मम वचनाद् अहम् अपि विरंस्यामि युष्माकं वचनाद् इति । स भिक्षुर् भिक्षुभिर् एवं स्याद् वचनीयो—आयुष्मन् उद्देश्यपर्यापन्नैः शिक्षापदैः सुगतसूत्रपर्यापन्नैः भिक्षुभिः सहधर्मेण सहविनयेनोच्यमान आत्मानम् त्वं अवचनीयं करोषि आयुष्मन् वचनीयम् एव आत्मानं करोतु आयुष्मन्तम् भिक्षवो सहधर्मेण सहविनयेन वदन्तु आयुष्मान् अपि भिक्षून् सहधर्मेण सहविनयेन वदतु एवं संबद्धा हि तस्य भगवतः तथागतस्य अर्हतो सम्यक्संबुद्धस्य परिषद् यद् इदं अन्योन्यवचनीयाद् अन्योन्यापत्तिव्युत्थापनाद् इति मायुष्मन् आत्मानं अवचनीयं करोतु । स भिक्षुर् भिक्षुभिर् एवं भासितव्यः—एवं चेद् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यस् तस्य प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यः प्रतिनिःसृजेद् तद् वस्तु इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् संघावशेषः ।


SC 49 उद्दिष्टा मयायुष्मन्तस् त्रयोदश संघावशेषा धर्माः । नव प्रथमापत्तयश् चत्वारो यावत्तृतीयका येषां भिक्षुर् अन्यतमान्यतमं धर्मम् आपन्नो यावत्कालं जानन् प्रतिछादयति तावत्कालं तेन अकामतः पर्युषितव्यम् । अकामतः पर्युषितपरिवासेन भिक्षुणा उत्तरिषड्रात्रं संघमानत्वं चर्तव्यं भवति । चीर्णमानत्तो भिक्षुर् आवर्हणप्रतिबद्धः कृतानुधर्मः भिक्षुसंघस्य आराधितचित्तो यत्र स्याद् विंशतिगणो भिक्षु संघस्य त त्र च सो भिक्षुर् आवर्हितव्यः । एकेनापि चेद् ऊनो विंशतिगणो भिक्षुसंघस् तं भिक्षुम् आवर्हेत् स च भिक्षुर् अनाव्रीडस् ते च भिक्षवो गार्ह्याः तत्र समयः ।

SC 50 यत्राहं आयुष्मतः परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः

SC 51 द्विर् अपि त्रिर् अपि परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः

SC 52 परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवैतद् धारयामि ।

२ अनियत रुलेस्

SC 53 इमौ खलु आयुष्मन्तौ द्वौ अनियतौ धर्मौ अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छतः ।

अनियत १

SC 54 यः पुनर् भिक्षुर् मातृग्रामेण सार्धम् एक एकिकया रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेद् अलं कामयितुम् । सचेच् छ्राद्धेयवचनोपासिका त्रयाणां धर्माणाम् अन्यतमान्यतमधर्मेण वदेत् पाराजिकेन वा संघादिशेषेण वा पायन्तिकेन वा निषद्यां भिक्षुः प्रति जानमानः त्रयाणां धर्माणाम् अन्यतमान्यतमेन धर्मेण कारयितव्यः पाराजिकेन वा संघावशेषेण वा पायन्तिकेन वा येन येन वा पुनः श्राद्धेयवचनोपासिका तं भिक्षुं धर्मेण वदेत् तेन तेन धर्मेण स भिक्षुः कारयितव्यो ’यं धर्मो ’नियतः ।

अनियत २

SC 55 यः पुनर् भिक्षुर् मातृग्रामेण सार्धम् एक एकिकया रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेन् नालं कामयितुम् । सचेच् छ्राद्धेयवचनोपासिका द्वयोर् धर्मयोः अन्यतमान्यतमधर्मेण वदेत् संघावशेषेण वा पायन्तिकेन वा निषद्यां भिक्षुः प्रतिजानतो द्वयोर् धर्मयोः संघावशेषेण वा पायन्तिकेन वा येन येन वा पुनः श्राद्धेयवचनोपासिका तं भिक्षुं धर्मेण वदेत् तेन तेन धर्मेण स भिक्षुः कारयितव्यो ’यम् अपि धर्मो ’नियतः ।


SC 56 उद्दिष्टा मे आयुष्मन्तः द्वाव् अनियतौ धर्मौ । तत्राहम् आयुष्मतः परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः

SC 57 द्विर् अपि त्रिर् अपि परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः

SC 58 परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ।

३० नैसर्गिकपायन्तिक रुलेस्

SC 59 इमे खलु आयुष्मन्तस् त्रिंशन् नैसर्गिकाः पायन्तिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

नैसर्गिकपायन्तिक १

SC 60 निष्ठितचीवरेण भिक्षुणा उद्धृते कठिने दशाहपरमं अतिरेकचीवरम् अविकल्पितं धारयितव्यं ततः उत्तरि धारयेन् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २

SC 61 निष्ठितचीवरो भिक्षुः उद्धृतकठिने एकरात्रम् अपि चेत् त्रयाणां चीवराणाम् अन्यतमान्यतमस्य चीवराद् बहिःसीमां विप्रवसेद् अन्यत्र संघसंमत्या नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक ३

SC 62 निष्ठितचीवरस्य भिक्षोर् उद्धृते कठिने उत्पत्य अकालचीवरम् आकांक्षिना तेन भिक्षुणा तच् चीवरं प्रतिगृहीतव्यं प्रतिगृह्य सचेत् परिपूर्यते क्षिप्रम् एव कृत्वा धारयितव्यम् । नो चेत् परिपूर्यते मासपरमं तेन भिक्षुणा तच् चीवरम् उपनिक्षिप्तव्यं सत्यां चीवरप्रत्याशायाम् ऊनस्य वा परिपूरयेत् ततः उत्तरि उपनिक्षिपेन् नैसर्गिक पायन्तिका

नैसर्गिकपायन्तिक ४

SC 63 यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या पुराणचीवरं धावयेद् रंजयेद् आकोटयेद् वा नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक ५

SC 64 यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या सन्तिकाच् चीवरं प्रतिगृह्णीयाद् अन्यत्र परिवर्तकान् नैसर्गिकपातयन्तिका ।

नैसर्गिकपायन्तिक ६

SC 65 यः पुनर् भिक्षुर् अज्ञातिगृहपतिं गृहपतिपत्नीं वोपसंक्रम्य चीवरं विज्ञापयेद् अन्यत्र समयान् नैसर्गिकपायन्तिका । तत्रायं समय आच्छिन्नचीवरो भिक्षुर् भवति नष्टचीवरो दग्धचीवरो ऊढचीवरो हृतचीवरो ’यं तत्र समयः ।

नैसर्गिकपायन्तिक ७

SC 66 आच्छिन्नचीवरेण भिक्षुणा नष्टचीवरेण दग्धचीवरेण ऊढचीवरेण हृतचीवरेणाज्ञातिगृहपतिना गृहपतिपत्नीं चीवरं विज्ञापयितव्यः तं चेच् छ्राद्धो ब्राह्मणो गृहपतिर् वात्यर्थं संबहुलैश् चीवरैः प्रवारयेद् आकांक्षता तेन भिक्षुणा सान्तरोत्तर परमं तस्माच् चीवरं प्रति गृहीतव्यं तत उत्तरि प्रतिगृह्णीयान् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक ८

SC 67 भिक्षुं खलूद्दिश्याज्ञातिना गृहपतिना गृहपतिपत्न्या वा चीवरचेतनकानि प्रत्युपस्थापितानि स्युः एभिर् अहं चीवरचेतनकैर् ए वंरूपं चैवंरूपं च चीवरं चेतयित्वा एवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयिष्यामि चीवरेण काले कल्पिकेनेति । तत्र चैको भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् एव विकल्पं प्रतिपद्य तम् अज्ञातिं गृहपतिं गृहपतिपत्नीं वोपसंक्रम्यैवं वदेद् यानि तानि आयुष्मता मा म् उद्दिश्य चीवरचेतनकानि प्रत्युपस्थापितानि साध्यायुष्मंस् ते चीवरचेतनकैर् एवंरूपं चैवंरूपं च चीवरं चेतयित्वा आच्छादये ’हं चीवरेण कालेन कल्पिकेनेति । अभिनिष्पन्ने चीवरे नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक ९

SC 68 भिक्षुं खलूद्दिश्याज्ञातिना गृहपतिना गृहपतिपत्न्या च प्रत्येकप्रत्येकानि चीवरचेतनकानि प्रत्युपस्थापितानि स्युः । एभिर् आवां प्रत्येकप्रत्येकैः चीवरचेतनकैर् एवंरूपं चैवंरूपं च प्रत्येकप्रत्येकं चीवरं चेतयित्वा एवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयिष्यावः । प्रत्येकप्रत्येकाभ्यां चीवरचेतनकाभ्यां काले कल्पिकाभ्याम् इति । तत्र चेत् स भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् एव विकल्पम् आपत्य तम् अज्ञातिगृहपतिं गृहपतिपत्नीं वोपसंक्रम्यैवं वदेद् यानि तान्य् आयुष्मत्यात्मान् उद्दिश्य प्रत्येकप्रत्येकानि चीवरचेतनकानि प्रत्युपस्थापितानि । साध्यायुष्मतौ तौ प्रत्येकप्रत्येकैश् चीवरचेतनकैर् एवंरूपं चैवंरूपं च चीवरं चेतयित्वा आच्छादयताम् उभाव् अपि भूत्वा एकैकेन चीवरेण काले कल्पिकेन कल्याणकामताम् उपादायाभिनिष्पन्ने चीवरे नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक १०

SC 69 भिक्षुं खलू द्दिश्य राज्ञा वा राजमात्रेण वा ब्राह्मणेन वा गृहपतिना वा नैगमेन वा जानपदेन वा धनिना वा श्रेष्ठिना वा सार्थवाहेन वा दूतस्य हस्ते चीवरचेतनकानि अनुप्रेषितानि स्युः । अथ स दूतस् तानि चेतनकानि आदाय येन स भिक्षुस् तेनोपसंक्रामेद् उपसंक्रम्य तं भिक्षुम् एवं वदेद् यत् खल्व् आर्य जानीयात् त्वाम् उद्दिश्य राज्ञा वा राजमात्रेण वा ब्राह्मणेन वा गृहपतिना वा नैगमेन वा जानपदेन वा धनिना वा श्रेष्ठिना वा सार्थवाहेन वा चीवरचेतनकेन वानुप्रेषितान्य् आर्यं प्रतिगृह्णात्व् अनुकम्पाम् उपादाय । तेन भिक्षुणा स दूत इदं स्याद् वचनीयः—गच्छायुष्मन् दूत भिक्षूणां चीवरचेतनकानि पत्यन्ते परिगृहीतुं । चीवरं तु वयं लब्ध्वा प्रतिगृह्णीमः काले कल्पिकं । स दूतस् तं भिक्षुम् एवं वदेद् अस्ति कश्चिद् आर्याणां वैय्यावृत्यकरो य आर्याणां वैय्यावृत्यं प्रत्यनुभवतीति । चीवरार्थिकेन भिक्षुणा वैय्यावृत्यकरो व्यपदेष्टव्य आरामिको वा उपासको वा एते दूत भिक्षूणां वैय्यावृत्यकरा एते भिक्षूणां वैय्यावृत्यं प्रत्यनुभवन्तीति । अथ स दूतस् तानि चीवरचेतनकान्य् आदाय येन स वैय्यावृत्यकरस् तेनोपसंक्रामेत् । उपसंक्रम्य तं वैय्यावृत्यकरम् एवं वदेत् । खल्व् आयुष्मन् वैय्यावृत्यकर जानीया एभिस् तं चीवरचेतनकैर् एवंरूपम् चैवंरूपं च चीवरं चेतयित्वा एवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयेथा चीवरेण काले कल्पितेनेति । अथ स दूतस् तं वैय्यावृत्यकरं साधु च सुष्ठु च समनुयुज्य समनुशिष्य येन स भिक्षुस् तेन संक्रामेत् । उपसंक्रम्य तं भिक्षुम् एवं वदेद् यो ’साव् आर्येण वैय्यावृत्यकरो व्यपदिष्टः समनुशिष्टः समयेन तम् उपसंक्रामेथा आच्छादयिष्यति स सत्वां चीवरेण काले कल्पितेनेति । चीवरार्थिकेन भिक्षुणा वैय्यावृत्यकर उपसंक्रम्य द्विस् त्रिश् चोदयितव्यः स्मारयितव्यो ’र्थिको ’स्म्य् आयुष्मन् वैय्यावृत्यकर चीवरेणार्थिको ’स्म्य् आयुष्मन् वैय्यावृत्यकर चीवरेणेति । द्विस् त्रिश् चोदयतः स्मारयतः सचेत् तच् चीवरम् अभिनिष्पद्यते इत्य् एवं कुशलं नो चेद् अभिनिष्पद्येत चतुष्पंचषट्कृत्वः परं तूष्णीम् उद्देशे स्थातव्यं चतुष्पंचषट्कृत्वा परं तूष्णहीम् उद्देशे स्थितस्य सचेत् तच् चीवरम् अभिनिष्पद्येत इत्य् एवं कुशलं नो चेद् अभिनिष्पद्येत न उत्तरि ध्यायच्छेच् चीवरस्याभिनिवर्तये अभिष्पन्ने चीवरे नैसर्गिकपायन्तिका । नो चेद् अभिनिष्पद्येत यस्या दिशस् तानि चीवरचेतनकान्य् आनीतानि तत्र स्वयं वा गन्तव्यम् आप्तो वा दूतो ’नुप्रेषितव्यः यानि तान्य् आयुष्मद्भिर् एवंनामानं भिक्षुम् उद्दिश्य चीवरचेतनकान्य् अनुप्रेषितानि न तानि तस्य भिक्षोः कंचिद् अर्थं स्फरन्ति प्रजानात्व् आयुष्मन्तः स्वम् अर्थं मा वो ’र्थः प्रणश्यत्व् इत्य् अयं तत्र सामयः ।

नैसर्गिकपायन्तिक ११

SC 70 यः पुनर् भिक्षुर् नवं कौशेयसंस्तरं कारयेन् नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १२

SC 71 यः पुनर् भिक्षुः शुद्धकालकानाम् एडकरोम्नां नवं संस्तरं कारयेन् नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १३

SC 72 नवं भिक्षुणा संस्तरं कारयता द्वौ भागौ शुद्धकालकानाम् एडकरोम्नाम् आदातव्यौ तृतीयो ’वदातानां चतुर्थो गोचरिकाणाम् अनादाय चेद् भिक्षुर् द्वौ भागौ शुद्धकालकानाम् एडकरोम्नां तृतीयो ’वदातानां चतुर्थो गोचरिकाणां नवं संस्तरं कारयेन् नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १४

SC 73 नवं भिक्षुणा संस्तरं कारयता अकामं षड् वर्षाणि कृत्वा धारयितव्यम् । अर्वाक् चेद् भिक्षुः षण्णां वर्षाणां तं पुराणसंस्तरं नि सृज्य वा अनि सृज्य वा अन्यं नवं संस्तरं कारयेद् अन्यत्र संघसंमत्या संघसंवृत्या नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १५

SC 74 नवं भिक्षु णा निषदनं कारयिता पुराणनिषदनसामन्तकात् सुगतवितस्तिर् आदातव्या नवस्य दुर्वर्णीकरणाय । अनादाय चेद् भिक्षुः पुराणनिषदनसामन्तकात् सुगतवितस्तिं नवस्य दुर्वर्णीकरणाय नवं निषदनं परिभुंजीत नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १६

SC 75 भिक्षोः खल्व् अध्वप्रतिपन्नस्योत्पद्येरन्न् एडकरोमाण्य् आकांक्षता तेन भिक्षुणा प्रतिगृहीतव्यानि प्रतिगृह्य यावत् त्रियोजनपरमं स्वयं हर्तव्यान्य् असति हारके तत उत्तरि पारेन् नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १७

SC 76 यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या एडकरोमाणि धावयेद् रंजयेद् विवटेद् विवटापयेद् वा नैसर्गिकपायन्तिका ।

नैसर्गिकपायन्तिक १८

SC 77 यः पुनर् भिक्षुः स्वहस्तं जातरूपरजतम् उद्गृह्णीयाद् उद्ग्राहनसत्वा नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक १९

SC 78 यः पुनर् भिक्षुर् नानाप्रकारं रूपिकव्यवहारं समापद्येत नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २०

SC 79 यः पुनर् भिक्षुर् नानाप्रकारं क्रयविक्रयं समापद्येत नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २१

SC 80 दशाहपरमं भिक्षुणा अतिरेकपात्रं धारयितव्यं तत उत्तरं परिधारयेन् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २२

SC 81 यः पुनर् भिक्षुर् ऊनपंचबन्धनेन पात्रेण पारिभोगिकेनान्यं नवं पात्रं पर्येषेत । कल्याण कामताम् उपादायाभिनिष्पन्ने पात्रे नैसर्गिका पायन्तिका । तेन भिक्षुणा तत् पात्रं भिक्षुपर्षद्य् उपनि ःसृष्टव्यः यः तस्यां भिक्षुपर्षदि पात्रपर्यन्तो भवति । तत् तस्य भिक्षोर् अनुप्रदातव्यम् इदं ते भिक्षोः पात्रं वाधिष्ठातव्यं न विकारयितव्यं सचेन् मन्दं मन्दं परिभोक्तव्यं यावद् भेदनपर्यन्तम् उपादाय इत्य् अयं तत्र समयः ।

नैसर्गिकपायन्तिक २३

SC 82 यः पुनर् भिक्षुः स्वयं याचितेन सूत्रेणाज्ञातिना तन्तुवायेन चीवरं वायेयम् इति निष्पन्ने चीवरे नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २४

SC 83 भिक्षुं खलूद्दिश्याज्ञातिः गृहपतिर् वा गृहपतिपत्नी वाज्ञातितन्तुवायेन चीवरं वाययेत् तत्र चेत् स भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् एव विकल्पम् आपद्य तम् अज्ञातिं तन्तुवायम् उपसंक्रम्यैवं वदेत् । यत् खल्व् आयुष्मांस् तन्तुवाय जानीया इदं चीवरम् अस्मान् उद्दिश्य ऊयते साध्व् आयुष्मंस् तन्तुवाय इदं चीवरं सु विस्तृ तं च कुरु सुविलिखितं च सुवितक्षितं च स्वाकोटितं चाप्य् एव वयम् आयुष्मते तन्तुवायाय कांचिद् एव मात्रम् उपसंहरिष्यामो यदुत पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंबलं वा चीवरस्याभिनिष्पत्तये अभिनिष्पन्ने चीवरे नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २५

SC 84 यः पुनर् भिक्षुर् भिक्षोश् चीवरं दत्वा ततः पश्चाद् अभिषिक्तः कुपितश् चण्डीभूतो नात्ममना आच्छिन्द्याद् आच्छेदयेद् वा एवं चैनं वदेद् आनय भिक्षो चीवरं न ते भूयो ददामीति । तेन भिक्षुणा तच् चीवरं तच् च शेषम् उपनिःसृष्टव्यं भुक्तस्य च नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २६

SC 85 दशाहम् आगतायां कार्तिक्यां पौर्णमास्यां भिक्षोर् उत्पद्येतात्ययकचीवरम् आकांक्षता तेन भिक्षुणा प्रतिगृहीतव्यं प्रतिगृह्य यावच् चीवरदानकालसमयाद् धारयितव्यं तत उत्तरं धारयेन् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २७

SC 86 भिक्षवः खलु संबहुलाः आरण्यकेषु शयनासनेषु न वर्षका भवन्ति साशङ्कसंमतेषु नानाभ यसंमतेषु सप्रतिभयभैरवसंमतेषु आकांक्षता आरण्यकेन भिक्षुणा त्रयाणां चीवराणाम् अन्यतमान्यतमं चीवरम् अन्तर्गृहे उपनिक्षिप्तव्यं स्यात् खल्व् आरण्यकस्य भिक्षोस् तद्रूपप्रत्ययो बहिःसीमां ग न्तुं षड्रा त्रपरमम् आरण्यकेन भिक्षुणा तस्माच् चीवराद् बहिःसीमां विप्रवस्तव्यं तत उत्तरि विप्रवसेन् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २८

SC 87 मास्यः शेषो ग्रीष्माणां भिक्षुणा वर्षाशाटीचीवरं पर्येषितव्यम् अर्धमासावशिष्टा कृत्वा धारयितव्यम् । अर्वाक् चेद् भिक्षुः शेषो ग्रीष्माणां वर्षाशाटीचीवरं पर्येषेत ऊर्ध्वम् अर्धमासावशिष्टा वर्षाः कृत्वा धारयेन् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक २९

SC 88 यः पुनर् भिक्षुर् जानन् सांघिकं लाभं परिणतम् आत्मनः पौद्गलिकं परिणामयेन् नैसर्गिका पायन्तिका ।

नैसर्गिकपायन्तिक ३०

SC 89 यानि तानि भगवता ग्लानानां भिक्षूणां सांप्रेयाणि प्रतिसेवनीयानि भैषज्यान्य् आख्यातानि तद्यथा सर्पिस् तैलं मधु फाणितं तान्य् आकांक्षता ग्लानेन भिक्षुणा सप्ताहपरमं स्वयम् अधिष्ठाय संनिधिकारपरि भो गेन परिभोक्तव्यानि तत उत्तरि परिभुंजीत नैसर्गिका पायन्तिका ।


SC 90 उद्दिष्टा मे आयुष्मन्तस् त्रिंशन् नैसर्गिकपायन्तिका धर्माः । तत्राहम् आयुष्मन्तः परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि—कश्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ।

९० पायन्तिका रुलेस्

SC 91 इमे खल्व् आयुष्मन्तः नवतिः पायन्तिका धर्मा अन्व र्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

पायन्तिक १

संप्रजानन् मृषावादात् पायन्तिका ।

पायन्तिक २

ऊनमनुष्यवादात् पायन्तिका ।

पायन्तिक ३

भिक्षुपैशुन्यात् पायन्तिका ।

पायन्तिक ४

SC 92 यः पुनर् भिक्षुर् जानन् समग्रेण संघेन यथाधर्मम् अधिकरणम् उपनिक्षिप्तं पुनः कर्मणः खोटयेत् पायन्तिका ।

पायन्तिक ५

SC 93 यः पुनर् भिक्षुर् मातृग्रामस्योत्तरि षट्पंचिकया वाचा धर्मं देशयेद् अन्यत्र विज्ञपु रुषात् पायन्तिका ।

पायन्तिक ६

SC 94 यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलाय पदशो धर्मं वाचयेत् पायन्तिका ।

पायन्तिक ७

SC 95 यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलाय दुष्ठुलापत्तिम् आरोचयेद् अन्यत्र संघसंमत्यान् पायन्तिका ।

पायन्तिक ८

SC 96 यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलायोत्तरंमनुष्यधर्मम् आरोचयेद् भूतात् पायन्तिका ।

पायन्तिक ९

SC 97 यः पुनर् भिक्षुः पूर्वं समनुज्ञो भूत्वा ततः पश्चाद् एवं वदेद् यथा संस्तुतिकयायुष्मन्तः सांघिकं लाभं परिणतम् आत्मनः पौद्गलिकं परिणामयन्तीति पायन्तिका ।

पायन्तिक १०

SC 98 यः पुनर् भिक्षुर् अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशे उद्दिश्यमाने एवं वदेत् किं पुनर् एभिर् आयुष्मन्तः क्षुद्रानुक्षुद्रैः शिक्षापदैर् अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशैर् उच्चार्यमानैर् यानि भिक्षूणां कौकृत्याय संवर्तन्ते आलेखाय विलेखाय विलेठाय विप्रतिसारायेति शिक्षा पद विलंघनात् पायन्तिका ।

पायन्तिक ११

बीजग्रामभूतग्रामपातनपातापनात् पायन्तिका ।

पायन्तिक १२

अवध्यानक्षिपणात् पायन्तिका ।

पायन्तिक १३

आज्ञाविहेठनात् पायन्तिका ।

पायन्तिक १४

SC 99 यः पुनर् भिक्षुः सांघिकं मंचं वा पीठं वा वृषिको वा बिंबोपधानचतुरश्रकं वा अभ्यवकाशे उपनिक्षिप्योपरिक्षिप्य वा अनुद्धृतानुद्धृत्य वा ततो विप्रक्रामेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।

पायन्तिक १५

SC 100 यः पुनर् भिक्षुः सांघिके विहारे तृणसंस्तरं वा पर्णसंस्तरं वा संस्तीर्य वा संस्तार्य वा अनुद्धृत्यानुद्धार्य वा ततो विप्रक्रामेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।

पायन्तिक १६

SC 101 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ’नात्तमना सांघिकाद् विहाराद् भिक्षुं निष्कर्षेन् निष्कार्षापयेद् वा अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।

पायन्तिक १७

SC 102 यः पुनर् भिक्षुर् जानन् सांघिके विहारे पूर्वोपगतानां भिक्षूणां ततः पश्चाद् आगत्यानुप्रस्कन्द्यासने निषद्यां शय्यां वा कल्पयेद् यस्य संबाधो भविष्यति स विप्रक्रमिष्यतीति इत्य् एव प्रत्ययं कृत्वा पायन्तिका ।

पायन्तिक १८

SC 103 यः पुनर् भिक्षुर् जानन् सांघिके विहारे उपरिविहायसिकृतायां कुटिकायाम् आहार्यपादके मंचे वा पीठे वा सहसा बलेनाभिपदेद् वाभिनिपद्येत वा पायन्तिका ।

पायन्तिक १९

SC 104 यः पुनर् भिक्षुर् जानन् सप्राणकेनोदकेन तृणं वा गोमयं वा मृत्तिकां वा सिञ्चेत् सिञ्चयेद् वा पायन्तिका ।

पायन्तिक २०

SC 105 महान्तं भिक्षुणा विहारं कारयित्वा यावद् द्वारकोशार्गलस्थानाद् आलोकसंज्ञिना भूमिपरिकर्मोपादाय द्वौ वा त्रयो वा छेदनपर्यायाः सहरिताः अधिष्ठातव्याः तत उत्तरि अधितिष्ठेत् पायन्तिका ।

पायन्तिक २१

SC 106 यः पुनर् भिक्षुर् असंमतः संघेन भिक्षुणीर् अववदेत् तद्रूपधर्मसमन्वागमात् पायन्तिका ।

पायन्तिक २२

SC 107 संमतश् चापि भिक्षुर् संघेन यावत् सूर्यास्तगमनकालसमयात् पायन्तिका ।

पायन्तिक २३

SC 108 यः पुनर् भिक्षुर् भिक्षुम् एवं वदेद् आमिषकिंचिथेतोर् भिक्षवो भिक्षुणीर् अवदन्तीति पायन्तिका ।

पायन्तिक २४

SC 109 यः पुनर् भिक्षुर् अज्ञातिकायै भिक्षुण्यै चीवरं दद्याद् अन्यत्र परिवर्तकात् पायन्तिका ।

पायन्तिक २५

SC 110 यः पुनर् भिक्षुर् अज्ञातिकाया भिक्षुण्याश् चीवरं कुर्यात् पायन्तिका ।

पायन्तिक २६

SC 111 यः पुनर् भिक्षुर् भिक्षुणीसार्थेण सार्धम् अध्वानमार्गं प्रतिपद्येत अतो ग्रामान्तरम् अपि पायन्तिका । तत्रायं समयः सार्थगमनीयो मार्गो भवति साशङ्कसंमतः सभयसंमतः सप्रतिभयभैरवसंमतो ’यं तत्र समयः ।

पायन्तिक २७

SC 112 यः पुनर् भिक्षुर् भिक्षुणीसार्थेण सार्धं संविधाय एकनावम् अभिरोहेद् ऊर्ध्वगामिनीं वा अधोगामिनीं वान्यत्र तीर्यक्पारसन्तरणात् पातयन्तिका ।

पायन्तिक २८

SC 113 यः पुनर् भिक्षुर् मातृग्रामेन सार्धम् एक एकया रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेत् पायन्तिका ।

पायन्तिक २९

SC 114 यः पुनर् भिक्षुर् भिक्षुण्या सार्धम् एक एकिकया रहसि प्रतिच्छन्ने तिष्ठेत् पायन्तिका ।

पायन्तिक ३०

SC 115 यः पुनर् भिक्षुर् जानन् भिक्षुणीपरिपाचितं पिण्डपातं परिभुंजीतान्यत्र पूर्वं गृहिसमारंभात् पायन्तिका ।

पायन्तिक ३१

SC 116 परंपरभोजनाद् अन्यत्र समयात् पायन्तिका । तत्रायं समयो ग्लानसमयः कर्मसमयः अध्वानमार्ग समयः चीवरदानकालसमयः ।

पायन्तिक ३२

SC 117 एकावसथोषितेन भिक्षुणा अग्लानेनैकपिण्डपातः परिभोक्तव्यस् ततः उत्तरि परिभुंजीत पायन्तिका ।

पायन्तिक ३३

SC 118 भिक्षवः खलु संबहुलाः कुलानि संक्रामेयुस् तांश् चेच् छ्राद्धा ब्राह्मणगृहपतयस् त्व् अर्थं प्रवारयेयुर् मण्डैश् चापूपैश् चाकांक्षिभिस् तैर् भिक्षुभिर् द्वौ त्रयो वा पात्रपूराः प्रतिग्रहीतव्याः तत उत्तरि प्रति गृह्णीयुः पायन्तिका । द्वौ त्रीन् वा पात्रपूरान् प्रतिगृह्य तैर् भिक्षुभिर् बहिरारामं गत्वा सन्तो भिक्षवः संविभक्तव्या आत्मना च परिभोक्तव्यम् अयं तत्र समयः ।

पायन्तिक ३४

SC 119 यः पुनर् भिक्षुर् भुक्तवान् प्रवारितः अकृतातिरिक्तं खादनीयभोजनीयं खादेद् भुञ्जीत वा पायन्तिका ।

पायन्तिक ३५

SC 120 यः पुनर् भिक्षुर् जानन् भिक्षुं भुक्तवन्तं अकृतातिरिक्ते खा दनीय भोजनीयेनेत्यर्थं प्रवारयेद् इदम् आयुष्मन् खाद इदं भुंक्ष्व इत्य् आस्वादनप्रेक्षी कश्चिद् एष भिक्षुर् आस्वादितो भविष्यति इत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ।

पायन्तिक ३६

SC 121 गण भोजना द् अन्यत्र समयात् पायन्तिका । तत्रायं समयः ग्लानसमयः कर्मसमयो ’ध्वानमार्ग समयो नावाधिरोहणं महासमाजः श्रमणभक्तसमयो ’यं तत्र समयः ।

पायन्तिक ३७

SC 122 यः पुनर् भिक्षु र् अकाले खादनीयभोजनीयं खादेद् भुञ्जीत वा पायन्तिका ।

पायन्तिक ३८

SC 123 यः पुनर् भिक्षुः संनिहितं खादनीयभोजनीयं खादेद् भुञ्जीत वा पायन्तिका ।

पायन्तिक ३९

SC 124 यः पुनर् भिक्षुर् अदत्तं मुखद्वारा हारम् आहरेद् अन्यत्रोदकदन्तकाष्ठात् पायन्तिका ।

पायन्तिक ४०

SC 125 यानि तानि भगवता भिक्षूणां प्रणीतभोजनान्य् अख्यातानि तद्यथा क्षीरं दधि नवनीतं मत्स्यो मांसं वल्लूरी यः पुन र् भिक्षुः एवंरूपाणि प्रणीतभोजनानि आत्मार्थम् अग्लानः परकुलेभ्यो विज्ञाप्य खादेद् भुञ्जीता वा पायन्तिका ।

पायन्तिक ४१

SC 126 यः पुनर् भिक्षुर् जानन् सप्राणकम् उदकं परिभुञ्जीत पायन्तिका ।

पायन्तिक ४२

SC 127 यः पुनर् भिक्षुर् जानन् सभोजने कुले अनुप्रस्कन्द्यासने निषद्यां कल्पयेत् पायन्तिका ।

पायन्तिक ४३

SC 128 यः पुनर् भिक्षुर् जानन् सभोजने कुले प्रतिच्छन्ने तिष्ठेत् पायन्तिका ।

पायन्तिक ४४

SC 129 यः पुनर् भिक्षुर् अचेलकाय वा अचेलिका यै वा परिव्राजकाय वा स्वहस्तं खादनीयभोजनीयं दद्यात् पायन्तिका ।

पायन्तिक ४५

SC 130 यः पुनर् भिक्षुर् उद्युक्तां सेनां दर्शनायोपसंक्रामेत् पायन्तिका ।

पायन्तिक ४६

SC 131 स्याद् भिक्षो स् तद्रूपः प्रत्ययः उद्युक्तां सेनां दर्शनाय उपसंक्रमितुं द्विरात्रपरमं तेन भिक्षुणा तस्यां सेनायां विप्रवस्तव्यं तत उत्तरि विप्र वसेत् पायन्तिका

पायन्तिक ४७

SC 132 द्विरात्रपरम म् अपि चेद् भिक्षुस् तस्यां सेनायां विप्रवसां उद्यूषिकां वा गच्छेद् ध्वजाग्रं वा बलाग्रं वा सेनाव्यूहम् अनीकदर्शनं वा प्रत्यनुभवेत् पायन्तिका ।

पायन्तिक ४८

SC 133 यः पुनर् भिक्षुः कुपितश् चण्डीभूतो ’नात्तमना भिक्षोः प्रहारं दद्यात् पायन्तिका ।

पायन्तिक ४९

SC 134 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ’नात्तमना भिक्षोः प्रहारम् उप दर्शयेत् अन्ततस् तलशक्तिक् अम् अपि पायन्तिका ।

पायन्तिक ५०

SC 135 यः पुनर् भिक्षुर् जानन् भिक्षोः दुष्ठुलाम् आपत्तिं प्रतिच्छादयेत् पायन्तिका ।

पायन्तिक ५१

SC 136 यः पुनर् भिक्षुर् भिक्षुम् एवं वदेद् एह्य् आयुष्मन् कुलान्य् उपसंक्रमावस् तत्र ते दापयिष्यामि खादनीयभोज नीयं यावदाप्तं । स तस्य दापयित्वा प्रणीतं खादनीयभोजनीयं यावदाप्तं ततः पश्चाद् एवं वदेद् गच्छ त्वम् आयुष्मन् न मम त्वया सार्धं स्पर्शो ’पि तु एकाकिन एव मे स्पर्शो भवति कथायां वा निषद्यायां वा इत्य् उद्योजनप्रेक्षी कश्चिद् एष भिक्षुर् उद्योजितो भविष्यतीत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ।

पायन्तिक ५२

SC 137 यः पुन र् भिक्षुर् आत्मार्थम् अग्लानो वितपनप्रेक्षी ज्योतिः समवधव्यात् समवधापयेद् वा पायन्तिका ।

पायन्तिक ५३

SC 138 यः पुनर् भिक्षुर् धार्मिकसंघकरणीये भिक्षोश् छन्दं दत्वा पश्चाद् अभिषक्तः कुपितश् चण्डीभूतो नात्तमना क्षेपधर्मम् आपद्येत । आहर भिक्षोश् छन्दं न ते ददामीति पायन्तिका ।

पायन्तिक ५४

SC 139 यः पुनर् भिक्षुर् अनुपसंपन्नेन पुद्गलेन सार्धं द्विरात्राद् ऊर्ध्वं सहागार शय्यां कल्पयेत् पायन्तिका

पायन्तिक ५५

SC 140 यः पुनर् भिक्षुर् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये अन्तरायिका धर्मा उक्ता भगवता ते प्रतिसेव्यमाना नालम् अन्तरायायेति । सो भिक्षुर् भिक्षुभि र् इदं स्याद् वचनीयो मा त्वम् आयुष्मन्न् एवं वोचस् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये अन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना नालम् अन्तरायाय इति । मा भगवन्तम् अभ्याचक्षुः न साधु भवति भगवतो ’भ्याख्यानं न च पुनर् भगवान् एवम् आह अनेकपर्यायेण आयुष्मन्न् अन्तरायिका धर्माः सन्तः अन्तरायिका एवोक्ता भगवता ते च प्रतिसेव्यमाना अलम् अन्तरायायेति नि सृज त्वम् आयुष्मन्न् एवंरूपं पापकं दृष्टिगतं । सो भिक्षुर् भिक्षुभिर् उच्यमानस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यस् तस्य प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनि सृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् पायन्तिका ।

पायन्तिक ५६

SC 141 यः पुनर् भिक्षुर् जानंस् तथावादिनं पुद्गलम् अकृतानुधर्माणम् अप्रतिनि सृष्टे तस्मिन् पापके दृष्टिगते आला पयेत् संलपेत् तेन सार्धं संवसेत् संभुंजीत सहागारशय्याम् अपि कल्पयेत् पायन्तिका ।

पायन्तिक ५७

SC 142 श्रमणोद्देशश् चाप्य् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये अन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना नालम् अन्तरायायेति । स श्रमणोद्देशो भिक्षुभिर् इदं स्याद् वचनीयो मा त्वम् आयुष्मन् श्रमणोद्देश एवं वोचः तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये अन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना नालम् अन्तरायायेति । मा भगवन्तम् अभ्याचक्षुः न साधु भव ति भगवतो ’भ्याख्यानं न च पुनर् भगवान् एवाह अनेकपर्यायेण श्र मणोद्देश अन्तरायिका धमाः सन्तः अन्तरायिका एवोक्ता भगवता ते च प्रतिसेव्यमाना अलम् अन्तरायायेति । निःसृज त्वम् श्रमणोद्देश एवंरूपं दृष्टिगतम् । स श्रमणोद्देशो भिक्षुभिर् उच्यमानस् तद् वस्तु चेत् प्रतिनि सृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनिःसृजेद् इत्य् एवं कुशलं नो चेत् प्रतिनिःसृजेत् स श्रमणोद्देशो भिक्षुभिर् इदं स्याद् वचनीयो ’द्याग्रेणायुष्मन् श्रमणोद्देश नासौ भगवांस् तथागतः अर्हन् सम्यक्संबुद्धः शास्ता । एवंरूपस्यान्यतमान्यत्मस्य ब्रह्मचारिणः पृष्टतः मा समनुबधान यावद् अप्य् अन्ये श्रमणोद्देशाः लभन्ते भिक्षुभिः सार्धं द्विरात्रपरमं सहागारशय्यां सापि ते अद्याग्रेण नास्ति चर चरेण मोहपुरुष नश्यति । यः पुनर् भिक्षुर् जानन् तथानाशितं श्रमणोद्देशम् उपस्थापयेद् वा उपलालयेद् वा तेन वा सार्धं सहागारशय्यां कल्पयेत् पायन्तिका ।

पायन्तिक ५८

SC 143 नवं खलु भिक्षुणा चीवरं प्रतिलभ्य त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमः नीलो वा लोहितो वा पीतो वा दुर्वर्णीकरणाय आदातव्यो ’नादाय चेद् भिक्षुस् त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमं दुर्वणीकरणं नीलं वा लोहितं वा पीतं वा नवं चीवरं परिभुंजीत पायन्तिका ।

पायन्तिक ५९

SC 144 यः पुनर् भिक्षु रत्नं वा रत्नसंमतं वा स्वहस्तेन उद्गृह्णीयाद् उद्ग्राहयेद् वान्यत्राध्यारामगताद् वाध्यावासगताद् वा पायन्तिका । भिक्षुणाध्यारामगतं वाध्यावासगतं वा रत्नं रत्नसंमतं वा उद्ग्रहीतव्यं यस्येदं भविष्यति सो हरिष्यति इत्य् एवं मनसिकृत्वा । अयं तत्र समयः ।

पायन्तिक ६०

SC 145 भगवता देशितम् अन्वर्धमासं स्नायाद् अन्यत्र समयात् तदतिक्रमात् पायन्तिका । अयं तत्र समयः—अध्यर्धो मासः शेषो ग्रीष्माणां पूर्वो मासो वर्षाणां इत्य् एते अर्धतृतीयमासा उष्णसमयो ’वशिष्टं ग्लानसमयः कर्मसमयो वृष्टिसमयो वातवृष्टिसमयो ’यं तत्र समयः ।

पायन्तिक ६१

SC 146 यः पुनर् भिक्षुः संचिन्त्य तीर्यग्योनिगतं प्राणिनं जीविताद् व्यपरोपयेत् पायन्तिका ।

पायन्तिक ६२

SC 147 यः पुनर् भिक्षुः संचिन्त्य कच्चिद् अस्य भिक्षोर् मुहूर्तम् अपि तावद् अफाषं स्पर्शं भवेद् एतद् एव प्रत्ययं कृत्वा भिक्षोः कौकृत्यम् उपसंहरेत् पातयन्तिका ।

पायन्तिक ६३

अङ्गुलिप्रतोदनात् पायन्तिका ।

पायन्तिक ६४

उदकहर्षणात् पायन्तिका ।

पायन्तिक ६५

SC 148 यः पुनर् भिक्षुर् मातृग्रामेण सार्धं सहागारशय्यां कल्पयेत् पायन्तिका ।

पायन्तिक ६६

SC 149 यः पुनर् भिक्षुर् भिक्षुं भीषयेद् भीषापयेद् वान्ततो हास्यप्रेक्ष्यम् अपि पायन्तिका ।

पायन्तिक ६७

SC 150 यः पुनर् भिक्षुर् भिक्षोर् वा भिक्षुण्या वा शिक्षमाणाया वा श्रामणेरस्य वा श्रामणेरिकाया वा पात्रं वा चीवरं वा उपानहं वा सूचीघरं वा कायबन्धनं वान्यतमान्यतमं वा जीवितपरिष्कारम् उपनिदध्याद् उपनिधापयेत् तद्रूपप्रत्ययाद् अन्यत्र पायन्तिका ।

पायन्तिक ६८

SC 151 यः पुनर् भिक्षुर् भिक्षोश् चीवरम् विकल्य ततः पश्चाद् अप्रत्युद्धार्य परिभुंजीत पायन्तिका ।

पायन्तिक ६९

SC 152 यः पुनर् भिक्षुः कुपितो ’नात्तमना परिशुद्धं अनापत्तिकं भिक्षुं अमूलकेन संघावशेषेण धर्मेणानुध्वंसयेत् पायन्तिका ।

पायन्तिक ७०

SC 153 यः पुनर् भिक्षुर् अपुरुषया स्त्रिया सार्धं संविधायाध्वमार्गं प्रतिपद्येतान्ततो ग्रामान्तरम् अपि पायन्तिका ।

पायन्तिक ७१

SC 154 यः पुनर् भिक्षुः स्तेयसार्थेन सार्धं संविधायाध्वमार्गं प्रतिपद्येतान्ततो ग्रामान्तरम् अपि पायन्तिका ।

पायन्तिक ७२

SC 155 यः पुनर् भिक्षुर् ऊनविंशवर्षं पुद्गलं भिक्षुभावायोपसंपादयेत पायन्तिका । स च पुद्गलो ’नुपसंपन्नस् ते च भिक्षवो गर्ह्या अयं तत्र समयः ।

पायन्तिक ७३

SC 156 यः पुनर् भिक्षुः स्वहस्तेन पृथिवीं खन्यात् खानयेद् वा पायन्तिका ।

पायन्तिक ७४

SC 157 चातुर्मासिकप्रवारणा भिक्षुणा स्वीकर्तव्या ततोत्तरं पायन्तिका । प्रत्येकप्रवारणाया पुनः पुनः प्रवारणायाः कालिकप्रवारणाया नित्यप्रवारणाया अन्यत्र अयं तत्र समयः ।

पायन्तिक ७५

SC 158 यः पुनर् भिक्षुर् भिक्षुभिर् आयुष्मता त्वया शिक्षायां शिक्षितव्यम् इति उच्यमान एवं वदेन् नाहं तव बालस्य मूढस्य दुष्प्रज्ञस्य वचनानि शिक्षिष्यामि यावन् नाहं भिक्षून् प्रक्ष्यामि सूत्रधरान् विनयधरान् मातृकधरान् इति पायन्तिका । सर्वज्ञताकामेन भिक्षुणा शिक्षायां शिक्षितव्यं भिक्षवः प्रष्टव्याः सूत्रधरा विनयधरा मातृकधरा अयं तत्र समयः ।

पायन्तिक ७६

SC 159 यः पुनर् भिक्षुर् भिक्षूणां कलहजातानां भण्डनजातानां भेदगृहीतानां विवादम् आपन्नानां तूष्णीम् उपश्रुतिकस् तिष्ठेद् यद् एते भिक्षवो वक्ष्यन्ति तद् अहं धारयिष्यामीत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका ।

पायन्तिक ७७

SC 160 यः पुनर् भिक्षुः संघे धर्मिकायां विनिश्चयकथायां वर्तमानायां आसनात् तूष्णीम् उत्थाय प्रक्रामेत् सन्तं भिक्षुम् अनवपृच्छ्यान्यत्र तद्रूपप्रत्ययात् पायन्तिका ।

पायन्तिक ७८

अनादरवृत्तात् पायन्तिका ।

पायन्तिक ७९

सुरामैरेयमद्यपानात् पायन्तिका ।

पायन्तिक ८०

SC 161 यः पुनर् भिक्षुर् अकाले ग्रामं प्रविशेत् सन्तं भिक्षुम् अनवपृच्छ्य अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।

पायन्तिक ८१

SC 162 यः पुनर् भिक्षुः सभक्तः कुले निमन्त्रितः पूर्वभक्तं पश्चाद्भक्तं कुलेषु चारित्रम् आपद्येत सन्तं कुलं अप्रतिसंवेदितो ’न्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।

पायन्तिक ८२

SC 163 यः पुनर् भिक्षुर् अनिर्गतायां रजन्याम् अनुद्गते ’रुणे अनिर्हृतेषु रत्नेषु रत्नसंमतेषु वा राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य इन्द्रकीलं वा इन्द्रकीलसामन्तकं वा समतिक्रनेद् अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।

पायन्तिक ८३

SC 164 यः पुनर् भिक्षुर् अन्वर्धमासं प्रातिमोक्षसूत्रे उद्दिश्यमाने एवं वदेद् इदानीम् अहं जानामि आयुष्मन्तो ’यम् अपि किल धर्मः सूत्रगतः सूत्रपर्यायापन्नोद्देश्यम् आगच्छतीति तत्रायुष्मन्तं चेद् भिक्षवो जानीयुः निषण्णपूर्वं आयुष्मता द्वित्रिकृत्वं पोषधे कः पुनर् वादो भूय इति आयुष्मतो अज्ञानतः न मुक्तिः यत आपत्तिम् आपन्नः ततो यथाधर्मं कारयितव्य उत्तरं च कौकृत्यम् आरोपयितव्यं—आयुष्मन् ते अलाभो ’लब्धः दुर्लब्धो न सुलब्धो यत् त्वं अन्वर्धमासं प्रातिमोक्षसूत्रोद्दिश्यमाने न सत्कृत्य शृणोषि न गुरुकरोषि नार्थिकरोषि न मनसिकरोषि एकाग्रचित्तेनावहितश्रोत्रेण न शृणोषि सर्वचित्तसंकल्पैर् अपि न शृणोषि । आयुष्मन् तत्र कौकृत्यात् पायन्तिका ।

पायन्तिक ८४

SC 165 यः पुनर् भिक्षुर् अस्थिमयं वा विषाणमयं वा सूचिघरं कारयेत् तद् भेदनात् पायन्तिका ।

पायन्तिक ८५

SC 166 भिक्षुणा संघस्य पीठं वा मञ्चं कारयता सुगताष्टाङ्गुलिप्रमाणाः पादाः कारयितव्या अन्यत्र अधस्तात् अटन्यास् तत उत्तरं कारयेच् छेदनात् पायन्तिका ।

पायन्तिक ८६

SC 167 यः पुनर् भिक्षुस् तूलसंस्तृतं पीठं वा मञ्चं अवनहेद् अवनाहयेद् वा उद्दलनात् पायन्तिका ।

पायन्तिक ८७

SC 168 निषीदनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं—दीर्घतो वितस्त्री द्वे सुगतवितस्त्यास् तीर्यक् सार्धवितस्तिर् दशानाञ् च वितस्तिस् तत उत्तरं कारयेद् भेदनात् पायन्तिका ।

पायन्तिक ८८

SC 169 कण्डुप्रतिच्छादनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं—दीर्घतश् चतस्रो वितस्तयः सुगतवितस्त्यस् तिर्यग् द्वे तत उत्तरं कारयेच् छेदनात् पायन्तिका ।

पायन्तिक ८९

SC 170 वर्षाशाटीचीवरं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रेदं प्रमाणं—दीर्घतः षट् वितस्तयः सुगतवितस्त्यस् तिर्यक् सार्धे द्वे तत उत्तरं कारयेच् छेदनात् पायन्तिका ।

पायन्तिक ९०

SC 171 यः पुनर् भिक्षुः सुगतचीवरप्रमाणं चीवरं कारयेद् उत्तरं वा सुगतचीवरात् पायन्तिका । तत्रेदं सुगतचीवरप्रमाणं दीर्घतो नव वितस्तयः तिर्यक् षड् वितस्तयः इदं सुगतचीवरप्रमाणम् ।


SC 172 उद्दिष्टा मयायुष्मन्तो नवतिः पायन्तिका धर्माः । तत्राहम् आयुष्मन्तः पृच्छामि—कच्चित् स्थात्र परिशुद्धाः

SC 173 परिशुद्धा अत्रायुष्मन्तो यस्मात् तुष्णीम् एवाहं धारयामि ।

४ प्रतिदेशनीया रुलेस्

SC 174 इमे खल्व् आयुष्मन्तश् चत्वारः प्रतिदेशनीया धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

प्रतिदेशनीय १

SC 175 यः पुनर् भिक्षुर् अन्तगृहं पिण्डाय चरन्त्या अज्ञात्या भिक्षुण्याः सन्तिकात् सहस्तं खादनीयभोजनीयं प्रतिगृह्य खादेद् वा भुञ्जीत वा तेन भिक्षुणा बहिरारामं गत्वा भिक्षोर् अन्तिके प्रतिदेशयितव्यम् गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नो ’सात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामीति अयम् अपि धर्मः प्रतिदेशनीयः ।

प्रतिदेशनीय २

SC 176 संबहुला भिक्षवः कुलेषु निमन्त्रिता भुंजीरन् तत्र चेद् भिक्षुणी व्यपदेशमाना स्थिता स्याद् इह भोजनीयं दत्त ओदनं दत्त सूपं दत्तेति सा भिक्षुणी भिक्षुभिर् एवं स्याद् वचनीया आगमयस्व भगिनि मुहूर्तं यावद् भिक्षवो भुंजते । एकेनापि भिक्षुणा चेत् तां भिक्षुणीम् अपसारयितुं न वचनीयं सर्वैर् भिक्षुभिः बहिरारामं गत्वा भिक्षूणाम् अन्तिके प्रतिदेशितव्यं गर्ह्य म् आयुष्मन्तः स्थानम् आपन्ना असात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयाम इति अयम् अपि धर्मः प्रतिदेशनीयः ।

प्रतिदेशनीय ३

SC 177 यानि तानि कुलानि शिक्षासंवृतिसंमतानि यः पुनर् भिक्षुस् तद्रूपेषु संघस्य शैक्षेषु कुलेषु शिक्षासंवृतिसंमतेषु पूर्वम् अप्रवारितस्य खादनीयभोजनीयं प्रतिगृह्य खादेद् भुञ्जीत वा तेन भिक्षुणा बहिरारामं गत्वा भिक्षूणाम् अन्तिके प्रतिदेशनीयं तत् स्थानम् आपन्नो ’सात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामीति अयम् अपि धर्मः प्रतिदेशनीयः ।

प्रतिदेशनीय ४

SC 178 यानि तानि कानि शयनासनानि साशंकसंमतानि सभयसंमतानि सप्रतिभयभैरवसंमतानि यः पुनर् भिक्षुस् तद्रूपेषु संघस्यारण्यकेषु शयनेषु साशंकसंमतेषु सभयसंमतेषु सप्रतिभयभैरवसंमतेषु पूर्वम् अप्रतिसंविद्यते वने बहिरारामस्य खादनीयभोजनीयं खादेद् भुंजीत वा तेन भिक्षुणा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यं गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नो ’सात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामीति अयम् अपि धर्मः प्रतिदेशनीयः ।


SC 179 उद्दिष्टा मयायुष्मन्तश् चत्वारः प्रतिदेशनीया धर्माः । तत्राहम् आयुष्मन्तः परिपृच्छामि—कच्चित् स्थात्र परिशुद्धाः

द्विर् अपि त्रिर् अपि—कच्चित् स्थात्र परिशुद्धाः

SC 180 परिशुद्धा आयुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ।

१०८ शैक्षा रुलेस्

SC 181 इमे खल्व् आयुष्मन्तः संबहुलाः शैक्षा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आ गच्छन्ति ।

शैक्ष १

SC 182 परिमण्डलं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष २

SC 183 नात्युत्कृष्टं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ३

SC 184 नात्यवकृष्टं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ४

SC 185 न हस्तिशुण्डकं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ५

SC 186 न ताल पत्रं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ६

SC 187 न कुल्माषपिण्डकं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ७

SC 188 न नागशीर्षकं निवासनं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ८

SC 189 परिमण्डलं चीवरं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ९

SC 190 नात्युत्कृष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष १०

SC 191 नात्युपकृष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया ।

शैक्ष ११

सुसंवृता अन्तर्गृहे गमिष्याम इति शिक्षा करणीया ।

शैक्ष १२

SC 192 सुप्रतिच्छन्ना अन्तर्गृहे गमिष्याम इति शिक्षा करणीया ।

शैक्ष १३

अल्पशब्दा अन्तर्गृहे गमिष्याम इति शिक्षा करणीया ।

शैक्ष १४

SC 193 अनुत्क्षिप्तचक्षुषो ’न्तर्गृहे गमिष्याम इति शिक्षा करणीया ।

शैक्ष १५

SC 194 युगमात्रदर्शिनो ’न्तर्गृहे गमिष्याम इति शिक्षा करणीया ।

शैक्ष १६

SC 195 नोद्गुण्ठिका अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष १७

SC 196 नोत्कृष्टिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष १८

SC 197 नोत्सक्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष १९

SC 198 न व्यस्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २०

SC 199 न पर्यस्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २१

SC 200 नोलम्बिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २२

SC 201 नोट्टम्बिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २३

SC 202 नोत्कुटकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २४

SC 203 न निकटोत्कुटकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २५

SC 204 न स्कम्भाकृता अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २६

SC 205 न कायप्रचालकं अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २७

SC 206 न बाहुप्रचालकं अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष २८

SC 207 न शीर्षप्रचालकं गमिष्याम इति शिक्षा करणीया । ।

शैक्ष २९

SC 208 नांसोत्फतिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष ३०

SC 209 न हस्तसंलग्निकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया ।

शैक्ष ३१

SC 210 नानुज्ञाता अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३२

SC 211 नाप्रतिवेक्ष्यासनं अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३३

SC 212 न सर्वकायं समवधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३४

SC 213 न पादे पादम् आधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३५

SC 214 न गुल्फे गुल्फम् आधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३६

SC 215 न सक्थनि सक्थि आधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३७

SC 216 न संक्षिप्य पादौ अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३८

SC 217 न विक्षिप्य पादौ अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ३९

SC 218 न व्यतङ्गिकया अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया ।

शैक्ष ४०

SC 219 सत्कृत्य पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।

शैक्ष ४१

SC 220 समतीर्थिकं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।

शैक्ष ४२

SC 221 समसूपिकं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।

शैक्ष ४३

SC 222 सावदानं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।

शैक्ष ४४

SC 223 न अनागते खादनीयभोजनीये पात्रम् उपनामयिष्याम इति शिक्षा करणीया ।

शैक्ष ४५

SC 224 नोदनेन सूपिकं प्रतिच्छादयिष्याम इति शिक्षा करणीया ।

शैक्ष ४६

SC 225 सूपिकेन वा ओदनं भूयस्कामताम् उपादाय इति शिक्षा करणीया ।

शैक्ष ४७

SC 226 नोपरि खादनीयभोजनीयस्य पात्रं धारयिष्याम इति शिक्षा करणीया ।

शैक्ष ४८

SC 227 सत्कृत्य पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ४९

SC 228 नातिखुण्डकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५०

SC 229 नातिमहान्तं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५१

SC 230 परिमण्डलं आलोपम् आलोपयिष्याम इति शिक्षा करणीया ।

शैक्ष ५२

SC 231 न अनागते आलोपे मुखद्वारं विवरिष्याम इति शिक्षा करणीया ।

शैक्ष ५३

SC 232 न सालोपेन मुखेन वाचं प्रव्याहरिष्याम इति शिक्षा करणीया ।

शैक्ष ५४

SC 233 न चुच्चत्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५५

SC 234 नशुशशुत्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५६

SC 235 न थुत्युत्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५७

SC 236 न फुफ्फुफ्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५८

SC 237 न जिह्वानिश्चारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ५९

SC 238 न सिक्थपृथक्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६०

SC 239 नावर्णकारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६१

SC 240 न गल्लापहारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६२

SC 241 न जिह्वास्फोटकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६३

SC 242 न कवलच्छेदकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६४

SC 243 न हस्तावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६५

SC 244 न पात्रावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६६

SC 245 न हस्तसंधूनकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६७

SC 246 न पात्रसंधूनकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६८

SC 247 न स्तूपाकृतिम् अवगृह्य पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया ।

शैक्ष ६९

SC 248 नावध्यानप्रेक्षिणो ’न्तरिकस्य भिक्षोः पात्रम् अवलोकयिष्याम इति शिक्षा करणीया ।

शैक्ष ७०

SC 249 न सामिषेण पाणिना उदकस्थालकं ग्रहीष्याम इति शिक्षा करणीया ।

शैक्ष ७१

SC 250 न सामिषेणोदकेनान्तरिकं भिक्षुं सेक्ष्याम इति शिक्षा करणीया ।

शैक्ष ७२

SC 251 न सामिषम् उदकम् अन्तर्गृहे छोरयिष्याम इति शिक्षा करणीया ।

शैक्ष ७३

SC 252 न पात्रेण विघसंश् छोरयिष्याम इति शिक्षा करणीया ।

शैक्ष ७४

SC 253 अनास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयिष्याम इति शिक्षा करणीया ।

शैक्ष ७५

SC 254 न तटे न प्रपाते न प्राग्भारे पात्रं स्थापयिष्याम इति शिक्षा करणीया ।

शैक्ष ७६

SC 255 नोत्थिताः पात्रं निर्मादयिष्याम इति शिक्षा करणीया ।

शैक्ष ७७

SC 256 न तटे न प्रपाते न प्राग्भारे पात्रं निर्मादयिष्याम इति शिक्षा करणीया ।

शैक्ष ७८

SC 257 न नद्याः कार्यकारिण्या प्रतिस्रोतः पात्रोदकं ग्रहीष्याम इति शिक्षा करणीया ।

शैक्ष ७९

SC 258 न उत्थिता निषण्णायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८०

SC 259 न निषण्णा निपण्णायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८१

SC 260 न नीचतरके आसने निषण्णा उच्चतरके आसने निषण्णायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८२

SC 261 न पृष्ठतो गच्छन्तः पुरतो गच्छते अग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८३

SC 262 नोन्मार्गेण गच्छन्तो मार्गेण गच्छते आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८४

SC 263 नोद्गुण्ठिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८५

SC 264 नोत्कृष्टिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८६

SC 265 नोत्सक्तिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८७

SC 266 न व्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८८

SC 267 न पर्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ८९

SC 268 नोष्णीषशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९०

SC 269 न खोलाशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९१

SC 270 न मौलिशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९२

SC 271 न मालाशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९३

SC 272 न वेष्टितशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९४

SC 273 न हस्त्यारूढाय आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९५

SC 274 न अश्वारूढाय आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९६

SC 275 न शिविकारूढाय आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९७

SC 276 न यानारुढाय आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९८

SC 277 न पादुकारूढाय आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष ९९

SC 278 न दण्डपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष १००

SC 279 न छत्रपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष १०१

SC 280 न शस्त्रपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष १०२

SC 281 न खड्गपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष १०३

SC 282 नायुधपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष १०४

SC 283 संनद्धायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया ।

शैक्ष १०५

SC 284 नाग्लाना उत्थिता उच्चारप्रस्रावं करिष्याम इति शिक्षा करणीया ।

शैक्ष १०६

SC 285 नाग्लानाः उदके उच्चारप्रस्रावं खेटं सिंघाणकं वान्तं विरिक्तं छोरयिष्याम इति शिक्षा करणीया ।

शैक्ष १०७

SC 286 नाग्लाना सहरिते पृथिवीप्रदेशे उच्चारप्रस्रावं खेटं सिंघाणकं वान्तं विरिक्तं छोरयिष्याम इति शिक्षा करणीया ।

शैक्ष १०८

SC 287 नासाधिकपौरुषं वृक्षम् अधिरोक्ष्यामो ’न्यत्रापद इति शिक्षा करणीया ।


SC 288 उद्दिष्टा मे आयुष्मन्तः संबहुलाः शैक्षा धर्माः । तत्राहम् आयुष्मतः परिपृच्छामि—कच्चित् स्थात्र परिशुद्दाः

SC 289 द्विर् अपि त्रिर् अपि परिपृच्छामि—कच्चित् स्थात्र परिशुद्धाः

SC 290 परिशुद्धा आयुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥

७ अधिकरणशमथ

SC 291 इमे खल्व् आयुष्मन्तः सप्ताधिकरणशमथाः धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति ।

अधिकरणशमथ १

संमुखविनयार्हाय संमुखविनयं दास्यामः ।

अधिकरणशमथ २

स्मृतिविनयार्हाय स्मृतिविनयं दास्यामः ।

अधिकरणशमथ ३

अमूढविनयार्हाय अमूढविनयं दास्यामः ।

अधिकरणशमथ ४

यद्भूयेषियार्हाय यद्भूयेषियं दास्यामः ।

अधिकरणशमथ ५

तत्स्वभावेषियार्हाय तत्स्वभावेषियं दास्यामः ।

अधिकरणशमथ ६

तृणप्रस्तारकार्हाय तृणप्रस्तारकं दास्यामः ।

अधिकरणशमथ

प्रतिज्ञाकारकार्हाय प्रतिज्ञां दास्यामः ।

SC 292 उत्पन्नोत्पन्नान्य् अधिकरणान्य् एभिः सप्तभिर् अधिकरणशमथैर् धर्मैर् दापयिष्यामः शमयिष्यामो व्युपशमयिष्यामो धर्मविनये शास्तुः शासने ।


SC 293 उद्दिष्टा मे आयुष्मन्तः सप्ताधिकरणशमथा धर्माः ।

SC 294 तत्राहम् आयुष्मतः परिपृच्छामि—कच्चित् स्थात्र परिशुद्धाः

SC 295 द्विर् अपि त्रिर् अपि परिपृच्छामि—कच्चित् स्थात्र परिशुद्धाः ।

SC 296 परिशुद्धा आयुष्मन्तो यस्मात् तूष्णीम् एवम् एवाहं धारयामि ।

SC 297 फ़ोर् थे प्रोसे अन्द् वेर्सेस् सेए क्लौस् त्। स्छ्मिद्त् : देर् स्छ्लुßतेइल् देस् प्रातिमोक्षसूत्र देर् सर्वास्तिवादिन्स्, तेxत् इन् सन्स्क्रित् उन्द् तोछरिस्छ् अ वेर्ग्लिछेन् मित् देन् परल्लेल्वेर्सिओनेन् अन्देरेर् स्छुलेन्, औफ़् ग्रुन्द् वोन् तुर्फ़न्-हन्द्स्छ्रिफ़्तेन् ह्र्स्ग्। , गऺत्तिन्गेन् १९८९ (सन्स्क्रित्तेxते औस् देन् तुर्फ़न्फ़ुन्देन्, १३)।

चोन्च्लुसिओन्

SC 298 उद्दिष्टं मे आयुष्मन्तः प्रातिमोक्षसूत्रोद्देशस्य निदानं ॥ उद्दिष्टाश् चत्वारः पाराजिका धर्मास् त्रयोदश संघावशेषा धर्मा द्वाव् अनियतौ धर्मौ । त्रिंशन् नैःसर्गिकपायन्तिका धर्माः नवति पायन्तिका धर्माश् चत्वारः प्रतिदेशनीया धर्माः संबहुला शैक्षा धर्माः सप्ताधिकरणशमथा धर्मा एताव त् तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य सूत्रगतं सूत्रपर्यापन्नम् इति यो वा पुनर् अन्यो ’प्य् आगच्छेद् धर्मस्यानुधर्मः तत्र सहितैः समग्रैः संमोदमानैर् अविवदमानैस् तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः ॥ ॥

चोन्च्लुदिन्ग् वेर्सेस्

SC 299 क्षान्तिः परमं तपस् तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः ।
न हि प्रव्रजितः परोपतापी श्रमणो भवति परान् विहेठयानः ॥ वेर्से १

SC 300 चक्षुष्मान् विषमाणीव विद्यमाने पराक्रमे ।
पण्डितो जीवलोके ’स्मिन् पापानि परिवर्जयेत् ॥ वेर्से २

SC 301 अनोपवादी नोपघाती प्रातिमोक्षे च संवरः ।
मात्रज्ञता च भक्ते ’स्मिन् प्रान्तं च शयनासनम्
अधिचित्ते समायोग एतद् बुद्धानुशासनम् ॥ वेर्से ३

SC 302 यथापि भ्रमरः पुष्पाद् वर्णगन्धाव् अहेठयन् यथा हि
डयते रसम् आदाय एवं ग्रामे मुनिश् चरेत् ॥ वेर्से ४

SC 303 न परेषां विलोमानि न परेषां कृताकृतम् ।
आत्मनस् तु समीक्षेत समानि विषमाणि च ॥ वेर्से ५

SC 304 अधिचेतसि मा प्रमाद्यतो मुनिनो मौनपदेषु शिक्षतः ।
शोका न भवन्ति तायिन उपशान्तस्य सदा स्मृतिमतः ॥ वेर्से ६

SC 305 ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते ।
कुशली प्रजहाति पापकं क्लेशानां क्षयतस् तु निर्वृतिः ॥ वेर्से ७

SC 306 सर्वपापस्याकरणं कुशलस्योपसंपदा ।
स्वचित्तपरिदमनम् एतद् बुद्धानुशासनम् ॥ वेर्से ८

SC 307 कायेन संवरः साधु साधु वाचाथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः ।
सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ वेर्से ९

SC 308 वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात् ।
एतांस् त्रीन् कर्मपथान् विशोध्य नारागयेन् मार्गम् ऋषिप्रवेदितम् ॥ वेर्से १०

SC 309 बुद्धो विपश्यी च शिखी च विश्वभु क्रकुत्सुन्दः कनकमुनिश् च काश्यपः ।
अनुत्तरः शाक्यमुनिश् च गौतमो देवातिदेवो नरदम्यसारथिः ॥ वेर्से ११

SC 310 सप्तानां बुद्धवीराणां लोकनाथाग्रतायिनां ।
उद्दिष्टः प्रातिमोक्षो ’यं विस्तरेण यशस्विनाम् ॥ वेर्से १२

SC 311 अस्मिन् सगौरवा बुद्धा बुद्धानां श्रावकाश् च ये ।
अस्मिन् सगौरवा भूत्वा प्राप्नुमध्वम् असंस्कृतम् ॥ वेर्से १३

SC 312 आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ वेर्से १४

SC 313 यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ वेर्से १५

SC 314 अन्योन्यं शीलगुप्त्यर्हं शासनस्य च वृद्धये ।
उद्दिष्टः प्रातिमोक्षो ’यं कृतः संघेन पोषधः ॥ वेर्से १६

SC 315 यस्यार्थे सूत्रम् उद्दिष्टं यस्यार्थे पोषधः कृतः ।
तच् छीलम् अनुरक्षध्वं बालाग्रं चमरो यथा ॥ वेर्से १७

SC 316 प्रातिमोक्षसमुद्देशाद् यत् पुण्यं समुपार्जितं ।
अशेषस् तेन लोको ’यं मौनीन्द्रं पदम् आप्नुयात् ॥ वेर्से १८

॥। प्रातिमोक्षः समाप्तः ॥।

अनुकुल् छन्द्र बनेर्जेए , प्रातिमोक्ष-सूत्र (मूलसर्वास्तिवाद) , चल्चुत्त १९५४। फ़िर्स्त् पुब्लिस्हेद् इन् इह्क़् २९ (१९५३), प्प्। १६२–१७४।

रेप्रिन्तेद् wइथ् स्लिघ्त् मोदिफ़िचतिओन्स् (नोत् इन्दिचतेद्) अस्: प्रातिमोक्ष सूत्र, इन्: त्wओ बुद्धिस्त् विनय तेxत्स् इन् सन्स्क्रित्, प्रातिमोक्ष सूत्र अन्द् भिक्षुकर्मवाक्य , एदितेद् ब्य् अनुकुल् छन्द्र बनेर्जेए , चल्चुत्त १९७७, प्प्। ८–५६।

थे तेxत् wअस् बसेद् ओन् अ सन्स्क्रित् मनुस्च्रिप्त् ओफ़् थे मूलसार्वास्तिवाद स्छोओल्, गिल्गित् बुद्धिस्त् मनुस्च्रिप्त् नो। ३, सुप्प्लेमेन्तेद् ब्य् रेफ़ेरेन्चे तो थे तिबेतन् तेxत्, Finot’s edition , अन्द् इन् ओने इन्स्तन्चे (पायन्तिक ८२) थे दिव्यावदान।

इन्पुत् ब्य् क्लौस् wइल्ले, गऺत्तिन्गेन् फ़ोर् GRETIL

प्रेपरेद् फ़ोर् सुत्तचेन्त्रल् ब्य् भिक्खु सुजतो